| YouTube Channel

प्रबोधनी (prabodhanI)

 
Spoken Sanskrit
English
प्रबोधनी prabodhanI
f.
celebrated as a festival in commemoration of the waking of viSNu
प्रबोधनी prabodhanI
f.
11th day in the light half of the month kArttika
Apte 1890
English
प्रबोध(धि)नी The eleventh day of the bright half of Kārtika on which Viṣṇu awakes from his four months' sleep.
Monier Williams Cologne
English
प्र-°बोधनी
f.
the 11th day in the light half of the month Kārttika, celebrated as a festival in commemoration of the waking of Viṣṇu,
Pur.
Alhagi Maurorum,
L.
Apte Hindi
Hindi
प्रबोधनी
स्त्री*
- प्रबोधन+ ङीप्
देव उठनी एकादशी
L R Vaidya
English
praboDa(Di)nI {% f. %} The eleventh day of the bright fortnight of Kārtīka, the day on which Vishṇu awakes from his sleep.
Indian Epigraphical Glossary
English
prabodhanī (EI 8), prabodh-otsava (EI 32), same as utthāna-
dvādasī.
शब्दकल्पद्रुमः
Sanskrit
प्रबोधनी,
स्त्री,
(प्रबोध्यतेऽनयेति प्र + बुध् +णिच् + ल्युट् + ङीप् ।) दुरालभा इति राज-निर्घण्टः
(प्रबुध्यते हरिरत्रेति ।) श्रीहरे-रुत्थानैकादश्यादिः ।अथ प्रबोधनीकृत्यम् ।“शयन्यामिव कृत्यास्यां क्षीराम्भोधिमहोत्सवम् ।प्रबोध्य कृष्णं संपूज्य विधिनारोहयेद्रथम्
”अथ प्रबोधनीकृत्यनित्यता ।स्कान्दे तत्रैव ।“जन्मप्रभृति यत् पुण्यं नरेणोपार्जितं भुवि ।वृथा भवति तत्मर्व्वं कृत्वा बोधवासरम्
”अथ प्रबोधनीमाहात्म्यम् तत्रैव ।“प्रबोधन्याश्च माहात्म्यं पापघ्नं पुण्यवर्द्धनम् ।मुक्तिदं कृतबुद्धीनां शृणु त्वं मुनिसत्तम !
तावद्गर्जति विप्रेन्द्र ! गङ्गा भागीरथी क्षितौ ।यावन्नायाति पापघ्नी कार्त्तिके हरिबोधनी
तावद्गर्जन्ति तीर्थानि आसमुद्रसरांसि ।यावत् प्रबोधनी विष्णोस्तिथिर्नायाति कार्त्तिके
वाजपेयसहस्राणि अश्वमेधशतानि ।एकेनैवोपवासेन प्रबोधन्यां लभेन्नरः
दुर्लभञ्चैव दुष्प्रापं त्रैलोक्ये सचराचरे ।तदपि प्रार्थितं विप्र ! ददाति हरिबोधनी
ऐश्वर्य्यं सन्ततिं प्रज्ञां राज्यञ्च सुखसम्पदः ।ददात्युपोषिता विप्र ! हेलया हरिबोधनी
मेरुमन्दरतुल्यानि पापान्यत्युर्जितान्यपि ।एकेनैवोपवासेन दहते हरिबोधनी
पृथिव्यां यानि दानानि दत्त्वा यत् फलमाप्नुते ।एकेनैवोपवासेन ददाति हरिबोधनी
”किञ्च ।“जातः एव सुकृती कुलं तेनैव पावितम् ।कार्त्तिके मुनिशार्द्दूल ! कृता येन प्रबोधनी
यानि कानि तीर्थानि त्रैलोक्ये सम्भवन्ति ।तानि तस्य गृहे सम्यक् यः करोति प्रबोधनीम्
सर्व्वं कृत्यं परित्यज्य तुष्ट्यर्थं चक्रपाणिनः ।उपोष्यैकादशी सम्यक् कार्त्तिके हरिबोधनी
किं तस्य बहुभिः कृत्यैः परलोकप्रदैर्मुने ! ।सकृच्चोपोषिता येन कार्त्तिके हरिबोधनी
ज्ञानी हि योगी तपस्वी जिते-न्द्रियः ।स्वर्गमोक्षौ तस्यास्तामुपास्ते हरिबोधनीम्
विष्णोः पियतमा ह्येषा धर्म्मसारस्य दायिनी ।इमां सकृदुपोष्यैव मुक्तिभागी भवेन्नरः
प्रबोधनीमुपोष्यैव गर्भं विशते नरः ।सर्व्वधर्म्मान् परित्यज्य तस्मात् कुर्व्वीत नारद !
