प्रलयः (pralayaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishप्रलयः [pralayḥ], 1 Destruction, annihilation, dissolution
स्थानानि किं हिमवतः प्रलयं गतानि 3.7, 69
प्रलयं नीत्वा 11.66. 'causing to disappear'.
The destruction of the whole universe (at the end of a kalpa), universal destruction
2.8
अहं कृत्स्नस्य जगतः प्रभवः प्रलय- स्तथा 7.6.
Any extensive destruction or devastation.
Death, dying, destruction
प्रारब्धाः प्रलयाय मांसवदहो विक्रेतुमेते वयम् 5.21
1.14
यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् 14.14.
Swoon, fainting, loss of consciousness, syncope
प्रलयान्तोन्मिषिते विलोचने 4.2.
(In ) Loss of consciousness, considered as one of the 33 subordinate feelings
प्रलयः सुखदुःखाद्यै- र्गाढमिन्द्रियमूर्छनम् Pratāparudra.
The mystic syllableom.
Spiritual unification (लय)
बुद्धिः कर्मगुणैर्हीना यदा मनसि वर्तते । तदा संपद्यते ब्रह्म तत्रैव प्रलयं गतम् ॥ * 12.24. 17.
Sleepiness. -कालः the time of universal destruction. -घनः, -जलधरः a cloud at the dissolution of the world. -दहनः the fire at the dissolution of the world. -पयोधिः the ocean at the dissolution of the world.
Apte 1890
Englishप्रलयः 1 Destruction, annihilation, dissolution
स्यानानि किं हिमवतः प्रलयं गतानि Bh. 3. 70, 69
प्रलयं नीत्वा Śi. 11. 66 ‘causing to disappear’.
2 The destruction of the whole universe (at the end of a kalpa), universal destruction
Ku. 2. 8
Bg. 7. 6.
3 Any extensive destruction or devastation.
4 Death, dying, destruction
प्रारब्धाः प्रलयाय मांसवदहो विक्रेतुमेते वयं Mu. 5. 21
1. 14
Bg. 14. 14.
5 Swoon, fainting, loss of consciousness, syncope
प्रलयांतोन्मिषिते विलोचने Ku. 4. 2.
6 (In Rhet.) Loss of consciousness, considered as one of the 33 subordinate feelings
प्रलयः सुखदुःखाद्यैर्गाढमिंद्रियमूर्छनं Pratāparudra.
7 The mystic syllable om.
Comp.
कालः the time of universal destruction.
जलधरः a cloud at the dissolution of the world.
दहनः the fire at the dissolution of the world.
पयोधिः the ocean at the dissolution of the world.
Hindi
Hindiविनाश
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Apte Hindi
Hindiप्रलयः
- प्र+ली+अच्
"विनाश, संहार, विघटन"
प्रलयः
- प्र+ली+अच्
"संसार का विनाश, विश्वव्यापी विनाश"
प्रलयः
- प्र+ली+अच्
व्यापक विनाश या बरबादी
प्रलयः
- प्र+ली+अच्
"मृत्यु, मरना, निधन"
प्रलयः
- प्र+ली+अच्
"मूर्छा, बेहोशी, चेतना का न रहना, "
प्रलयः
- प्र+ली+अच्
"चेतना की हानि, ३ व्यभिचारिभावों में से एक"
प्रलयः
- प्र+ली+अच्
"रहस्यध्वनि, ‘ओम्’ या प्रणव"
प्रलयः
- प्र+ली+अच्
आध्यात्मिक लय
प्रलयः
- प्र+ली+अच्
"मूर्छा, बेहोशी"
Wordnet
