| YouTube Channel

प्रलेहः (pralehaH)

 
Apte
English
प्रलेहः [pralēhḥ], A kind of broth
'सूरणादिद्रव्ययुक्त आद्रकादिसंस्कृत- तक्रादिनिर्मितो द्रवद्रव्यविशेषः'
N.*
16.86 com.
Apte 1890
English
प्रलेहः A kind of broth.
Apte Hindi
Hindi
प्रलेहः
पुं*
- प्र+लिह्+घञ्
"एक प्रकार का रसा, शोरवा"
शब्दकल्पद्रुमः
Sanskrit
प्रलेहः,
पुं,
(प्रलिह्यते इति प्र + लिह् + घञ् ।)व्यञ्जनविशेषः इति पाकराजेश्वरः दम्पोख्तकोरमा इत्यादि पारस्यभाषा
(चिन्तामणौधृतः प्रलेहप्रकारो यथा, --“स्थूलानि मांसखण्डानि क्षालितानि चवारिणा ।तप्तस्नेहे विनिःक्षिप्य दर्व्या सञ्चालयन् पचेत्
तप्तं तत्र विनिःक्षिप्य लावणं जलमल्पकम् ।पचेत् पटपटाशब्दं तस्मिन् मांसे प्रकुर्वति
प्रक्षिपेद्दाडिमीनीरं बहुलेन पचेत् पुनः ।मांसपिण्डेषु सिद्धेषु देया शुण्ठी सजीरका
ततश्चोत्तार्य्य तन्मांसं पृथक् कुर्य्यात् प्रलेहतः ।प्रलेहं दाससा पूतं स्थापयेदन्यभाजने
हिङ्गुना घृतयुक्तेन धूपेन तञ्च धूपयेत्
”गौडदेशीयप्रलेहस्तु ।“हिङ्ग्वार्द्रबीजपूरैलालवणैः सम्भृतेन तु ।कुट्टितामिषपिष्टेन तत्र दाडिमबीजतः
सोषणावेसवारश्च प्रलेहो गौडदेशजः
प्रलेहो रुचिदो बल्यः कफानिलरुजापहः ।संग्राही पित्तकृत् किञ्चिच्छिलाध्मानगदान्जयेत्
पूर्णप्रलेहस्तु ।“मांसपूरणयोगेन कोष्ठाकारं विधाय ।स्विन्नं कृत्तं धृते भृष्टं प्रलेहविधिना पचेत्
पूरणस्य प्रलेहोऽयं विज्ञेयो वातनाशनः ।श्लेष्मान्तकारकश्चैव मुखवैरस्यहृद्गुरुः
”शुक्लवर्णः प्रलेहः ।“धृते वेसरधान्याकहिङ्गुभृद्दधिसंयुते ।वस्त्रपूतेऽर्द्धसम्पक्वे स्विन्नं मांसं विनिःक्षिपेत्
”पीतवर्णस्तु ।“प्रलेहः पीतवर्णोऽपि कार्य्यः शुक्लप्रलेहवत् ।विशेषोऽत्र हरिद्रायाः संसर्गः कुङ्कुमस्य वा
”रक्तवर्णोऽपि ।“तप्तस्नेहे क्षिपेद्धिङ्गुसंयुतं कासमर्द्दकम् ।धान्यकं लवणाजाजीधौतं मांसञ्च तत् क्षिपेत्
ततोऽर्द्धस्फुटिते मांसे दाडिमीबीजर्सयुते ।सम्पक्वे चातिमृदुले तक्रं शुण्ठीञ्च निःक्षिपेत्
तत उत्तार्य्य वस्त्रेण गालयेद्धूपयेदपि ।रक्तवर्णप्रलेहस्य संसिद्ध्यर्थं विनिःक्षिपेत्
करमर्द्दं दाडिमस्य स्थाने शेषन्तु पूर्व्ववत्
”हरितवर्णस्तु ।“मेथिकाकासमर्दाम्लकल्केन चलकारिते ।घृते मांसं विनिःक्षिप्य पचेच्छुष्कप्रलेहवत्
सिद्धे गालयेद्वस्त्रे कृत्वा वर्णप्रयोजनम् ।ताम्बूलं कष्टजङ्गारं देयं हरितहेतुना
अरुचौ रुचिदः सद्यो नानावर्णप्रसाधितः ।प्रलेहः कफवातघ्नः किञ्चित् पित्तकरो लघुः
”वटकप्रलेहोऽपि ।“माषस्य पिष्टिका सूक्ष्मा वेसवारेण संयुता ।बहुधा क्रियते तस्या वटिकावटकादिकम्
आम्रविम्बीफलाकारं लड्डुकावटकादिकम् ।शृङ्गाटकफलाकारं यथायुद्धिप्रकारजम्
कृत्वा हि बहुधाधारे स्वेदितं घृतभार्ज्जितम् ।सवेसवारजे तक्रे क्वथिते मनोरमे
निःक्षिप्य चालयेदीषदुत्तार्यैलादिवासिते ।एवन्तु बहुधा कार्य्यो माषमुद्गप्रलेहकः
प्रलेहो वातजिद्वल्यः शुक्रमांसप्रदो रसः ।प्रीणनः प्राणयुक्तानां शुक्रदः क्षीणरेतसाम्
”मत्स्यप्रलेहस्तु ।“मांसप्रलेहवत्कार्य्यः प्रलेहो मत्स्यसम्भवः ।आदौ तैले परं पक्वं सर्व्वमन्यत्तु पूर्व्ववत्
वर्णस्य करणे देयं पूर्व्वोक्तं द्रव्यकं हि यत् ।उद्धूलनं सुगन्धाय दातव्यं पूर्व्वसम्भवम्
”मत्स्यखण्डप्रलेहस्तु ।“सम्यक् प्रक्षालितं मत्स्यं वेसवारेण वेष्टितम् ।तप्ततैले क्षिपेत् खण्डं हिङ्गुसैन्धवमिश्रितम्
प्रलेहविधिवत् साध्यो मत्स्यखण्डप्रलेहकः
”)