स्नानं दानं तपो होमः समुद्दिश्य जनार्द्दंनम् ।नरैर्यत् क्रियते विप्र ! प्रबोधन्यां तदक्षयम् ।महाव्रतमिदं पुत्त्र ! महापापौघनाशनम् ।प्रबोधवासरं विष्णोर्विधिवत् समुपोषयेत्
ब्रतेनानेन देवेशं परितोष्य जनार्द्दनम् ।विराजयन् दिशो दीप्त्या प्रयाति भुवनं हरेः
”पाद्मे तत्रैव ।“दुग्धाब्धिभोगिशयने भगवाननन्तोयस्मिन्दिने स्वपिति चाथ विबुध्यते ।तस्मिन्ननन्यमनसामुपवासभाजांपुंसां ददात्यभिमतं गरुडाङ्कशायी
”वाराहे ।“उपवासासमर्थानां सदैव पृथुलोचने ! ।एका सा द्वादशी पुण्या समुपोष्या प्रबोधनी
तस्यामाराध्य विश्वेशं जगतामीश्वरेश्वरम् ।प्राप्नोति सकलं तद्धि द्वादशद्वादशीव्रतम्
उत्तराङ्गारकयुता यदि सा भवति प्रिये ! ।तदा सा महती पुण्या कोटिकोटिगुणोत्तरा
शयने बोथने चेव कटिदाने सुन्दरि ! ।उपोष्यैव विधानेन यान्ति मल्लयतां नराः
एकादशी सोमयुता कार्त्तिके मासि भाविनि !उत्तराभाद्रसंयोगे अनन्ता सा प्रकीर्त्तिता
तस्यां यत् क्रियते भद्रे ! सर्व्वमानन्त्यमश्नुते ।अनन्तपुण्यफलदा तेनानन्ता स्मृता फले
”तत्रैव श्रीयमनारदसंवादे ।“अन्यच्च ते प्रवक्ष्यामि गुह्याद्गुह्यतरं मुने ! ।कार्त्तिकेऽमलपक्षे तु साक्षादेकादशी स्मृता
भक्तिप्रदा हरेः सा तु नाम्ना ख्याता प्रबोधनी ।या सा विष्णोः परा मूर्त्तिरव्यक्तानेकरूपिणी
सा क्षिप्ता मानुषे लोके द्वादशी मुनिपुङ्गव !
”श्रीमथुरायाञ्च विशेषतः पाद्मे तत्रैव ।“तावद्गर्ज्जन्ति तीर्थानि वाजिमेधादयो मखाः ।मथुरायां प्रिया विष्णोर्यावन्नायाति बोधनी
संसारदावतप्तानां कामसौख्यपिपासिनाम् ।श्रीकृष्णपादपद्मस्य सान्निध्यं शीतलं गृहम्
भवपान्थजनानां वै प्रापिकेयं प्रबोधनी ।कथं सेव्यते मूढैर्मथुरायां किमन्यतः
*
अथ विशेषतः प्रबोधन्यां श्रीभगवत्पूजादि-माहात्म्यम् स्कान्दे तत्रैव प्रबोधनीमाहात्म्ये ।“येऽर्च्चयन्ति नरास्तस्यां भक्त्या देवन्तु माधवम् ।समुपोष्य प्रमुच्यन्ते पापैस्ते समुपार्ज्जितैः
बाल्ये यच्चार्ज्जितं वत्स ! यौवने बार्द्धके यत् ।सप्तजन्मकृतं पापं स्वल्षं वा यदि वा बहु
शुष्कार्द्रं मुनिशाद्र्दूल ! सुगुह्यमपि नारद ! ।तत् क्षालयति गोविन्दस्तिथौ तस्यां प्रपूजितः
”किञ्च ।“प्रबोधवासरे विष्णोः कुरुते हरेः कथाम् ।सप्तद्वीपावनीदाने यत् फलं तद्भवेन्मुने !
