प्रवाहिका (pravAhikA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Spoken Sanskrit
English प्रवाहिका pravAhikA diarrhoea
प्रवाहिका pravAhikA sudden desire to evacuate
Apte
Englishप्रवाहिका [pravāhikā], Diarrhœa.
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Monier Williams Cologne
EnglishChandas
Sanskritसम-वृत्तम्, 52, 13
मात्राः - 21
सङ्ख्याजातिः - अतिजगती
द दा द दा दा द दा दा द दा दा द दा
लक्षण-मूलम् - आनन्दमिश्र-जालक्षेत्रम्
Apte Hindi
Hindiप्रवाहिका
- "प्र+वह्+ण्वुल्+टाप्, इत्वम्"
दस्त लग जाना
Shabdartha Kaustubha
Kannadaप्रवाहिका
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಗ್ರಹಿಣೀ ರೋಗ /ಅತಿಸಾರ /ಅತಿಯಾದ ಭೇದಿ
निष्पत्तिः - > प्र + वह (प्रापणे) - "ण्वुल्" (३-३-१०८)
व्युत्पत्तिः - > प्रवहति इति
Wordnet
Sanskrit अतिसारः, अन्नगन्धिः, अतीसारः, आमातिसारः, सारणः, प्रवाहिका, ग्रहणी, विरेकः, आमरक्तः, उदरामयः
सोदरपीडया बहुद्रवमलनिःसरणरोगः।
"सा अतिसारेण पीडिता।"
अतिसारः, सारणः, प्रवाहिका, विरेकः
बहुद्रवमलनिःसरणरोगः।
"सः अतिसारेण पीडितः।"
अभिधानचिन्तामणिः
Sanskritआनाहस्तु विबन्धः स्याद्ग्रहणी रुक्प्रवाहिका ।
आनाह (पुं), विबन्ध (पुं), ग्रहणी (स्त्री), प्रवाहिका (स्त्री)
शब्दकल्पद्रुमः
Sanskritप्रवाहिका, (प्रवहति मुहुर्मुहुः प्रवर्त्ततेइति । प्र + वह् + ण्वुल् । टाप् अत इत्वम् ।)ग्रहणीरुक् । इत्यमरः । २ । ६ । ५५ ॥
(यथा, मुश्रुते सूत्रस्थाने । ३१ अध्याये ।“प्रवाहिका शिरःशूलं कोष्ठशूलञ्च दारुणम् ।पिपासाबलहानिश्च तस्य मृत्युरुपस्थितः ॥
”अस्या निदानं ग्रहणीशब्दे द्रष्टव्यम् । अस्याःस्वरूपमाह चरकः ।“अग्न्यधिष्ठानमन्नस्य ग्रहणाद्ग्रहणी मता ।अपक्वं धारयेत् तत्र पक्वं त्यजति वाप्यधः ॥
”सुश्रुतोऽपि ।“षष्ठी पित्तधरा नाम या कला परिकीर्त्तिता ।आमपक्वाशयान्तःस्था ग्रहणी साभिधीयते ॥
ग्रहण्या बलमग्निर्हि स चापि ग्रहणीश्रितः ।तस्मादग्नौ प्रदुष्टे तु ग्रहण्यपि विदुष्यति ॥
तस्मात् कार्य्यः परीहारो ह्यतीसारे विरिक्त-वत् ॥
” * ॥
अतीसारे द्रवधातुप्रवृत्तिः ग्रहण्यान्तु बद्धस्यापिमलस्य प्रवृत्तिरिति तयोर्भेदः ॥
* ॥
ग्रहणी-रोगस्य भेदं संग्रहग्रहणीरोगमाह ।“द्रवं घनं सितं स्निग्धं सकटीवेदनं शकृत् ।आमं बहुसपैच्छिल्यं सशब्दं मन्दवेदनम् ॥
पक्षान्मासाद्दशाहाद्वा नित्यञ्चापि विमुञ्चति ।अन्त्रकूजनमालस्यं दौर्ब्बल्यं सदनं भवेत् ॥