Sanskrit विनाशः, नाशः, ध्वंसः, प्रध्वंसः, विध्वंसः, क्षयः, लोपः, विलोपः, विलोपनम्, प्रणाशः, सादनम्, सूदनम्, प्रलयः, संहारः, अपायः, अत्ययः, लोपः, समुच्छेदः
कस्यापि वस्तुनः अस्तित्वस्य समाप्तिः।
"विनाशे काले बुद्धिः विपरीता भवति।"
प्रलयः, युगान्तः, कल्पः, कल्पान्तः, लयः, प्रतिसर्गः, क्षयः, प्रक्षयः, संवर्तः, संक्षयः, विलयः, प्रत्सञ्चरः
हिन्दूनां जगद्विलयस्य अवधारणाविशेषः। युगानाम् अन्तः यत्र युगानाम् अन्तो वा यस्मिन् जगद् प्रलीयते।
"ज्ञानाद् आत्यन्तिकः प्रोक्तो योगिनः परमात्मनि प्रलयः प्रतिसर्गोऽयं काल-चिन्तापरैर्-द्वजैः।"
मृत्युः, मरणम्, निधनम्, पञ्चत्त्वम्, पञ्चता, अत्ययः, अन्तः, अन्तकालः, अन्तकः, अपगमः, नाशः, नाश, विनाशः, प्रलयः, संस्थानम्, संस्थितिः, अवसानम्, निःसरणम्, उपरतिः, अपायः, प्रयाणम्, जीवनत्यागः, तनुत्यागः, जीवोत्सर्गः, देहक्षयः, प्राणवियोगः, मृतम्, मृतिः, मरिमा, महानिद्रा, दीर्घनिद्रा, कालः, कालधर्मः, कालदण्डः, कालान्तकः, नरान्तकः, दिष्टान्तकः, व्यापदः, हान्द्रम्, कथाशेषता, कीर्तिशेषता, लोकान्तरता
भवनस्य नाशः- अथवा शरीरात् प्राणनिर्गमनस्य क्रिया।
"ध्रुवो मृत्युः जीवितस्य।"
वैजयन्तीकोषः
SanskritWord: प्रलयः
Root: प्रलय
Gender: पुं
Number: all
अर्थः ⇒ संहारः
Meaning(s):
⇒ Destruction
Epithet of संहारः
Shloka(s):
2|1|95|1 ► प्रतिसर्गस्तु संहारः प्रलयः प्रतिसञ्चरः। (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
➠ 2|1|95|1 ⇢ प्रतिसर्गः (प्रतिसर्ग) (पुं) ⇒ Destruction
Epithet of संहारः ⇒ संहारः
➠ 2|1|95|1 ⇢ संहारः (संहार) (पुं) ⇒ Destruction
Epithet of संहारः ⇒ संहारः
➠ 2|1|95|1 ⇢ प्रलयः (प्रलय) (पुं) ⇒ Destruction
Epithet of संहारः ⇒ संहारः
➠ 2|1|95|1 ⇢ प्रतिसञ्चरः (प्रतिसञ्चर) (पुं) ⇒ Destruction
Epithet of संहारः ⇒ संहारः
Related word(s):
जातिः ➡ कालः
परा_अपरासंबन्धः ➡ महाप्रलयः
अमरकोशः
SanskritWord: प्रलयः
Root: प्रलय
Gender: पुं
Number: all
Meaning(s):
⇒ end
⇒ death
⇒ setting
⇒ fainting
⇒ sleepiness
⇒ armageddon
⇒ dissolution
⇒ destruction
⇒ annihilation
⇒ reabsorption
⇒ loss of senses
⇒ end of the world
⇒ cause of dissolution
⇒ at the end of a kalpa
⇒ loss of consciousness
⇒ dissolution of the world
⇒ loss of sense or consciousness
⇒ destruction of the whole world
Shloka(s):
1|4|22|2 ► संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि॥ (कालवर्गः)
Synonym(s):
➠ 1|4|22|2 ⇢ संवर्तः (संवर्त) (पुं) ⇒ year, meeting, dense mass, rolling up, rain-cloud, destruction, lump or ball, encountering, particular comet, young rolled-up leaf, particular kind of cloud, particular mythical weapon, anything rolled or kneaded, particular conjunction of planets, chickpea [Cicer Arietinum - Bot.], particular cosmic period or kalpa, periodical destruction or dissolution of the world, bastard myrobalan tree [Terminalia Belerica - Bot.]