”वाराहे ।“कौमुदस्य तु मासस्य या सिता द्वादशी भवेत् ।अर्च्चयेद्यस्तु मां तत्र तस्य पुण्यफलं शृणु
यावल्लोका हि वर्त्तन्ते यावत्त्वञ्चैव माधवि ! ।मद्भक्तो जायते तावदत्यभक्तो जायते
*
तस्या अनुष्ठानं यथा, --ब्रह्मोवाच ।“शृणु मे भक्तितः पुत्त्र ! बोधन्येकादशी हरेः ।उपोष्या येन विधिना तं विप्र ! प्रवदामि ते
कार्त्तिके शुक्लपक्षे तु दशम्यां नियतः शुचिः ।स्नात्वा देवार्च्चनं कृत्वा वह्निकार्य्यं यथाविधि
आचान्तः सुप्रसन्नात्मा हविष्यान्नं सुसंस्कृतम् ।भुक्त्वाचम्य स्वपेत् सम्यक् कृत्वा शौचञ्च पादयोः
रात्रेश्च पश्चिमे यामे समुत्थाय यथाविधि ।कृत्वा मूत्रपुरीषे तु शौचं कुर्य्यादतन्द्रितः
कृत्वाष्टाङ्गुलमात्रन्तु क्षीरवृक्षसमुद्भवम् ।भक्षयेद्दन्तकाष्ठञ्च स्नात्वाचामेत् प्रयत्नतः
मृष्ट्वाङ्गानि तथाद्भिश्च चिरं ध्यायेज्जनार्द्दनम् ।अतसीपुष्पसङ्काशं कमलाक्षं चतुर्भुजम्
शङ्खचक्रगदाशार्ङ्गपीतवस्त्रं किरीटिनम् ।प्रसन्नवदनं देवं सर्व्वलक्षणलक्षितम्
ततश्चानुदये वारिहस्तेन परिगृह्य ।कुशान्वितं प्रगृह्णीयात् नियमं विष्णुतुष्टये
ध्यात्वा जलं गृहीत्वा तु भानुरूपं जनार्द्दनम् ।दृष्ट्वार्घ्यं दापयेत् पश्चात् करतोयेन मानवम्
एवमुच्चारयेद्बाचं तस्मिन् काले महामुने ! ।एकादश्यां निराहारः स्थित्वा चैवापरेऽहनि ।भोक्ष्येऽहं पुण्डरीकाक्ष ! शरणं मे भवाच्युत !
एवमुक्त्वा ततः सम्यक् नित्यकर्म्म सुकर्म्मधीः ।समर्पयेद्विधानेन विष्णुं संपूजयेन्मुने !
सहस्रसंख्यया सुस्थः सावित्रीं संजपेद्द्विजः ।सर्व्वपापक्षयकरीं ब्रतस्य परिपूर्त्तये
”इति पाद्मोत्तरखण्डे १२६ अध्यायः
*
अथ प्रबोधकालनिर्णयः भविष्ये ।“आ-भा-का-सितपक्षेषु मैत्रश्रवणरेवती ।आदिमध्यावसानेषु प्रस्वापावर्त्तनादिकम्
”पाद्मे ।“पौष्णशेषो यदा नाह्नि मैत्राद्यमपि नो निशि ।द्वादश्यामपि तत् कुर्य्यादुत्थानं शयनं हरेः
निशि स्वापो दिवोत्थानं सन्ध्यायां परिवर्त्तनम् ।अन्यत्र पादयोगेऽपि द्वादश्यामेव कारयेत्
”वाराहे ।“अपादनियमस्तत्र स्वापे वा परिवर्त्तने ।पादयोगो यदा स्यादृक्षेणापि तदा भवेत्
”किञ्च स्कान्दे ।“रेवत्यन्तो यदा रात्रौ द्वादश्या समन्वितः ।तदा विबुध्यते विष्णुर्दिनान्ते प्राप्य रेवतीम्
रेवत्यादिरथान्तो वा द्वादश्या विना भवेत् ।उभयोरप्यभावे तु सन्ध्यायाञ्च महोत्सवः
”वाराहे ।“द्वादश्यां सन्धिसमये नक्षत्राणामसम्भवे ।आ-भा-का-सितपक्षेषु शयनावर्त्तनादिकम्
”अतएव पुष्करपुराणे ।“यस्य यस्य तु देवस्य यन्नक्षत्रं तिथिश्च या ।तस्य देवस्य तस्मिंश्च शयनावर्त्तनादिकम्
*
अथ भगवत्प्रबोधनविधिः ।“शयन्यामिव निष्पाद्य महापूजां जलाशये ।कृष्णं नीत्वाथ सङ्कल्पं कृत्वा तञ्च प्रबोधयेत्
”तत्र मन्त्रः ।“ब्रह्मेन्द्ररुद्राग्निकुवेरसूर्य्य-सोमादिभिर्वन्दितपादपद्मः ।बुध्यस्व देवेश जगन्निवास !मन्त्रप्रभावेण सुखेन देव !