दिवा प्रकोपो भवति रात्रौ शान्तिञ्च गच्छति ।दुर्व्विज्ञेया दुर्निवारा चिरकालानुबन्धिनी ॥
सा भवेदामवातेन संग्रहग्रहणी मता ॥
”अथ घटीयन्त्राख्यं ग्रहणीरोगमाह ।“प्रसुप्तिः पार्श्वयोः शूलं तथा जलघटीध्वनिः ।तं वदन्ति घटीयन्त्रमसाध्यं ग्रहणीगदम् ॥
”अथ ग्रहणीरोगस्यारिष्टमाह ।“यैर्लक्षणैः सिध्यति नातिसार-स्तैः स्यान्न साध्यो ग्रहणीगदोऽपि ।वृद्धस्य जायेत यदा गदोऽयंदेहं तदा तस्य विनाशमृच्छेत् ॥
” * ॥
अथ सामान्यग्रहणीरोगस्य चिकित्सामाह ।“ग्रहणीमाश्रितं रोगमजीर्णवदुपाचरेत् ।लङ्घनैर्द्दीपनीयैश्च मन्दातीसारभेषजैः ॥
दोषं सामं निरामञ्च विद्यादत्रातिसारवत् ।अतीसारोक्तविधिना तस्यामञ्च विपाचयेत् ॥
पेयादि पटु लघ्वन्नं पञ्चकोलादिभिर्युतम् ।दीपनानि च तक्रञ्च ग्रहण्यां योजयेद्भिषक् ॥
कपित्थविल्वचाङ्गेरीतक्रदाडिमसाधिता ।यवागूः पाचयत्यामं शकृत् संवर्त्तयत्यपि ॥
”संवर्त्तयति घनीकरोति ॥
अथ खड्यूषः ।“मुद्गयूषं रसं तक्रं धान्यजीरकसंयुतम् ।सैन्धवेनान्वितं दद्यात् स्वड्यूषमिति कीर्त्ति-तम् ॥
”रसं लघुग्राहिकमांसभवम् ॥
* ॥
“कर्षं गन्धकमर्द्धपारदमुभे कुर्य्याच्छुभां कज्जलींत्र्यक्षं त्र्यूषणतश्च पञ्चलवणं सार्द्धञ्च कर्षं पृथक् ।भृष्टं हिङ्गु च जीरकद्वययुतं सर्व्वार्द्धभागान्वितंखादेट्टङ्कमितं प्रवृत्तिगदवांस्तक्रस्य विल्वेन च ॥
लघुनायिकाचूर्णमित्यर्थः ॥
इति लघुलाईचूर्णम् ॥
“त्रिकटु त्रिफला चैव विडङ्गं जीरकद्वयम् ।भल्लातकं यवानी च हिङ्गुलवणपञ्चकम् ॥
गृहधूमो वचा कुष्ठं रसो गन्धकमभ्रकम् ॥
क्षारत्रयाजमोदे च चित्रकं गजपिप्पली ॥
मुस्ता मोचरसं पाठा लवङ्गं जातिपत्रकम् ।समभागकृतञ्चैषां चूर्णं श्लक्ष्णं विनिर्म्मितम् ॥
शक्राशनस्य चूर्णन्तु चूर्णतुल्यं प्रदापयेत् ।मन्दाग्निकासदुर्नामप्लीहपाण्ड्वरुचिज्वरान् ॥
विष्टम्भं संग्रहं शूलं हन्यान्नानातिसारजित् ।आमवातापहं बल्यं सूतिकादोषनाशनम् ॥
वर्ज्जयेन्माषमम्लञ्च स्नानं पिशितभोजनम् ।पथ्यं काञ्जिकमत्रापि दधितक्रमथापि वा ॥
बृहल्लाईचूर्णमिदं लाईभाषितमुत्तमम् ॥
”इति बृहल्लाईचूर्णम् । बृहन्नायिकाचूर्णमितिप्रसिद्धम् ॥
* ॥
“जातीफललवङ्गैलापत्रत्वङ्नागकेशरैः ।कर्पूरचन्दनतिलत्वक्क्षीरीतगरामलैः ॥
तालीशपिप्पलीपथ्यास्थूलजीरकचित्रकैः ।शुण्ठीविडङ्गमरिचैः समभागविचूर्णितैः ॥
यावन्त्येतानि सर्व्वाणि दद्याद्भङ्गाञ्च तावतीम् ।सर्व्वचूर्णसमानांशा प्रदेया शुभ्रशर्करा ॥