➠ 1|4|22|2 ⇢ प्रलयः (प्रलय) (पुं) ⇒ end, death, setting, fainting, sleepiness, armageddon, dissolution, destruction, annihilation, reabsorption, loss of senses, end of the world, cause of dissolution, at the end of a kalpa, loss of consciousness, dissolution of the world, loss of sense or consciousness, destruction of the whole world
➠ 1|4|22|2 ⇢ कल्पः (कल्प) (पुं) ⇒ age, fit, law, mode, idea, able, rule, form, epoch, prime, early, almost, period, ritual, proper, resolve, feasible, pharmacy, research, practice, possible, equal to, ordinance, competent, resembling, proceeding, similar to, alternative, practicable, determination, investigation, kind of dance, sacred precept, one of two cases, tree of paradise, manner of curing, manner of acting, almost resembling, treatment of the sick, fabulous period of time, one side of an argument, art of preparing medicine, particular abode of deities, doctrine of poisons and antidotes, most complete of the six vedAGgas, like but with a degree of inferiority, having the manner or form of anything
➠ 1|4|22|2 ⇢ क्षयः (क्षय) (पुं) ⇒ end, fall, race, seat, loss, ruin, wane, house, decay, minus, waste, abode, waning, family, decline, removal, dwelling, residing, dominion, diminution, termination, destruction, consumption, annihilation, house of yama, dwelling-place, negative quantity, sickness in general, decrement [computer], wasting or wearing away, abode in yama's dominion, destruction of the universe, phthisis pulmonalis (Tuberculosis)
➠ 1|4|22|2 ⇢ कल्पान्तः (कल्पान्त) (पुं) ⇒ end of a Kalpa, end of the world, dissolution of the world, dissolution of all things, end of the duration of the world
Related word(s):
जातिः ➡ कालः
शब्दकल्पद्रुमः
Sanskritप्रलयः, (प्रलीयते क्षीयते जगदस्मिन्निति । प्र +ली + “एरच् ।” ३ । ३ । ५६ । इत्यच् ।)प्रक्षयः । तत्पर्य्यायः । संवर्त्तः २ कल्पः ३क्षयः ४ कल्पान्तः ५ । इत्यमरः । १ । ४ । २२ ॥
लयः ६ संक्षयः ७ विलयः ८ । इति शब्दरत्ना-वली ॥
प्रतिसर्गः ९ प्रतिसञ्चरः १० । स चनित्यनैमित्तिकप्राकृतात्यन्तिकभेदेन चतुर्धा ।यथा, --कूर्म्म उवाच ।“नित्यं नैमित्तिकञ्चैव प्राकृतात्यन्तिकौ तथा ।चतुर्धायं पुराणेऽस्मिन् प्रोच्यते प्रतिसञ्चरः ॥
” *नित्यो यथा, --“योऽयं संदृश्यते नूनं नित्यं लोके क्षयन्त्विह ।नित्यं संकीर्त्त्यते नाम्ना मुनिभिः प्रतिसञ्चरः ॥
”नैमित्तिको यथा, --“ब्राह्मो नैमित्तिको नाम कल्पान्ते यो भवि-ष्यति ।त्रैलोक्यस्यास्य कथितः प्रतिसर्गो मनीषिभिः ॥
”प्राकृतो यथा, --“महदाद्यं विशेषान्तं यदा संयाति संक्षयम् ।प्राकृतः प्रतिसर्गोऽयं प्रोच्यते कालचिन्तकैः ॥