”इत्यन्तु द्वादशी देव प्रबोधार्थं विनिर्म्मिता ।त्वयैव सर्व्वलोकानां हितार्थं शेषशायिना
उत्तिष्ठोत्तिष्ठ गोविन्द ! त्यज निद्रां जगत्पते ! ।त्वयि सुप्ते जगत् सुप्तमुत्थिते चोत्थितं भवेत्
गता मेघा वियच्चैव निर्म्मलं निर्म्मला दिशः ।शारदानि पुष्पाणि गृहाण मम केशवेति
”उत्तिष्ठोत्तिष्ठेत्यत्र क्वचिच्चैवम् ।“त्वयि सुप्ते जगन्नाथे जगत् सुप्तं भवेदिदम् ।उत्थिते चेष्टते सर्व्वमुत्तिष्ठोत्तिष्ठ माधवेति
”वाराहे ।“ब्रह्मेन्द्ररुद्रैरवितर्क्यभावोभवानृषिर्वन्दितवन्दनीयः ।प्राप्ता तव द्वादशी कौमुदाख्याजागृष्व जागृष्व लोकनाथ !
मेघा गता निर्म्मलपूर्णचन्द्रःशारद्यपुष्पाणि लोकनाथ ! ।अहं ददानीति भक्तिहेतो-र्जागृष्व जागृष्व लोकनाथ !
”श्रुतिश्च “इदं विष्णुर्विचक्रमे त्रेधा निदधे पदंसमूढमस्य पांशुले” इत्यादि ।“ततस्तल्पात् समुत्थाप्य कृष्णं घण्टादिनिस्वनैः ।तीरे सुखं निवेश्याथ प्रार्थयेत्तदनुग्रहम्
तथा हि तृतीयस्कन्धे श्रीब्रह्मस्तुतौ ।“सोऽसावदभ्रकरुणो भगवान् विवृद्ध-प्रेमस्मितेन नयनाम्बुरुहं विजृम्भन् ।उत्थाय विश्वविजयाय नो विषादंमाध्व्या गिरापनयतात् पुरुषः पुराणः
”इति ।“ततः पुष्पाञ्जलिं दत्त्वा संस्थाप्य विधिवत् प्रभुम् ।नीराज्य न्यासपूर्व्वञ्च वस्त्रादीनि समर्पयेत्
”तथा ब्राह्मे ।“एकादश्यान्तु शुक्लायां कार्त्तिके मासि केशवम् ।प्रसुप्तं बोधयेद्रात्रौ भक्तिश्रद्धासमन्वितः
नृत्यैर्गीतैस्तथा वाद्यैरृग्यजुःसाममङ्गलैः ।विना पणवशब्दैश्च पुराणश्रवणेन
वासुदेवकथाभिश्च स्तोत्रैरन्यैश्च वैष्णवैः ।सुभाषितैरिन्द्रजालैर्भूमिशोभाभिरेव
पुष्पैर्धपैश्च नैवेद्यैर्दीपवृक्षैः सुशोभनैः ।होमैर्भक्षैरपूपैश्च फलैः शाकैश्च पायसैः
इक्षोर्विकारैर्मधुना द्राक्षाक्षौद्रैः सदाडिमैः ।कुठेरकस्य मञ्जर्य्या मालत्या नवनेन
”नवनं पुष्पविशेषः ।“हृद्याभ्यां श्वेतरक्ताभ्यां चन्दनाभ्याञ्च सर्व्वदा ।कुङ्कुमालक्तकाभ्याञ्च रक्तसूत्रैः सकुङ्कुमैः
तथा नानाविधैः पुष्पैर्द्रव्यैर्वीरक्रयाहृतैः
”एवमेव प्रायः पाद्मे ! तथा स्कान्दे ।“बहुपुष्पैर्बहुफलैः कर्पूरागुरुकुङ्कुमैः
हरेः पूजा विधातव्या कार्त्तिके बोधवासरे
”इति
“इत्थं कृत्वा महापूजां महानीराजनं तथा ।स्वव्रतान्यर्पयेत् कृष्णे सपुष्पाक्षतवारिणा
वेदस्तुत्यादिना स्तुत्वा स्वस्त्यस्त्वित्यादिना प्रभुम् ।संप्रार्थ्य गीतवाद्यादिघोषैरारोहयेद्रथम्
”तथा भविष्योत्तरे श्रीकृष्णयुधिष्ठिरसंवादे ।“महातूर्य्यरवै रात्रौ भ्रामयेत् स्यन्दने स्थितम्
उत्थितं देवदेवेशं नगरे पार्थिवः स्वयम् ।दीपोद्योतकरे मार्गे नृत्यगीतसमाकुले
”अथ रथयात्रामाहात्म्यं भविष्योत्तरे तत्रैव ।“यं यं दामोदरः पश्येदुत्थितो धरणीधरः ।तं तं प्रदेशं राजेन्द्र ! सर्व्वं स्वर्गाय कल्पयेत्
”किञ्च ।“यावत्पदानि कृष्णस्य रथस्याकर्षणं नरः ।करोति क्रतुभिस्तानि तुल्यानि नरनायक !
