| YouTube Channel

प्रयोजनं (prayojanaM)

 
Apte 1890
English
प्रयोजनं 1 Use, employment, application.
2 Use, need, necessity (with instr. of that which is needed and gen. of the user)
सर्बैरपि राज्ञां प्रयोजनं Pt. 1
बाले किमनेन पृष्टेन प्रयोजनं K. 144.
3 End, aim, object, purpose
प्रयोजनमनुद्दिश्य मंदोऽपि प्रवर्तते
पुत्रप्रयोजना दाराः पुत्रः पिंडप्रयोजनः हितप्रयोजनं मित्रं धनं सर्वप्रयोजनं Subhāṣ.
गुणवत्तापि परप्रयोजना R. 8. 31.
4 A means of attaining
Ms. 7. 100.
5 A cause, motive, occasion.
6 Profit, interest.
शब्दकल्पद्रुमः
Sanskrit
प्रयोजनं,
क्ली,
(प्रयुज्यते इति प्र + युज् + ल्युट् ।)कार्य्यम् (प्रयुज्यतेऽनेनेति प्र + युज् + करणेल्युट् ।) हेतुः इति मेदिनी ने, १९३
यथा, “सर्व्वस्यैव हि शास्त्रस्य कर्म्मणो वापि कस्यचित् ।यावत् प्रयोजनं नोक्तं तावत् केन प्रगृह्यते
सिद्धार्थं सिद्धसम्बन्धं श्रोतुं श्रोता प्रवर्त्तते ।ग्रन्थादौ तेन वक्तव्यः सम्बन्धः सप्रयोजनः
”इति प्राञ्चः
(“प्रयोजनञ्च द्विविधं मुख्यं गौणञ्च तत्रअन्ये च्छानधीनेच्छाविषयत्वं मुख्यप्रयोजनत्वम् ।अन्येच्छाधीनेच्छाविषयत्वं गौणप्रयोजनत्वम् ।तत्राद्यं सुखं तद्भोगो दुःखाभावश्च द्बितीयंतदुपकारि शयनभोजनादि तस्य मुख्यप्रयो-जनेच्छयैव जन्याया इच्छाया विषयत्वात्तथा-त्वम् ।” इति मुक्तिवादे गदाधरः
उद्देशः यथा, “अथ प्रयोजनम् प्रयोजनं नाम यदर्थमारभ्यन्तआरम्भाः यथा यद्यकालमृत्युरस्ति ततोऽह-मात्मानमायुष्यैरुपचरिष्याम्यनायुष्यैः परिहरि-ष्यामि कथं मामकालमृत्युः प्रसहेतेति !”इति चरके विमानस्थानेऽष्टमेऽध्याये
)