कर्षमात्रमिदं खादेन्मधुना प्लावितं जनः ।नाशयेद्ग्रहणीं कासं क्षयं श्वासमरोचकम् ॥
”इति जातीफलादिचूर्णम् ॥
* ॥
“चित्रकं पिप्पलीमूलं क्षारौ लवणपञ्चकम् ।व्योषं हिङ्ग्वजमोदाञ्च चव्यञ्चैकत्र चूर्णयेत् ॥
वटिका मातुलुङ्गस्य रसैर्वा दाडिमस्य वा ।कृता विपाचयत्यामं प्रदीपयति चानलम् ॥
”क्षारौ सर्जिका यवक्षारश्च । लवणपञ्चकमिति ।“सैन्धवं रुचकञ्चैव विडं सामुद्रकंगडम् ॥
” इति ॥
व्योषं शुण्ठीपिप्पलीमरिचानि । अजमोदात्रयवानिका । मातुलुङ्गं बीजपूरकम् । इति चित्र-कादिवटिका ॥
* ॥
“श्रीफलशलाटुकल्को नागरचूर्णेन मिश्रितःसगुडः ।ग्रहणीगदमत्युग्रं तक्रभुजाशीलितो जयति ॥
”श्रीफलशलाटुः विल्वस्यामं फलम् । गुडस्यात्रभागद्वयम् । इति विल्वकल्कः ॥
* ॥
“चतुष्पलं सुधाकाण्डं त्रिपलं लवणत्रयम् ।वार्त्ताकोः कुडवञ्चार्कमूलाद्विल्वे तथानलात् ॥
दग्ध्वा द्रवेण वार्त्ताकोर्गुटिका भोजनोत्तरम् ।भुक्ता भुक्तं पचत्याशु नाशयेद्ग्रहणीगदम् ॥
कासं श्वासं तथार्शांसि विसूचीञ्च हृदामयम् ॥
”इति वार्त्ताकुगुटिका ॥
* ॥
“मुस्तकातिविषाविल्वकौटजं सूक्ष्मचूर्णितम् ।मधुना च समालीढं ग्रहणीं सर्व्वजां त्यजेत् ॥
”कौटजं इन्द्रयवः । मुस्तकादिचूर्णम् ॥
* ॥
“श्वेतो वा यदि वा रक्तः सुपक्वो ग्रहणीगदः ।गुडेनाधिकसर्जेन भक्षितेनाशु नश्यति ॥
”सर्जः रालः । सर्जरसचूर्णम् ॥
* ॥
“विल्वाब्दशक्रयवबालकमोचसिद्ध-माजं पयः पिबति यो दिवसत्रयेण ।सोऽतिप्रवृद्धचिरजग्रहणीविकारंसामं सशोणितमसाध्यमपि क्षिणोति ॥
”मोचो मोचरसः । क्षिणोति हन्ति ॥
* ॥
“प्रस्थत्रये त्वामलकीरसस्यशुद्धस्य दत्त्वार्द्धतुलां गुडस्य ।चूर्णीकृतैर्ग्रन्थिकजीरचव्य-व्योषेभकृष्णाहवुषाजमोदैः ॥
विडङ्गसिन्धुत्रिफलायवानी-पाठाग्निधान्यैश्च पलप्रमाणैः ।दत्त्वा त्रिवृच्चूर्णपलानि चाष्टा-वष्टौ च तैलस्य पचेद्यथावत् ॥
तं भक्षयेदक्षफलप्रमाणंयथेष्टचेष्टस्त्रिसुगन्धियुक्तम् ।अनेन सर्व्वे ग्रहणीविकाराःसश्वासकासस्वरभेदशोथाः ॥
शाम्यन्ति चायं चिरमन्तरग्ने-र्हतस्यं पुंस्त्वस्य च वृद्धिहेतुः ।स्त्रीणान्तु बन्ध्यामयनाशनः स्यात्कल्याणको नाम गुडः प्रसिद्धः ॥
तैले मनाक् त्रिवृद्भृष्ट्वा त्रिसुगन्धि पलं पलम् ।सिद्धे निधेयमत्रैव गुडे कल्याणपूर्व्वके ॥
”इति कल्याणकगुडः ॥
* ॥
“पिप्पली पिप्पलीमूलं चित्रकं गजपिप्पली ।धान्यकञ्च विडङ्गानि यवानी मरिचानि च ॥
त्रिफला चाजमोदा च नलिनी जीरकस्तथा ।सैन्धवं रौमकञ्चापि सामुद्रं रुचकं विडम् ॥
