| YouTube Channel

प्रवर्त्तकः (pravarttakaH)

 
शब्दकल्पद्रुमः
Sanskrit
प्रवर्त्तकः, त्रि, (प्रवर्त्तयतीति प्र + वृत् + णिच् +ण्वुल् ।) प्रवर्त्तनकारी प्रवृत्तिजनकः यथा, “प्रवर्त्तकं वाक्यमुवाच चोदनांनिवर्त्तकं नैवमुवाच भाष्यकृत् ।ततश्च विद्मो नहि चोदनास्ति साप्रवर्त्तिका या भवेदिति स्थितिः
”इति संक्षेपशारीरकम्
(यथा देवीभागवते १४ ४२ ।“प्रथमं पठिता वेदा मया विस्तारिताश्च ते ।हिंसामयास्ते पठिताः कर्म्ममार्गप्रवर्त्तकाः
”प्रयोजकः यथा, भागवते १७ ।“धन्वन्तरिर्दीर्घतमस आयुर्वेदप्रवर्त्तकः ।यज्ञभुग् वासुदेवांशः स्मृतिमात्रार्त्तिनाशनः
”)