| YouTube Channel

प्रशमनं (prazamanaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रशमनं,
क्ली,
(प्र + शम् + णिच् + ल्युट् ।) मार-णम् वधः इति हेमचन्द्रः
(प्र + शम् +ल्युट् ।) शमता प्रशान्तिः यथा, --“सर्व्वावाधाप्रशमनं त्रैलोक्यस्याखिलेश्वरि ! ।एवमेव त्वया कार्य्यमस्मद्वैरिविनाशनम्
”इति मार्कण्डेयपुराणम् ९१ ३५
(प्रतिपादनम् दानम् इति कुल्लूकभट्टः
यथा, मनुः ५६ ।“तैः सार्द्धं चिन्तयेन्नित्यं सामान्यं सन्धिविग्रहम् ।स्थानं समुदयं गुप्तिं लब्धप्रशमनानि
”स्थिरीकरणम् प्रशमनेन स्थिरीकरणेन यथा, रघुः १४ ।“लब्धप्रशमनस्वस्थमथैनं समुपस्थिता ।पार्थिवश्रीर्द्बितीयेव शरत्पङ्कजलक्षणा
”)इति मल्लिनाथः