| YouTube Channel

प्रयत्नशैथिल्य (prayatnazaithilya)

 
वाचस्पत्यम्
Sanskrit
प्रयत्नशैथिल्य त० स्वाभाविकप्रयत्नस्योपरमपूर्वकप्रयत्नभेदे-तच्च योगाङ्गासनसिद्धिकारणं यथोक्तं “प्रयत्नशैथि-ल्यानन्तसमापत्तिभ्याम्” पा० सू० “भवतीति शेषः प्रयत्नोपरमात् सिद्ध्यत्यासनं येन नाङ्गमेजयो भवति अनन्तेवा समापन्नं चित्तमासन निर्वर्त्तयतीति” भा० “सांसिद्धिकोहि प्रयत्नः शरीरधारको यागाङ्गस्योपदेष्ट-व्यासनस्य कारणं तस्य तत्कारणत्वे उपदेशवैयर्थ्यात्स्वरसत एव तत्सिद्धेः तस्मादुपदेष्टव्यस्यासनस्यायमसा०धकः विरोधी स्वाभाविकः प्रयत्नः तस्य यादृ-च्छिकासनहेतुतयासनवियमोपहर्तृत्वात् तस्मादुपदिष्ट-नियमासनमभ्यस्यता स्वाभाविकप्रयचशैथिल्यात्मा प्रयत्नआस्थेयो नान्यथोपदिष्टमासनं सिध्यतीति स्वाभाविकप्रयत्नशैथिल्यमासनसिद्धिहेतुः अनन्ते वा नागनायके स्थि-रतरफणासहस्नविधृतविश्वम्भरामण्डले समापन्नं चित्त-मासनं निर्वर्त्तयतीति” विव०