| YouTube Channel

प्रस्तार्य्यर्म्म (prastAryyarmma)

 
शब्दकल्पद्रुमः
Sanskrit
प्रस्तार्य्यर्म्म, [न्]
क्ली,
नेत्ररोगभेदः तस्यलक्षणम् ।“प्रस्तार्य्यर्म्म तनुस्तीर्णं श्यावं रक्तनिभं सिते
”इति माधवकरः
अपि ।“समन्ताद्बिस्तृतः श्यावो रक्तो वा मांससञ्चयः ।सन्निपातेन दोषाणां प्रस्तार्य्यर्म्म तदुच्यते
”इति रक्षितधृतनिमिः
तस्यौषधम् ।“कतकस्य फलं शङ्खं त्र्यूषणं सैन्धवान्वितम् ।फेनो रसाञ्जनं क्षौद्रं विडङ्गानि मनःशिला
कुक्कटाण्डकपालानि वर्त्तिरेषा व्यपोहति ।तिमिरं पटलं काचमर्म्मशुक्रं तथव
कण्डूक्लेदावूदं हन्ति मलमाशु सुखावती
”इति चक्रपाणिदत्तः
वाचस्पत्यम्
Sanskrit
प्रस्तार्य्यर्म्म
न०
“समन्ताद्विस्तृतः श्यावो रक्ता वा मास-सञ्चयः सन्निपातेन दोषाणां प्रस्तार्य्यर्म्म तदुच्यते”वैद्यकोक्ते नेत्ररोगभेदे