| YouTube Channel

प्रस्तुतः (prastutaH)

 
शब्दकल्पद्रुमः
Sanskrit
प्रस्तुतः, त्रि, (प्रस्तूयते स्मेति प्र + स्तु + क्तः ।)प्रकरणप्राप्तः यथा, --“अप्रस्तुतप्रशंसा सा या चैव प्रस्तुताश्रया
”इति काव्यप्रकाशः
प्राकरणिकः प्रासङ्गिकः इत्यलङ्कार-कौस्तुभः
निष्पन्नः यथा प्रस्तुतवृत्तेर्मयट् ।अन्नं प्रस्तुतं अन्नमयम् यवागूः प्रस्तुता यवागू-मयी इति कलापतद्धितः
प्रकर्षस्तुति-युक्तः प्रपूर्व्वस्तुधातोः कर्म्मणि क्तः उप-स्थितः प्रतिपन्नः उद्युक्तः इति लोकव्यव-हारदर्शनात्