”आत्यन्तिको यथा, --“ज्ञानादात्यन्तिकः प्रोक्तो योगिनः परमात्मनि ।प्रलयः प्रतिसर्गोऽयं कालचिन्तापरैर्द्विजैः ॥
आत्यन्तिकश्च कथितः प्रलयो लयसाधनः ॥
” * ॥
नैमित्तिकप्रलयविस्तारो यथा, --“नैमित्तिकमिदानीं वः कीर्त्तयिष्ये समासतः ॥
चतुर्युगसहस्रान्ते संप्राप्ते प्रतिसञ्चरे ।आत्मसंस्थाः प्रजाः कर्त्तुं प्रतिपेदे प्रजापतिः ॥
ततो भवत्यनावृष्टिस्तीव्रा सा शतवार्षिकी ।भूतक्षयकरी घोरा सर्व्वभूतभयङ्करी ॥
ततो यान्यल्पसाराणि शस्यानि पृथिवीतले ।तानि चाग्रे प्रलीयन्ते भूमित्वमुपयान्ति च ॥
सप्तरश्मिरथो भूत्वा समुत्तिष्ठन् दिवाकरः ।असह्यरश्मिर्भवति पिबन्नम्भो गभस्तिभिः ॥
ततस्ते रश्मयः सप्त पिबन्त्यम्बु महार्णवे ।तेनाहारेण ते सूर्य्या दीप्ताः सप्त भवन्ति हि ॥
तस्य ते रश्मयः सप्त सूर्य्या भूत्वा चतुर्द्दिशम् ।चतुर्लोकमिदं कृत्स्रं दहन्ति शिखिनो यथा ॥
व्याप्नुवन्तश्च ते विप्रास्तूर्द्धञ्चाधश्च रश्मिभिः ।दीप्यन्ते भास्कराः सप्त दहन्तोऽग्निप्रतापिनः ॥
ते सूर्य्या वारिणा दीप्तो बहुसाहस्ररश्मयः ।खं समावृत्य तिष्ठन्ति निर्द्दहन्तो वसुन्धराम् ॥
ततस्तेषां प्रतापेन दह्यमाना वसुन्धरा ।साद्रिनद्यर्णवद्वीपा निःस्नेहा समपद्यत ॥
दीप्ताभिः सन्तताभिश्च ज्वालाभिश्च समावृतः ।अघश्चोर्द्धञ्च तिर्य्यक् च समावृत्य सहस्रशः ॥
सूर्य्याग्निना प्रसृष्टानां संहृष्टानां परस्परम् ।एकत्वमुपजातानामेकज्वालो भवेत् प्रभुः ॥
सर्व्वलोकप्रणाशश्च सोऽग्निर्भूत्वात्मकुण्डली ।चतुर्लोकमिदं कृत्स्नं निर्द्दहत्यात्मतेजसा ॥
ततः प्रलीने सर्व्वस्मिन् जङ्गमे स्थावरे तथा ।निर्वृक्षा निस्तृणा भूमिः कूर्म्मपृष्ठे प्रकाशते ॥
अम्बरीशमिवाभाति सर्व्वमापूरितं जगत् ।सर्व्वमेव तदार्च्चिर्भिः पूर्णं जाज्वल्यते नभः ॥
पाताले यानि तीर्थानि महोदधिगतानि तु ।तत्र तानि प्रलीयन्ते भूमित्वमुपयान्ति वै ॥
द्बीपांश्च पर्व्वतांश्चैव वर्षाण्यथ महोदधीन् ।तान् सर्व्वान् भस्मसात् कृत्वा सप्तात्मा पावकःप्रभुः ॥
समुद्रेभ्यो नदीभ्यश्च पातालेभ्यश्च सर्व्वशः ।पिबन्नपः समिद्धोऽग्निः पृथिवीमाश्रितोऽज्वलत् ॥
ततः सम्बर्त्तकः शैलानतिक्रम्य महांस्तथा ।लोकान् दहति दीप्तात्मा रुद्रतेजोविजृम्भितः ॥
स दग्ध्वा पृथिवीन्देवो रसातलमशोषयत् ।अधस्तात् पृथिवीं दग्ध्वा दिवमूर्द्धं दहिष्यति ॥
योजनानां शतानीह सहस्राण्ययुतानि च ।उत्तिष्ठन्ति शिखास्तस्य वायुः सम्बकर्त्तस्य च ॥
गन्धर्व्वांश्च पिशाचांश्च सयक्षोरगराक्षसान् ।तदा दहत्यसौ दीप्तः कालरुद्रप्रचोदितः ॥
भूर्लोकञ्च भुवर्लोकं स्वर्लोकञ्च तथा महः ।दहेदशेषं कालाग्निः कालो विश्वतनुः स्वयम् ॥
व्युष्टेषु तेषु लोकेषु तिर्य्यगूर्द्धमथाग्निना ।तत्तेजः समनुप्राप्य कृत्स्नं जगदिदं शनैः ॥
आयोगृहनिभं सर्व्वं तदेवैकं प्रकाशते ।ततो गजकुलोन्नादाः स्तनितैः समलङ्कृताः ॥
उत्तिष्ठन्ति तदा व्योम्नि घोराः संवर्त्तका घनाः ।केचिन्नीलोत्पलश्यामाः केचित् कुमुदसन्निभाः ॥