रथस्थं ये निरीक्षन्ते कौतुकेनापि केशवम् ।देवतानां गणाः सर्व्वे भवन्ति श्वपचादयः
स्त्रियोऽपि मुक्तिमायान्ति रथयात्रापरायणाःपितृमातृभर्त्तृकुलं नयन्ति हरिमन्दिरम्
कुर्व्वन्ति नर्त्तकीरूपं रथाग्रे कौतुकान्वितम् ।अप्सरोभिः सह क्रीडां कुर्व्वन्तीन्द्राश्चतुर्द्दश
ये रथाग्रे प्रकुर्व्वन्ति गीतवाद्यादि मानवाः ।देवलोकात् परिभ्रष्टा जायन्ते मण्डलेश्वराः
मौल्येन स्यन्दनस्याग्रे गायमानाश्च गायकाः ।वादकैः सह राजेन्द्र ! प्रयान्ति हरिमन्दिरम्रथोत्सवे मुकुन्दस्य येषां हर्षोऽपि जायते ।तेषां नारकी पीडा यावदिन्द्राश्चतुर्द्दश
रथोत्सवस्य माहात्म्यं कलौ वितनुत हि यः ।पुण्यबुद्ध्या विशेषेण लोभेनाप्यथवा नरः
सप्तद्वीपसमुद्रान्ता रत्नधान्यसमन्विता ।सशैलवनपुष्पाढ्या तेन दत्ता मही भवेत्
”अन्यत्र ।“बोधनी जगदाधारा कार्त्तिके शुक्लपक्षतः ।रथस्थो यत्र भगवांस्तुष्टो यच्छति वाञ्छितम्
भजन्ते ये रथारूढं देवं सर्व्वेश्वरेश्वरम् ।तेषां यात्रा कृता नॄणां कामानिष्टान् प्रयच्छति
श्रीकृष्णरथशोभां ये प्रकुर्व्वन्ति प्रहर्षिताः ।तेषां मनोरथावाप्तिं यच्छते पुरुषोत्तमः
कृष्णस्य रथशोभां ये प्रकुर्व्वन्ति स्वशक्तितः ।वाञ्छितं तेभ्यो यच्छन्ति नित्यं सूर्य्यादयो ग्रहाः
कृष्णस्य रथशोभां ये प्रकुर्व्वन्ति सुहर्षिताः ।पदे पदे तथा पुत्त्र ! पुण्यं तेषां प्रयागजम्
रथयात्रास्थिते कृष्णे जयेति प्रवदन्ति ये ।जयेति पुनर्ये वै शृणु पुण्यं वदाम्यहम्
गङ्गाद्बारे प्रयागे गङ्गासागरसङ्गमे
वाराणस्यादितीर्थेषु देवानाञ्चैव दर्शने ।यत् पुण्यं कविभिः प्रोक्तं कार्त्स्नेन नरेश्वर !
जयशब्दे कृते विष्णौ रथस्थे तत् फलं स्मृतम् ।रथस्थितो नरैर्यस्तु पूजितो धरणीधरः ।यथालाभोपपन्नैश्च पुष्पैर्भक्त्या समर्च्चितः
ददाति वाञ्छितान् कामानन्ते परमंपदम् ।मङ्गलं ये प्रकुर्व्वन्ति धूपदीपांस्तथा स्तवम्
नैवेद्यं वस्त्रपूजाञ्च भक्त्या नीराजनं हरेः ।रथारूढस्य कृष्णस्य संप्राप्ते हरिवासरे
फलं तन्मया ज्ञातं जानाति यदि केशवः ।ब्रह्मस्वहारी गोघ्नश्च भ्रूणहा ब्रह्मनिन्दकः
महापातकयुक्तोऽपि ब्रह्महा गुरुतल्पगः ।मद्यपः सर्व्वपापोऽपि कलिकालेन मोहितः
रथाग्रतः पदैकेन मुच्यते सर्व्वपातकैः
”किञ्चान्यत्र ।“रथारूढे महाविष्णौ ये कुर्व्वन्ति जयस्वनम् ।पूजाञ्चाखिलपापेभ्यो मुक्ता यान्ति हरेः पदम्
”किञ्च ।“रथस्याकर्षणं पूर्व्वं कुरुते दैत्यनायकः ।ततः सुराः सिद्धसङ्घा यक्षा गन्धर्व्वमानवाः
इत्थञ्च रथयात्राया विधिर्व्यक्तः स्वतोऽभवत् ।तथापि कश्चित्तत्रान्यो विशेषोऽपि वितन्यते
”अथ रथयात्राविघिः ।“श्रीकृष्णे तु रथारूढे कृत्वा जयजयध्वनिम् ।निष्पाद्य महापूजामाशीर्वाक्यानि कीर्त्त-येत्
”तथा विष्णुधर्म्मे ।“वक्त्रं नीलोत्पलरुचि लसत्कुण्डलाभ्यां सुमृष्टंचन्द्राकारं रचिततिलकं चन्दनेनाक्षतैश्च ।गत्या लीलां जनसुखकरीं प्रेक्षणेनामृतौघंपद्मावासां सततमुरसा धारयन् पातु विष्णुः
