| YouTube Channel

प्रसज्यप्रतिषेधः (prasajyapratiSedhaH)

 
शब्दकल्पद्रुमः
Sanskrit
प्रसज्यप्रतिषेधः,
पुं,
(प्रसज्य प्रवृत्तिं सम्पाद्य प्रति-षेधो निषेधः ।) निषेधविशेषः तल्लक्षणं यथा, “अप्राधान्यं विधेर्यत्र प्रतिषेधे प्रधानता ।प्रसज्यप्रतिषेधोऽसौ क्रियया सह यत्र नञ्
”अस्योदाहरणम् भोजराजः ।“पौषे चैत्रे कृष्णपक्षे नवान्नं नाचरेद्बुधः ।भवेज्जन्मान्तरे रोगी पितॄणां नोपतिष्ठते
”अत्र रोगीतिनिन्दाश्रवणात् प्रसज्यता नोप-तिष्ठते इति श्रषणात् पर्य्युदासता इति मल-मासतत्त्वम्