धूम्रवर्णास्तथा केचित् तथा पीताः पयोधराः ।केचिद्रक्ताभ्रवर्णाश्च स्थूलाः क्षारनिभास्तथा ॥
शङ्खकुन्दनिभाश्चान्ये जात्यञ्जननिभाः परे ।मनःशिलानिभास्त्वन्ये कपोतसदृशाः परे ॥
केचिद्रुद्राक्षवर्णाभास्तथान्ये क्षीरसन्निभाः ।तथा कर्व्वूरवर्णाभा भिन्नाञ्जननिभास्तथा ॥
इन्द्रगोपनिभाः केचिद्धरितालनिभास्तथा ।काकाण्डकनिभाः केचिदुत्तिष्ठन्ति घना दिवि ॥
केचित् पर्व्वतसङ्काशाः केचिद्गजकुलोपमाः ।कूटागारनिभाश्चान्ये केचिन्मीनकुलोद्बहाः ॥
बहुरूपा घोररूपा घोरस्वरनिनादिनः ।तदा जलधराः सर्व्वे पूरयन्ति नभस्तलम् ॥
ततस्ते जलदा घोरा वारिणा भास्करात्मजाः ।सप्तघा संवृतात्मानस्तमग्निं शमयन्त्युत ॥
ततस्ते जलदा वर्षं वर्षन्तीह हिमौघवत् ।सुघोरमशिवं सर्व्वं नाशयन्ति च पावकम् ॥
प्रवृत्तेन तदात्यर्थमम्भसा पूर्य्यते किल ।अद्भिस्तेजोऽभिभूतत्वात्तदाग्निः प्रविशत्यपः ॥
नष्टे चाग्नौ वर्षशतैः पयोदा जलसम्भवाः ।प्लावयन्तोऽथ भुवनं महाजलपरिस्रवैः ॥
धाराभिः पूरयन्तीदं चोद्यमानाः स्वयम्भुवा ।उद्यन्तः सलिलौघैश्च वेला इव महोदधे ॥
साद्रिद्वीपा तथा पृथ्वी जलैः संछाद्यते शनैः ॥
आदित्यरश्मिभिः पीतं जलमभ्रेषु तिष्ठति ।पुनः पतति तद्भूमौ पूर्य्यन्ते तेन चार्णवाः ॥
ततः समुद्राः स्वां वेलामतिक्रान्तास्तु कृत्स्नशः ।पर्व्वताश्च विलीयन्ते मही चाप्सु निमज्जति ॥
तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।योगनिद्रां समास्थाय शेते देवः प्रजापतिः ॥
चतुर्युगसहस्रान्तं कल्पमाहुर्महर्षयः ।वराहो वर्त्तते कल्पो यस्य विस्तार ईरितः ॥
असंख्यातास्तथा कल्पा ब्रह्मविष्णुशिवात्मकाः ।कथिता हि पुराणेषु मुनिभिः कालचिन्तकैः ॥
सात्विकेष्वथ कल्पेषु माहात्म्यमखिलं हरेः ।तामसेषु शिवस्योक्तं राजसेषु प्रजापतेः ।सोऽयं प्रवर्त्तते कल्पो वाराहः सात्विको मतः ।अन्ये च सात्विकाः कल्पा मम तेषु परिग्रहः ।ध्यानन्तपस्तथा ज्ञानं लब्ध्वा तेष्वेव योगिनः ॥
आराध्य गिरिशं यत्नात् याति तत्परमं पदम् ।सोऽहं स त्वं समाधाय मायी मायामयं स्वयम् ॥
एकार्णवे जगत्यस्मिन् योगनिद्रां व्रजानि तु ।मां पश्यन्ति महात्मानः सुप्तं काले महर्षयः ।जनलोके वर्त्तमानास्तपसा योगचक्षुषा ।अहं पुराणपुरुषो भूर्भुवःप्रभवो विदुः ॥
सहस्रचरणः श्रीमान् सहस्राक्षः सहस्रपात् ।मन्त्रोऽग्निर्ब्राह्मणा गावः कुशाश्च समिधो ह्यहम् ॥
प्रोक्षणी च स्रुवश्चैव सोमो घृतमयोऽस्म्यहम् ।संवर्त्तको महानात्मा पवित्रं परमं यशः ॥
वेदवेद्यः प्रभुर्गोप्ता गोपतिर्ब्रह्मणो मुखम् ।अनन्तस्तारको योगी गतिर्मतिमतां वरः ॥
हंसः प्राणोऽथ कपिलो विश्वमूर्त्तिः सनातनः ।क्षेत्रज्ञः प्रकृतिः कालो जगद्बीजमथामृतम् ॥
माता पिता महादेवो मत्तो ह्यन्यन्न विद्यते ॥
आदित्यवर्णो भुवनस्य गोप्तानारायणः पूरुषो योगमूर्त्तिः ।मां पश्यन्ति यतयो योगनिष्ठाज्ञात्वात्मानममृतत्वं व्रजन्ति ॥
” * ॥
