प्रमा-उपमा-अनुमा (pramA-upamA-anumA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
कृदन्तरूपमाला
Sanskrit1 {@“मा माने”@} 2 ‘मिमीते मायते माने माति तत्रैव शब्लुकि।’ 3 इति देवः।
‘मानम् = वर्तनम्’ इति क्षीरस्वामी।
‘-- अन्तर्भावः’ इति मा।
धा।
वृत्तिः।
‘आधेयस्याधाराद् अनधिकपरिमाणताऽत्र मानम्।’ इति पुरुषकारः।
4 मायकः-यिका, 5 मापकः-पिका, 6 मित्सकः-त्सिका, 7 मेमीयकः-यिका
माता-त्री, मापयिता-त्री, मित्सिता-त्री, मेमीयिता-त्री
8 9 निर्मान्- 10 न्ती-ती, मापयिष्यन्-न्ती-ती, मित्सिष्यन्-न्ती-ती
-- -- मापयमानः, मापयिष्यमाणः, -- मेमीयमानः, मेमीयिष्यमाणः
प्रमीः-प्रम्यौ-प्रम्यः
-- -- -- 11 मितम्-तः-तवान्, मापितः, मित्सितः, मेमीयितः-तवान्
12 प्रमः, 13 मायः, माया-मायावी-मायिकः-मायी, 14 धान्यमायः, मापः, मित्सुः, 15 मेम्यः
मातव्यम्, मापयितव्यम्, मित्सितव्यम्, मेमीयितव्यम्
16 प्रनिमानीयम्-प्रणिमानीयम्, मापनीयम्, मित्सनीयम्, मेमीयनीयम्
17 मेयम्, 18 पाय्यम्, माप्यम्, मित्स्यम्, मेमीय्यम्
ईषन्मानः-दुर्मानः-सुमानः
-- -- 19 20 मीयमानः, माप्यमानः, मित्स्यमानः, मेमीय्यमानः
मायः, 21 आमः, मापः, मित्सः, मेमीयः
मातुम्, मापयितुम्, मित्सितुम्, मेमीयितुम्
22 प्रमा-उपमा-अनुमा, प्रमितिः, मापना, मित्सा, मेमीया
प्रमाणम्, मापनम्, मित्सनम्, मेमीयनम्
मित्वा, मापयित्वा, मित्सित्वा, मेमीयित्वा
23 प्रमाय, प्रमाप्य, प्रमित्स्य, प्रमेमीय्य
मायम् २, मित्वा २, मापम् २, मापयित्वा २, मित्सम् २, मित्सित्वा २, मेमीयम् २
मेमीयित्वा २
24 मेरुः, 25 मात्रा, 26 मासः।
27
01 (१२४०)
02 (२-अदादिः-१०६२। सक। अनि। पर।)
03 (श्लो। ९)
04 [[१। ण्वुलि ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं घञ्णमुलादिष्वपि ज्ञेयम्।]]
05 [[२। ण्यन्ते सर्वत्र ‘अर्त्तिह्रीव्ली--’ (७-३-३६) इति आदन्तलक्षणे पुगागमे रूपमेवम्।]]
06 [[३। ‘सनि मीमाघु--’ (७-४-५४) इत्यादिना इस्भावे, ‘अत्र लोपोऽभ्यासस्य’ (७-४-५८) इत्यभ्यासलोपे, ‘सः स्यार्धधातुके’ (७-४-४९) इति सकारस्य तकारे, ‘हलन्ताच्च’ (१-२-१०) इति सनः कित्त्वेन गुणाभावे च रूपमेवम्। एवं सन्नन्ते सर्वत्र प्रक्रिया ज्ञेया।]]
07 [[४। यङन्ते सर्वत्र, ‘घुमास्था--’ (६-४-६६) इतीकारे, ‘गुणो यङ्लुकोः’ (७-४-८२) इत्यभ्यासे गुणः।]]
08 [पृष्ठम्१०१४+ २४]
09 [[१। शतरि, अदादित्वेन शपो लुकि, सवर्णदीर्घे, ‘आच्छीनद्योर्नुम्’ (७-१-८०) इति स्त्रियां नुम्विकल्पे च निर्मान्ती-निर्माती इति रूपद्वयम् इति ज्ञेयम्।]]
10 [[आ। ‘ख्यान्त्यः कथाः प्राणमुदां पतीनां निर्मान्त्य इष्टानि चट्न् वचत्यः।’ धा। का। २। ५०।]]
11 [[२। ‘द्यतिस्यतिमास्थाम् इत् ति किति’ (७-४-४०) इति क्तप्रत्यये परतः प्रकृतेः इकारः। गुणनिषेधः। एवं क्त्वाक्तिन्प्रभृतिष्वपीकारो बोध्यः।]]