युक्तः शैलादिवाहैर्मधुरतररणत्किङ्किणीजाल-मालै-रत्नौघैर्मोक्तिकानामविरतमणिभिः संभृतैश्चैवहारैः ।हेमैः कुम्भैः पताकाशिवतररुचिभिर्भूषितःकेतुमुख्यै-श्छत्रैर्ब्रह्मेशवन्द्यो दुरितहरहरेः पातु जैत्रोरथो वः
मोदन्तां सुजना ह्यनिन्दितधियः स्रस्ताखिलो-पद्रवाःस्वस्थाः सुस्थिरबुद्धयः प्रतिहतामित्रा रमन्तांमुखम् ।रेदैत्या गिरिगह्वराणि गहनान्याशु व्रजध्वं भया-द्दैत्यारिर्भगवानयं यदुपतिर्यानं समारोहति
पलायध्वं पलायध्वं रे रे दितिजदानवाः ।संरक्षणाय लोकानां रथारूढो नृकेशरी
ततो विचित्रगद्यानि पठित्वाथ महाप्रभोः ।महाप्रसादमालाञ्च स्वीकुर्य्यात् परया मुदा
”तन्माहात्म्यञ्चोक्तम् ।“भक्त्या गृह्णाति यो मालां वैष्णवीं मङ्गला-श्रयाम् ।न तेषां दुर्लभं किञ्चिदिह लोके परत्र
तस्मात् सर्व्वप्रयत्नेन सर्व्वकामसमृद्धये ।मालामेतां प्रगृह्णीयात् सौख्यमोक्षप्रदायि-नीम्
”इति
“संचिन्त्याकृष्यमाणञ्च श्रीप्रह्लादादिभी रथम् ।आकृष्य प्रेरयन् पूर्य्यां भ्रामयेद्वैष्णवैः सह
”तथा भविष्योत्तरे तत्रैव ।“नृत्यमानैर्भागवतैर्गीतवादित्रनिस्वनैः ।भ्रामयेत् स्यन्दनं विष्णोः पुरमध्ये समन्ततः
”किञ्च ।“प्रबोधवासरे प्राप्ते कार्त्तिके पाण्डुनन्दन ! ।देवालयेषु सर्व्वेषु पुर्मध्ये समन्ततः
भ्रामयेत्तूर्य्यनिघोषै रथस्थं धरणीधरम्
”किञ्च ।“रथागमे मुकुन्दस्य पुरशोभान्तु कारयेत् ।सर्व्वतो रमणीयन्तु पताकैरुपशोभितम्
तोरणैर्बहुभिर्युक्तै रम्भास्तम्भैश्च शोभितम् ।स्थाने स्थाने महीपाल ! कर्त्तव्यं पुण्यसंयुतम्
विचित्ररथशोभा कर्त्तव्या भावितैर्नरैरिति
रथेन गच्छन् भगवाननुगम्योऽखिलैर्जनैः ।स्वस्वगेहागतश्चार्च्च्योऽन्यथा दोषो महान्भवेत्
*
अथ रथानुगमननित्यता तत्रैव ।“रथेन सह गच्छन्ति पार्श्वतः पृष्ठतोऽग्रतः ।विष्णुनैव समाः सर्व्वे भवन्ति श्वपचादयः
रथस्थं ये गच्छन्ति भ्रममाणं जनार्द्दनम् ।विप्राध्ययनसम्पन्ना भवन्ति श्वपचाधमाः
”किञ्च ।“येषां गृहागतो याति रथस्थो मधुसूदनः ।पूजा तैस्तैः प्रकर्त्तव्या वित्तशाठ्यविवर्ज्जितैः
अनर्च्चितो यदा याति गृहाद्यस्य महीधरः ।पितरस्तस्य विमुखा वर्षाणां दश पञ्च
यः पुनः कुरुते पूजां गृहायाते तु माधवे ।वसते श्वेतद्वीपे तु यावविन्द्राश्चतुर्द्दश
”अन्यत्र ।“नानुव्रजति यो मोहाद्व्रजन्तं जगदीश्वरम् ।ज्ञानाग्निदग्धकर्म्मापि भवेद्ब्रह्मराक्षसः
”इति
“अथ स्वमन्दिरं नीत्वा पूर्व्ववत् पूजयेत् प्रभुम् ।रात्रौ जागरणं कुर्य्याद्बिधिवद्वैष्णवैः समम्
”अथ प्रबोधनीजागरणमाहात्म्यम् ।स्कान्दे तत्रैव ।“पूर्व्वजन्मसहस्रेषु पापं यत् समुपार्ज्जितम् ।जागरेण प्रबोधन्यां दह्यते तूलराशिवत्
कृत्वापि पातकं घोरं ब्रह्महत्यादिकं नरः ।कृत्वा जागरणं विष्णोर्धूतपापो भवेन्मुने !
