| YouTube Channel

प्रबोधिनी (prabodhinI)

 
Spoken Sanskrit
English
प्रबोधिनी prabodhinI
f.
11th day in the light half of kArttika
Apte 1890
English
प्रबोध(धि)नी The eleventh day of the bright half of Kārtika on which Viṣṇu awakes from his four months' sleep.
Monier Williams Cologne
English
प्र-°बोधिनी
f.
the 11th day in the light half of Kārttika (= °बोधनी),
Cat.
Apte Hindi
Hindi
प्रबोधिनी
स्त्री*
- प्र+बुध्+णिच्+णिनि+ङीप्
देव उठनी एकादशी
L R Vaidya
English
praboDa(Di)nI {% f. %} The eleventh day of the bright fortnight of Kārtīka, the day on which Vishṇu awakes from his sleep.
शब्दकल्पद्रुमः
Sanskrit
प्रबोधिनी,
स्त्री,
(प्रबोधयति हरिमिति प्र +बुध् + णिच् + णिनिः ङीप् ।) प्रबोधनी ।उत्थानैकादशी यथा, --वराह उवाच ।“उपवासासमर्थानां सदैव पृथुलोचने ! ।एका सा द्वादशी पुण्या उपोष्या या प्रबोधिनी
तस्यामाराध्य विश्वेशं जगतामीश्वरेश्वरम् ।प्राप्नोति सकलं तद्धि द्वादशद्वादशीफलम्
पूर्व्वभाद्रपदा योगे सैव वा द्वादशी भवेत् ।अतीव महती तस्यां सर्व्वकृत्यमथाक्षयम्
उत्तराङ्गारसहिता यदि चैकादशी भवेत् ।तदा कोटिगुणं पुण्यं केशवाल्लभते फलम्
सकृदेवार्च्चिते तस्यां सर्व्वं कृतमिहाक्षयम् ।यथा प्रबोधिनी पुण्या तथा यस्यां स्वपेद्धरिः
उपोष्या हि महाभागे ! अनन्तफलदा हि सा ।शयने बोधने चैव हरेस्तु परिवर्त्तने
उपोष्यैव विधानेन नरो निर्म्मलतां ब्रजेत् ।तस्मात् सर्व्वप्रयत्नेन द्बादशीं समुपोषयेत्
यदीच्छेत विशालाक्षि ! शाश्वतीं गतिमात्मनः ।एकादशी सोमयुक्ता कार्त्तिके मासि भामिनि ! ।उत्तराभद्रसंयोगे अनन्ता सा प्रकीर्त्तिता
तस्यां यत् क्रियते भद्रे ! सर्व्वमानन्त्यमश्नुते ।अनन्तपुण्यफलदा तेनानन्ता स्मृता प्रिये !
एकादशी भौमयुता यदा स्याद्भूतधारिणि !
स्नात्वा देवं समभ्यर्च्च्य प्राप्नोति परमं फलम् ।प्राप्नोति सकलं तद्धि द्बादशद्वादशीं नरः
जलपूर्णं तदा कुम्भं स्थापयित्वा विचक्षणः ।पञ्चरत्नसमोपेतं घृतपात्रयुतं तथा
तस्यां स्कन्धे तु धरितं मत्स्यरूपं जनार्द्दनम् ।माषकेण सुवर्णेन सुतप्तेन वरानने !
स्नापयित्वा विधानेन कुङ्कुमेन विलेपितम् ।पीतवस्त्रयुगच्छन्नं छत्रोपानद्युगान्वितम्
पूजयेत् कमलैर्देवि ! मद्भक्तः संजितेन्द्रियः ।मत्स्यं कूर्म्मं वराहञ्च नारसिंहञ्च वामनम्
रामं रामञ्च कृष्णञ्च बुद्धञ्चैव तु कल्किनम् ।एवं दशावतारांश्च पूजयेद्भक्तिसंयुतः
पुष्पैर्धूपैस्तथा दीपैर्नैवेद्यैर्विविधैरपि ।संपूज्यैवमलङ्कारैर्विविधैः पूजनञ्चरेत्
ततस्तस्याग्रतो देयं नैवेद्यं पाचितं चितम् ।एवं संपूज्य गोविन्दं दिवापि कमलेक्षणम्
रात्रौ चोत्थापनं कार्य्यं देवदेवस्य सुव्रते ! ।प्रभाते विमले स्नात्वा भक्त्या संपूज्य केशवम्
पुष्पधूपादिनैवेद्यैः फलैर्नानाविधैः शुभैः ।ततस्तु पूजयेद्विद्वानाचार्य्यं भक्तिसंयुतः
अलङ्कारोपहारैश्च वस्त्राद्यैश्च स्वशक्तितः ।पूजयित्वा विधानेन तं देवं प्रतिपादयेत्
जगदादे जगद्रूप अनादे जगदादिकृत् ।जलशायिन् जगद्योने प्रीयतां मे जनार्द्दन !
अनेनैव विधानेन कुर्य्यादेकादशीं नरः ।तस्य पुण्यं भवेद्यत्तु तच्छृणुष्व वसुन्धरे !
यदि वक्त्रसहस्राणां सहस्राणि भवन्ति हि ।संख्यातुं नैव शक्यन्ते प्रबोधिन्यास्तथा गुणाः
तथाप्युद्देशमात्रेण शक्त्या वक्ष्यामि तच्छृणु ।चन्द्रतारार्कसङ्काशमधिष्ठायानुजीविभः
सहैव यानमागच्छेन्मम लोकं वसुन्धरे ! ।ततः कल्पसहस्रान्ते सप्तद्बीपेश्वरो भवेत्
आयुरारोग्यसम्पन्नो जन्मातीतो भवेत्ततः ।ब्रह्मघ्नश्च सुरापश्च स्तेयी गुरुतल्पगः
पापान्येतानि सर्व्वाणि श्रवणेनैव नाशयेत्
पश्येच्च धीमानधनोऽपि भक्त्यास्पृशेन्मनुष्य इह धीयमानः ।शृणोति भक्तस्य मतिं ददातिविकल्मषः सोऽपि दिवं प्रयाति
दुःस्वप्नं प्रशममुपैति पठ्यमानेमाहात्म्ये भवभयहारके नरस्य ।यः कुर्य्याद्व्रतवरमेतदव्ययायाबोधिन्याः किमुत फलन्तु तस्य वाच्यम्
ते धन्यास्ते कृतार्थाश्च तैरेव सुकृतं कृतम् ।तैरात्मजन्म सफलं कृतं ये व्रतकारकाः
”इति वराहपुराणे प्रबोधिनीमाहात्म्यम्