| YouTube Channel

प्रभातं (prabhAtaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रभातं,
क्ली,
(प्रकर्षेण भातुं प्रवृत्तमिति प्र +भा + आदिकर्म्मणि क्तः यद्वा, प्रकृष्टं भातंदीप्तिरत्रेति ।) प्रातःकालः तत्पर्य्यायः ।प्रत्यूषः अहर्मुखम् कल्यम् उषः ५प्रत्युषः इत्यमरः
दिनादिः ७निशान्तम् व्युष्टम् प्रगे १० प्राह्णम् ११ ।इति राजनिर्घण्टः
गोसः १२ गोसङ्गः १३ऊषः १४ ऊषकम् १५ उषा १६ ऊषा १७विभातम् १८ इति शब्दरत्नावली
*
(यथा, --“प्रभाते यः स्मरेन्नित्यं दुर्गा दुर्गाक्षरद्वयम् ।आपदस्तस्य नश्यन्ति तमः सूर्य्योदये यथा
”इति धर्म्मशास्त्रम्
)तत्र दर्शनीया यथा, --“वैद्यः पुरोहितो मन्त्री दैवज्ञोऽथ चतुर्थकः ।प्रभातकाले द्रष्टव्यो नित्यं स्वश्रियमिच्छता
”इति राजवल्लभः