कर्म्मणा मनसा वाचा पापं यत् समुपार्ज्जितम् ।क्षालयेत्तच्च गोविन्दः प्रबोधन्यान्तु जागरे
दुष्प्राप्यं यत् फलं विप्रैरश्वमेधादिभिर्मखैः ।प्राप्यते तत् सुखेनैव प्रबोधन्यान्तु जागरे
आप्लुत्य सर्व्वतीर्थानि दत्त्वा गां काञ्चनीं महीम् ।न तत् फलमवाप्नोति यत् कृत्वा जागरं हरेः
चन्द्रसूर्य्योपरागे तु यत् फलं परिकीर्त्तितम् ।तत्सहस्रगुणं पुण्यं प्रबोधन्यान्तु जागरे
स्नानं दानं तपो होमः स्वाध्यायश्चार्च्चनं हरेः ।तत् सर्व्वं कोटिगुणितं प्रबोधन्यान्तु जागरे
समतीतं भविष्यञ्च वर्त्तमानं कुलायुतम् ।विष्णुलोकं नयत्याशु जागरेण प्रबोधनी
चलन्ति पितरो हृष्टा विष्णुलोकमलङ्कृताः ।विमुक्ता नारकैर्दुःखैः कर्त्तुः कृष्णप्रजागरम्
भार्य्यापक्षे तु ये जाता मातृतः पितृतस्तथा ।तारयेन्नात्र सन्देहः प्रबोधन्यां तु जागरे
”किञ्च ।“फलैर्नानाविधैर्द्रव्यैः प्रबोधन्यान्तु जागरे ।शङ्खे तोयं समादाय अर्घ्यं दद्याज्जनार्द्दने
यत् फलं सर्व्वदानेषु सर्व्वतीर्थेषु यत् फलम् ।तत् सर्व्वं कोटिगुणितं दत्त्वार्घ्यं बोधवासरे
”पाद्मे तत्रैव ।“अन्यत्रापि प्रिया विष्णोर्जागरे स्यात् प्रबो-धनी ।किं पुनर्मथुरायां सा ततो वै जन्मसद्मनि
एकेवैकादशी कृष्णजन्मगेहे कृता नरैः ।ततोऽधिकं कर्त्तव्यं लोके किञ्चन विद्यते
रात्रौ जागरणं तत्र प्रीत्या कुर्व्वन्ति ये नराः ।संसारे मोहस्वप्नान्ते सदा जाग्रति जाग्रति
”किञ्च तत्रैव श्रीराधिकोपाख्यानान्ते ।“सुबोधनीजागरपुण्यवैभवात्प्रसन्न ईशो विधिवाक्यसत्यकृत् ।चकार रासोत्सवनर्त्तनं सहवृन्दावनेऽन्याभिरपीह राधया
सा नृत्यमानाद्भुतगोपरूपिणाकृष्णेन जन्मान्तरवाञ्छितेन ।राधा महाप्रेमजवाकुलेन्द्रियानिन्येऽन्यलोकं कथया कृतार्थताम्
तस्मात् सुबोधनीं कृत्वा रात्रौ कृत्वा जागरम् ।सुप्तोत्थितं हरिं दृष्ट्वा का भीः संसारजा द्विजाः
मथुरायान्तु किं वाच्यं जागरे हरिसन्निधौ ।कार्त्तिके वोधनीं प्राप्य ततः श्रेयः परं हि
मथुरायां प्रबोधन्यां कृतजागरणस्य हि ।क्षणार्द्धदानतो वैश्योऽमोचयद्ब्रह्मराक्षसम्
जागरस्य माहात्म्यं गीतवादित्रनर्त्तनम् ।हरेः प्रीतिकरं रात्रौ वक्तुं मे नैव शक्यते
यस्तु गायति कृष्णाग्रे कौमुदीं द्वादशीं क्षणम् ।सर्व्वलोकान् परित्यज्य विष्णुलोकं गच्छति
”अतएवोक्तं तत्रैव ।“राज्यमन्यत्र संत्यज्य स्फीतं निहतकण्टकम् ।कार्त्तिके मथुरायां वै कौमुद्यां जागरं चरेत्