प्राकृतप्रलयविस्तारो यथा, --कूर्म्म उवाच ।“अतःपरं प्रवक्ष्यामि प्रतिसर्गमनुत्तमम् ।प्राकृतं प्रसमासेन शृणुध्वं गदतो मम ॥
गते परार्द्धद्वितये काले लोकप्रकालकः ।कालाग्निर्भस्मसात् कर्त्तुं करोति निखिलंमतिम् ॥
आत्मन्यात्मानमावेश्य भूत्वा देवो महेश्वरः ।दहेदशेषं ब्रह्माण्डं सदेवासुरमानुषम् ॥
तमाविश्य महादेवो भगवान्नीललोहितः ।करोति लोकसंहारं भीषणं लोकमाश्रितः ॥
प्रविश्य मण्डलं सौरं कृत्वासौ बहुधा पुनः ।निर्द्दहत्यखिलं लोकं सप्तसप्तिस्वरूपधृक् ॥
स दग्ध्वा सकलं सत्त्वं मन्त्रं ब्रह्मशिरो महत् ।देवतानां शरीरेषु क्षिपत्यखिलदाहकः ॥
दग्धेष्वशेषदेहेषु देवी गिरिवरात्मजा ।एका सा साक्षिणः शम्भोस्तिष्ठते वैदिकी श्रुतिः ॥
शिरःकपालैर्देवानां कृतस्रग्वरभूषणः ।आदित्यचन्द्रादिगणैः पूरयन् व्योममण्डलम् ॥
सहस्रनयनो देवः सहस्राकृतिरीश्वरः ।सहस्रहस्तचरणः सहस्रार्च्चिर्महाभुजः ॥
दंष्ट्राकरालवदनः प्रदीप्तानललोचनः ।त्रिशूली कृत्तिवसनो योगमैश्वरमास्थितः ॥
पीत्वा तत् परमानन्दं प्रभूतममृतं स्वकम् ।करोति ताण्डवं देवीमालोक्य परमेश्वरः ॥
पीत्वा नृत्यामृतं देवी भर्त्तुः परममङ्गला ।योगमास्थाय देवस्य देहमायाति शूलिनः ॥
स त्यक्त्वा ताण्डवरसं स्वेच्छयैव पिनाकधृक् ।याति स्वभावं भगवान् दग्धा ब्रह्माण्डमण्डलम् ॥
संस्थितेष्वथ देवेषु ब्रह्मविष्णुपिनाकिषु ।गुणैरनेकैः पृथिवी विलयं याति वारिषु ।स वारितत्त्वं सगुणं ग्रसते हव्यवाहनः ॥
तैजसं गुणसंयुक्तं वायौ संयाति संक्षयम् ।आकाशे सगुणो वायुः प्रलयं याति सत्तमाः ॥
भूतादौ च तथाकाशं लीयते गुणसंयुतम् ।इन्द्रियाणि च सर्व्वाणि तैजसे यान्ति संक्षयम् ॥
वैकारिके देवगणाः प्रलयं यान्ति सत्तमाः ।वैकारिकस्तैजसश्च भूतादिश्चेति सत्तमाः ॥
त्रिविधोऽयमहङ्कारो महति प्रलयं व्रजेत् ।महान्तमेभिः सहितं ब्रह्माणममृतौजसम् ॥
अव्यक्तं जगतो योनिः संहरेदेकमव्ययम् ।एवं संहृत्य भूतानि तत्त्वानि च महेश्वरः ॥
नियोजयत्यथान्योन्यं प्रधानं पुरुषं परम् ।प्रधानपुंसोरजयोरेष संहार ईरितः ॥
महेश्वरेच्छाजनितो न स्वयं विद्यते लयः ।गुणसाम्यं तदव्यक्तं प्रकृतिः परिगीयते ॥
प्रधानं जगतो योनिर्मायातत्त्वमचेतनम् ।कूटस्थश्चिन्मयो ह्यात्मा केवलः पञ्चविंशकः ॥
गीयते मुनिभिः साक्षी महानेकः पितामहः ।एवं संहारकरणी शक्तिर्माहेश्वरी ध्रुवा ॥
प्रधानाद्यं विशेषान्तं दहेद्रुद्र इति श्रुतिः ।योगिनामथ सर्व्वेषां ज्ञानविन्यस्तचेतसाम् ।आत्यन्तिकञ्चैव लयं विदधातीह शङ्करः ॥
”इति कौर्म्मे । ४२ । ४३ । अध्यायौ ॥
* ॥
आत्यन्तिकप्रलयविस्तारो यथा, --श्रीपराशर उवाच ।“आध्यात्मिकादि मैत्रेय ! ज्ञात्वा तापत्रयं बुधः ।उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥
आध्यात्मिको वै द्विविधः शारीरो मानसस्तथा ।शारीरो बहुभिर्भेदैर्भिद्यते श्रूयताञ्च सः ॥
शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः ।गुल्मार्शःश्वयथुश्वासच्छर्द्यादिभिरनेकधा ॥