आरग्वधश्च त्वक्पत्रं सूक्ष्मैला चोपकुञ्चिका ।शुण्ठीशक्रयवाश्चैव प्रत्येकं कर्षसम्मिताः ॥
मृद्वीकायाः पलान्यत्र चत्वारि कथितानि हि ।त्रिवृतायाः पलान्यष्टौ गुडस्यार्द्धतुला तथा ॥
तिलतैलपलान्यष्टावामलक्या रसस्य तु ।प्रस्थत्रयमिदं सर्व्वं शनैर्मृद्वग्निना पचेत् ॥
औडम्बरं चामलकं वादरं वा यथा फलम् ।तावन्मात्रमिदं खादेद्भक्षयेद्बा यथानलम् ॥
निखिलान् ग्रहणीरोगान् प्रमेहांश्चैव विंशतिम् ।उरोघातं प्रतिश्यायं दौर्ब्बल्यं वह्रिसंक्षयम् ॥
ज्वरानपि हरेत् सर्व्वान् कुर्य्यात् कान्तिं मतिंस्वरम् ।पिचुपाठान्वयाद्धन्ति रक्तपित्तञ्च विड्ग्रहम् ॥
धातुक्षीणो वयःक्षीणः स्त्रीषु क्षीणः क्षयी च यः ।तेभ्यो हितश्च बन्ध्यायै महाकल्याणको गुडः ॥
”इति महाकल्याणकगुडः ॥
* ॥
“कुष्माण्डानां सुपक्वानां स्विन्नानां निष्कुलत्वचाम् ।सर्पिःप्रस्थे पलशतं ताम्रपात्रे शनैः पचेत् ॥
पिप्पली पिप्पलीमूलं चित्रकं गजपिप्पली ।धान्यकानि विडङ्गानि नागरं मरिचानि च ॥
त्रिफला चाजमोदा च कलिङ्गाजाजिसैन्धवम् ॥
एकैकस्य पलञ्चैकं त्रिवृतोऽष्टौ पलानि च ।तैलस्य च पलान्यष्टौ गुडात् पञ्चाशदेव तु ॥
आमलक्या रसस्यात्र प्रस्थत्रयमुदीरितम् ।तावत् पाकं प्रकुर्व्वीत मृदुना वह्निना भिषक् ॥
यावद्दर्व्वीप्रलेपः स्यात्तदैनमवतारयेत् ।औडुम्बरञ्चामलकं वादरं वा यथा फलम् ॥
तावन्मात्रमिदं खादेद्भक्षयेद्वा यथानलम् ।अनेनैव विधानेन प्रयुक्तश्च दिने दिने ॥
निहन्ति ग्रहणीरोगान् कुष्ठान्यर्शोभगन्दरान् ।ज्वरमानाहहृद्रोगगुल्मोदरविसूचिकाः ॥
कामलां पाण्डुरोगञ्च प्रमेहांश्चैव विंशतिम् ।वातशोणितवीसर्पदद्रुयक्ष्महलीमकान् ॥
वातपित्तकफान् सर्व्वान् दुष्टान् शुद्धान् समा-चरेत् ।व्याधिक्षीणा वयःक्षीणाः स्त्रीषु क्षीणाश्च येनराः ॥
तेभ्यो हितो गुडोऽयं स्याद्बन्ध्यानामपि पुत्त्रदः ।वृष्यो बल्यो बृंहणश्च वयसः स्थापनः परः ॥
”इति कुष्माण्डकल्याणकगुडः ॥
* ॥
अतीसाराधिकारलिखितं विल्वतैलञ्चात्रहितम् । इति भावप्रकाशे ग्रहणीरोगाधिकारः ॥
(चिकित्सान्तरमस्या यथा, --“बालं विल्वं गुडं तैलं पिप्पली विश्वभेषजम् ।लिह्याद्वाते प्रतिहते सशूले सप्रवाहिके ॥
पयसा पिप्पलीकल्कः पीतो वा मरिचोद्भवः ।त्र्यहात् प्रवाहिकां हन्ति चिरकालानुबन्धि-नीम् ॥
कल्कः स्याद्वालविल्वानां तिलकल्कश्च तत्समः ।दध्नः सराम्लः स्नेहाढ्यः खडो हन्यात् प्रवाहि-काम् ॥
”इति वैद्यकचक्रपाणिसंग्रहेऽतीसाराधिकारे ॥
)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
