| YouTube Channel

प्रमत्तः (pramattaH)

 
शब्दकल्पद्रुमः
Sanskrit
प्रमत्तः, त्रि, (प्रमाद्यति स्मेति प्र + मद् + गत्य-र्थेति क्तः नध्याख्येति नत्वाभावः ।) प्रमादी ।अनवधानतायुक्तः यथा, --“मत्तं प्रमत्तमुन्मत्तं सुप्तं बालं स्त्रियं जडम् ।प्रपन्नं विरथं भीतं रिपुं हन्ति धर्म्मवित्
”इति श्रीभागवते स्कन्धे अध्यायः
“मत्तं मद्यादिना प्रमत्तमनवहितम् उन्मत्तंग्रहवातादिना जडं अनुद्यमम् प्रपन्नं शरणा-गतम् विरथं भग्नरथम् ।” इति श्रीधरस्वामी
अपरप्रमत्तो यथा, --“सन्ध्यापूजाविहीनश्च प्रमत्तः पतितः स्मृतः
”इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २७ अध्यायः
राज्ञा नाह्वानयतिव्यः यथा, --“मत्तोन्मत्तप्रमत्तार्त्तभृत्यान्नाह्वानयेन्नृपः
”इति मिताक्षरा