तथाक्षिरोगातीसारकुष्ठाङ्गामयसंज्ञकैः ।भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ॥
कामक्रोधभयद्वेषलोभमोहविषादजः ।शोकासूयावमानेर्ष्यामात्सर्य्यादिभवस्तथा ॥
मानसोऽपि द्विज्रश्रेष्ठ ! तापो भवति नैकधा ।इत्येवमादिभिर्भेदैस्तापो ह्याध्यात्मिकः स्मृतः ॥
मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः ।सरीसृपाद्यैश्च नृणां जन्यते चाधिभौतिकः ॥
शीतोष्णवातवर्षाम्बुवैद्युतादिसमुद्भवः ।तापो द्विजवरश्रेष्ठ ! कथ्यते चाधिदैविकः ॥
तदस्य त्रिविधस्यापि दुःखजातस्य पण्डितैः ।गर्भजन्मजराद्येषु स्थानेषु प्रभविष्यतः ॥
निरस्तातिशयाह्लादसुखभावैकलक्षणा ।भेषजं भगवत्प्राप्तिरेकान्तात्यन्तिकी मता ॥
तस्मात्तत्प्राप्तये यत्नः कर्त्तव्यः पण्डितैर्नरैः ।तत्प्राप्तिहेतुज्ञानञ्च कर्म्म चोक्तं महामुने ! ॥
आगमोत्थं विवेकाच्च द्विधा ज्ञानं तथोच्यते ।शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ॥
अन्धन्तम इवाज्ञानं दीपवच्चेन्द्रियोद्भवम् ।यथा सूर्य्यस्तथा ज्ञानं यद्विप्रषे विवेकजम् ॥
मनुरप्याह वेदार्थं स्मृत्वा यन्मुनिसत्तम ! ।तदेतच्छ्रूयतामत्र सम्बन्धे गदतो मम ॥
द्वे ब्रह्मणी वेदितव्ये शब्दब्रह्म परञ्च यत् ।शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥
द्वे विद्ये वेदितव्ये वै इति वाथर्व्वणी श्रुतिः ।परया त्वक्षरप्राप्तिरृग्वेदादिमया परा ॥
यत्तदव्यक्तमजरमचिन्त्यमजमव्ययम् ।अनिर्द्देश्यमरूपञ्च पाणिपादाद्यसंयुतम् ॥
विभुं सर्व्वगतं नित्यं भूतयोनिमकारणम् ।व्याप्यव्याप्यं यतः सर्व्वं तं वै पश्यन्ति सूरयः ॥
तद्ब्रह्म तत् परं धाम तद्ध्येयं मोक्षकाङ्क्षि-णाम् ।श्रुतिवाक्योदितं सूक्ष्मं तद्विष्णोः परमं पदम् ॥
तदेव भगवद्वाच्यं स्वरूपं परमात्मनः ।वाचको भगवच्छब्दस्तस्याद्यस्याक्षरात्मनः ॥
एवं निगदितार्थस्य सतत्त्वं तस्य तत्त्वतः ।ज्ञायते येन तज्ज्ञानं परमन्यत्त्रयीमयम् ॥
अशब्दगोचरस्यापि तस्यैव ब्रह्मणो द्विज ! ।पूजायां भगवच्छब्दः क्रियते ह्यौपचारिकः ॥
शुद्धे महाविभूत्याख्ये परे ब्रह्मणि वर्त्तते ।मैत्रेय ! भगवच्छब्दः सर्व्वकारणकारणे ॥
सर्व्वाणि तत्र भूतानि वसन्ति परमात्मनि ।भूतेषु च स सर्व्वात्मा वासुदेवस्ततः स्मृतः ॥
खाण्डिक्यजनकायाह पृष्टः केशिध्वजः पुरा ।नामव्याख्यायनन्तस्य वासुदेवस्य तत्त्बतः ॥
भूतेषु वसते सोऽन्तर्व्वसन्त्यत्र च तानि यत् ।धाता विधाता जगतां वासुदेवस्ततः प्रभुः ॥
स सर्व्वभूतप्रकृतिर्विकार-गुणांश्च दोषांश्च मुने ! व्यतीतः ।अतीतसर्व्वावरणाखिलात्मातेनास्तृतं यद्भुवनान्तराणि ॥
समस्तकल्याणगुणात्मको हिस्वशक्तिलेशावृतभूतसर्गः ।इच्छागृहीताभिमतोरुदेहःसंसाधिताशेषजगद्धितोऽसौ ॥
तेजोबलैश्वर्य्यमहान्वितश्चस्ववीर्य्यशक्त्यादिगुणैकराशिः ।परः पराणां सकला न यत्रक्लेशादयः सन्ति परावरेशे ॥
स ईश्वरो व्यष्टिसमष्टिरूपो-ऽव्यक्तस्वरूपः प्रकटस्वरूपः ।सर्व्वेश्वरः सर्व्वदृक् सर्व्ववेत्तासमस्तशक्तिः परमेश्वराख्यः ॥
