| YouTube Channel

प्रयोक्ता (prayoktA)

 
Wordnet
Sanskrit
Synonyms:
ऋणप्रदाता, उत्तमर्णः, कुसीदः, कुसीदिकः, प्रयोक्ता, प्रयोजकः, वृद्ध्याजीवः, वृद्ध्युपजीवी, धनिकः, साधु
noun
ऋणदानजीवकः धनिकः यः अन्यान् ऋणत्वेन धनं ददाति।
"वयम् उत्तमर्णाय ऋणं प्रत्यर्पयितुम् इच्छामः।"
शब्दकल्पद्रुमः
Sanskrit
प्रयोक्ता, [ऋ]
पुं,
(प्रयुनक्तीति प्र + युज् +तृच् ।) उत्तमर्णः यथा, --“उत्तमर्णाधमर्णौ द्वौ प्रयोक्तृग्राहकौ क्रमात्
”इत्यमरः
त्रि, प्रयोगकर्त्ता (यथा, रघुः ५७ ।“संमोहनं नाम सखे ! ममास्त्रंप्रयोगसंहारविभक्तमन्त्रम् ।गान्धर्व्वमादत्स्व यतः प्रयोक्तु-र्नचारिहिंसा विजयश्च हस्ते
”अनुष्ठाता यथा, रघुः ७६ ।“पुत्त्रो रघुस्तस्य पदं प्रशास्तिमहाक्रतोर्विश्वजितः प्रयोक्ता
”नियोगकर्त्ता यथा, महाभारते १३ ।२३ ६२ ।“परदाराभिहर्त्तारः परदाराभिमर्षिणः ।परदारप्रयोक्तारस्ते वै निरयगामिनः
”नाट्याचार्य्यः यथा, रघुः १९ ३६ ।“स प्रयोगनिपुणः प्रयोक्तृभिःसञ्जघर्ष सह मित्रसन्निधौ
”)