| YouTube Channel

प्रयुक्तं (prayuktaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रयुक्तं, त्रि, (प्र + युज् + क्तः ।) प्रकर्षेण युक्तम् ।यथा, --“गुणप्रयुक्ताः परमर्म्मभेदिनःशरा इवावंशभवा भवन्ति हि ।तथाविधा ये तु विशुद्धवंशजाव्रजन्ति चापा इव तेऽतिनम्रताम्
”इत्युद्भटः
प्रकृष्टस्रमाधियुक्तम् प्रकृष्टसंयोगविशिष्टम् ।प्रकृष्टनिन्दायुक्तम् प्रकृष्टसंयमविशिष्टम् ।प्रपूर्व्वयुगधात्वर्थदर्शनात् हेतौ क्ली यथा नच समवायिनिमित्ताभावप्रयुक्तो नियमेनकार्य्याभावः किन्त्वसमवायिकारणाभावप्रयुक्तो-ऽपि इति रक्षितः