स ज्ञायते येन तदस्तदोषंशुद्धं परं निर्म्मलमेकरूपम् ।संदृश्यते चाप्यवगम्यते वातज्ज्ञानमज्ञानमतोऽन्यदुक्तम् ॥
”इति विष्णुपुराणे ६ अंशे आत्यन्तिकप्रति-सञ्चारो नाम ५ अध्यायः ॥
* ॥
अपि च ।नारद उवाच ।“कृतं त्रेता द्बापरश्च कलिश्चेति चतुर्युगम् ।दिव्यमेकयुगं ज्ञेयं तस्य या वैकसप्ततिः ॥
मन्वन्तरन्तु तज्ज्ञेयं ते तु यत्र चतुर्द्दश ।स कल्पो नाम वै कालस्तदन्ते प्रलयस्तु यः ॥
सा ब्रह्मरात्री राजेन्द्र ! यत्र शेतेऽम्बुजासनः ।त्रयो लोकास्तदा राजन् ! लीयन्ते तन्निमित्ततः ॥
नैमित्तिको लयो नाम दैनन्दिन इतीर्य्यते ॥
एवं दिनप्रमाणेन ब्रह्मणः शतवार्षिकम् ।आयुः पूर्व्वपरार्द्धे तु परार्द्धे द्वे प्रकीर्त्तिते ॥
द्विपरार्द्धे व्यतीते तु ब्रह्मणो जगदात्मनः ।तदा प्रकृतयः सप्त प्रलयं यान्ति भूमिप ! ॥
लयः प्राकृतिको ह्येष लीने ब्रह्मणि भूपते ! ।अण्डकोषेऽपि सकलः प्रलयं याति सर्व्वशः ॥
पूर्व्वरूपन्तु वक्ष्यामि प्रलयस्यास्य भूपते ! ।शतवर्षाणि भूमौ हि पर्ज्जन्यो नैव वर्षति ॥
दुर्भिक्षे निर्जने लोके प्रजाः सर्व्वाः क्षुधार्द्दिताः ।परस्परं भक्ष्यमाणाः क्षयं यास्यन्ति भूमिप ! ॥
समुद्रे च धरण्याञ्च वृक्षेषु च लतासु च ।देहे च यो रसस्तं हि रविर्हरति रश्मिभिः ॥
ततः संवर्त्तको नाम ज्वालामाली हुताशनः ।सङ्कर्षणमुखोत्पन्नो दहत्यनिलसारथिः ॥
सर्व्वं ब्रह्माण्डभाण्डं वै तत्कालक्षोभगर्जितः ।एवं दग्धं महाराज ! वह्न्यर्काभ्यां समन्ततः ॥
दग्ध्वा गोमयपिण्डाभं ब्रह्माण्डं सारवर्ज्जितम् ।प्रचण्डपवनो राजंस्ततो वर्षशतं पुनः ॥
संवर्त्तको नाम महान् ब्रह्माण्डं चालयिष्यति ।ततो मेघा महाघोरा नानावर्णा अनेकशः ॥
शतं वर्षाणि वर्षन्ति गर्ज्जन्ति च महास्वनाः ।एकोदकं ततो विश्वं निर्गुणं निर्व्विकारकम् ॥
भूमेर्गन्धगुणं राजन् ! ग्रसन्त्यापः समन्ततः ।गुणनाशात् स्वयं पृथ्वी प्रलयं प्राप्स्यते तदा ॥
तेजस्त्वपां रसगुणं सगन्धं पिबते बलात् ।ततः प्रलयमायान्ति राजन्नापोऽपि तत्क्षणात् ॥
तेजसस्तु ततो रूपं रसगन्धसमन्वितम् ।वायुर्हरति चण्डात्मा तेजःप्रलयमृच्छति ॥
आकाशस्तु ततो वायोः स्पर्शं परगुणैः सह ।समादत्ते महाराज ! अम्बरेऽथ प्रलीयते ॥
आकाशस्य गुणं शब्दं गुणैरन्यैः समन्वितम् ।अहङ्कारः समादत्ते नभस्तस्मिन् प्रलीयते ॥
तैजसेष्विन्द्रियाण्यङ्गदेवा वैकारिके तथा ।अहङ्कारे प्रलीयन्ते जगदेतच्चराचरम् ॥
अहङ्कारं भक्षयन्ति ततः सत्त्वादयो गुणाः ।ग्रसते तान् महाराज ! आद्या प्रकृतिरुच्यते ॥
न तस्याः कालदोषेण परिणामो नरर्षभ ! ।आद्यन्तरहिता सा हि नित्यं कारणमव्ययम् ॥
शक्तिर्भगवतः सा हि तदेकपरमा च सा ।इत्युक्तः प्रलयो राजन् ! विश्वस्यास्य महामते ! ॥
यथोत्पत्तिक्रमेणास्य व्युत्क्रमेण लयस्तथा ॥
”इति पाद्मे स्वर्गखण्डे ३९ अध्यायः ॥
(सात्त्विकविकारान्तर्गतविकारविशेषः । तल्ल-क्षणं यथा, साहित्यदर्पणे । ३ । १६७ ।“प्रलयः सुखदुःखाभ्यां चेष्टाज्ञाननिराकृतिः ॥
”)
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
