| YouTube Channel

प्रमङ्कनम् (pramaGkanam)

 
कृदन्तरूपमाला
Sanskrit
1 {@“मकि मण्डने”@} 2 मङ्ककः-ङ्किका, मङ्ककः-ङ्किका, मिमङ्किषकः-षिका, मामङ्ककः-ङ्किका
मङ्किता-त्री, मङ्कयिता-त्री, मिमङ्किषिता-त्री, मामङ्किता-त्री
इत्यादीनि सर्वाणि रूपाणि भौवादिककङ्कतिवत् 3 ऊह्यानि।
4 मङ्कनः, मङ्कणः, 5 प्रमङ्कनम्, 6 मङ्कितम्-तः-तवान्, 7 मङ्किः, 8 मङ्क्रिः
इत्यादीनि रूपाणि अस्य धातोः भवन्तीति विशेषः।
प्रासङ्गिक्यः
01
=>
(११९७)
02
=>
(१-भ्वादिः-८९। सक। सेट्। आत्म।)
03
=>
(१४०)
04
=>
[[१। ‘क्रुधमण्डार्थेभ्यश्च’ (३-२-१५१) इति ताच्छीलिको युच्प्रत्ययः। बाहुलकादत्रैव णत्वे मङ्कणः = ऋषिविशेषः।]]
05
=>
[[२। ‘कृत्यचः’ (८-४-२९) इति प्राप्तस्य णत्वस्य ‘इजादेः सनुमः’ (८-४-३२) इति इजादेरेवेति नियमात् णत्वं न।]]
06
=>
[[आ। ‘फलाङ्कितान् वङ्कितवल्लिमङ्कितान् वनप्रदेशानुरुकाककोकिलान्।’ धा। का। १-१३।]]
07
=>
[[३। औणादिके (द। उ। १-४६) इन्प्रत्यये रूपमेवम्।]]
08
=>
[[४। ‘वङ्क्र्यादयश्च’ (द। उ। १-३५) इति क्रिन्प्रत्यये रूपम्। मङ्क्रिः = शवः।]]