| YouTube Channel

प्रवर्त्तनं (pravarttanaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रवर्त्तनं,
क्ली,
(प्र + वृत् + णिच् + ल्युट् ।) प्रवृत्तिः ।यथा, --“तेऽन्यैर्वान्तं समश्नन्ति परोत्सर्गञ्च भुञ्जते ।इतरार्थग्रहे येषां कवीनां स्यात् प्रवर्त्तनम्
”इति काव्यप्रकाशः
आरम्भः यथा, --“मृते तु स्वामिनि पुनस्तद्वंश्ये वापि मानवे ।राजानमामन्त्र्य ततः कुर्य्यात् सेतुप्रवर्त्तनम्
”इति मिताक्षरा