12 [[३। ‘आतश्चोपसर्गे’ (३-१-१३६) इति कर्तरि कप्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपः।]]
13 [[४। ‘श्याऽऽद्व्यध--’ (३-१-१४१) इत्यादिना कर्तरि आदन्तलक्षणो णप्रत्ययः। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। स्त्रियां टापि माया इति सिद्ध्यति। मायाशब्दात् मत्वर्थीये विनिप्रत्यये मायावी इति, व्रीह्यादित्वात् (५-२-११६) इनिठन्प्रत्यययोश्च मायी-मायिकः इति च रूपाणि सिद्ध्यन्ति।]]
14 [[५। कर्मण्युपपदे कर्तरि, ‘ह्वावामश्च’ (३-२-२) इत्यण्प्रत्यये युगागमे च रूपमेवम्। ‘आतोऽनुपसर्गे कः’ (३-२-३) इति प्राप्तस्य कप्रत्ययस्यापवादः।]]
15 [[६। यङन्तात् पचाद्यचि (३-१-१३४), ‘यङोऽचि च’ (२-४-७४) इति यङो लुकि ईकारे, उत्तरखण्डे यणि च रूपमेवम्।]]
16 [[७। ‘शेषे विभाषा--’ (८-४-१८) इति नेर्णत्वविकल्पः। ‘नेर्गदनदपतपदघुमा --’ (८-४-१७) इत्यत्र नास्य धातोर्ग्रहणम्, अपि तु माङ्मेङोरेव ग्रहणम् इति बहवः।]]
17 [[८। यति परे, ‘ईद् यति’ (६-४-६५) इति ईकारे गुणे च रूपमेवम्।]]
18 [[९। माने = परिमाणेऽभिधेये ‘पाय्यसान्नाय्यनिकाय्यधाय्या मानहविर्निवाससामिधे- नीषु’ (३-१-१२९) इत्यनेन ण्यदायादेशौ आदेः पकारश्च निपात्यन्ते।]]
19 [पृष्ठम्१०१५+ २५]
20 [[१। यगन्ताच्छानशि ईकारे मीयमानः इति सिद्ध्यति। क्षीरस्वामी तु ‘घुमास्था- --’ (६-४-६६) इति सूत्रे नास्य धातोर्ग्रहणमिति ‘सर्वत्र हि पामाग्रहणं लुग्विकरणस्य णत्ववर्जम्’ इति वचनं किञ्चिदुपादाय मायते इति यकि रूपं साधितवान् भाष्यादिषु नैतादृशं वचनमुपलभ्यते। प्रक्रियाकौमुदीकारं वर्जयित्वा सर्वेऽपि ‘गामादाग्रहणेष्वविशेषः’ (परि। ११६) इति परिभाषामवलम्ब्य ‘घुमास्था--’ (६-४-६६) इत्यादिषु सर्वत्र माग्रहणेष्वस्यापि ग्रहणमिच्छन्ति। स्पष्टमिदं माधवधातुवृत्त्यादिषु।]]
21 [[२। आ = समन्तात् मीयतेऽत्रेति आमः = अपक्वपदार्थः। अधिकरणे ‘घञर्थे कविधानम्--’ (वा। ३-३-५८) इति कप्रत्यये, आकारलोपे रूपमेवम्।]]
22 [[३। स्त्रियां भावादौ, ‘आतश्चोपसर्गे’ (३-३-१०६) इति क्तिन्नपवादोऽङ्प्रत्ययः। ‘आतो लोप इटि च’ (६-४-६४) इत्याकारलोपे अदन्तत्वेन टापि प्रमा, उपमा इत्यादिकं सिद्ध्यति। प्रमितिः, उपमितिः, अनुमितिः इत्यादयस्तु बाहुलकात् क्तिनि सिद्ध्यन्तीति ज्ञेयम्।]]
23 [[४। समासे क्त्वाप्रत्ययस्य ल्यबादेशे, ‘न ल्यपि’ (६-४-६९) इतीकारनिषेधः।]]
24 [[५। ‘मापो रुरी च’ (द। उ। १-१५७) इति रुप्रत्यये ईकारे चान्तादेशे गुणे रूपमेवम्। माति सूर्येन्दुभ्यामिति मेरुः = सुरगिरिः।]]
25 [[६। ‘हुयामा--’ (द। उ। ८। ८४) इति त्रन्प्रत्यये रूपमेवम्। मीयतेऽनेनेति मात्रा = अल्पपरिमाणम्।]]
26 [[७। मातीत्यर्थे ‘मासश्च’ (द। उ। ९। २७) इति सप्रत्ययो निपात्यते। मासः = त्रिंशद्दिनपरिच्छिन्नः कालविशेषः।]]
27 [पृष्ठम्१०१६+ २७]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