”अथ पारणादिनकृत्यम् ।“प्रातर्नित्यक्रियां कृत्वा शक्त्या संभोज्य भूसुरान् ।गृह्णन् कृतव्रताच्छैद्रं प्रदद्याद्दक्षिणादिकम्
दानं यथाव्रतं तेभ्यो दत्त्वा पारणमाचरेत् ।प्रवर्त्तयेच्च संत्यक्तं चातुर्मास्यव्रतेषु यत्
”तथा भविष्योत्तरे तत्रैव ।“प्रभाते विमले स्नात्वा भोजयेदन्नविस्तरैः
घृतक्षीरदधिक्षौद्रकासारगुडमोदकैः ।अर्च्चयेच्चन्दनैश्चूर्णैः पुष्पैर्गन्धैर्द्बिजोत्तमान्
आचान्तेभ्यस्ततो दद्यात्त्यक्तं यत्किञ्चिदेव हि ।सुवाचा सुमनोऽभीष्टपत्रपुष्यफलादिकम्
चतुरो वार्षिकान्मासान् नियमं यस्य यत् कृतम् ।कथयित्वा द्विजेभ्यस्तद्दद्याद्भक्त्या सुदक्षिणाम्
”एवमेव पाद्मे तत्रैव किञ्चाधिकम् ।“चातुर्म्मास्यव्रते विप्राः पश्चादच्छिद्रवाचनम्
”इति श्रीहरिभक्तिविलासे १६ विलासः
वाचस्पत्यम्
Sanskrit
प्रबोधनी स्त्री प्रबोध्यते हरिरत्र प्र + बुध--णिच् आधारे ल्युट्ङीप् कार्त्तिकशुक्लैकादश्याम् तत्र शयितस्य हरेरुत्था-पनानुकूलव्यापारस्याचरणात्तस्यास्तथात्वम् उत्थानैका-दशीशब्दे तस्याः खण्डभेदस्य ग्राह्यता दर्शिता ।तन्माहात्म्यं पद्मपु० उ० ख० १२६ अ० उक्तं यथा“ब्रह्मोवाच प्रबोधन्याश्च माहात्म्यं पापघ्नं पुण्यबर्द्ध-नम् मुक्तिदं शुद्धबुद्धीनां शृणुष्व मुनिसत्तम! ता-वद्गर्जन्ति तीर्थानि पुण्यान्यायतनानि यावत् प्रबो-धनी विष्णोस्तिथिर्नायाति कार्त्तिके अश्वमेधसहस्राणिवाजपेयशतानि एकेनैवोपवासेन प्रबोधन्यां भवन्तिहि मेरुमन्दरतुल्यानि पापानि सुबहून्यपि भस्म०सात् कुरुते मर्त्यो हरिबोधन्युपासनात् पूर्वजन्मसह-स्रेषु यत्पापं समुपार्जितम् जागरणं प्रबोधन्यां द-हते तूलराशिवत् उपवासं प्रबोधन्यां यः करोतिसमाहितः विधिवच्च मुनिश्रेष्ठ! यथोक्तं लमते फलम् यानि कानि तीर्थानि त्रैलोक्ये संवसन्तिवै तानि तस्य गृहे सम्यक् कृता येन प्रवोधनी किंतस्य बहुभिः पुण्यैः सुरलोकसुखप्रदैः ऊर्जे सन्तो-षिता येन संपूणां हरिबोधनी बोधनीं समुपोष्यैवमुक्तिभागी भवेन्नरः प्रबोधन्यां नरश्रेष्ठ! पुनर्गर्भ-मादिशेत् स्नानं दानं जपो होमः समुद्दिश्य जना-र्दनम् नरैर्यत् क्रियते ऊर्जे प्रबोधन्यां तदक्षयम् ।येऽर्चयन्ति नरास्तस्यां भक्त्या विष्णुं जगत्पतिम् उ-षित्वा वाधनीं ते तु प्रभवेयुर्द्दिवौकसः महाव्रतमिदंपुत्र! महापापौधनाशनम् प्रबोधन्यां मुने! विष्णोर्वि-धिवत् समुपोषणम् ज्ञानी यीगी तपस्वीजितेन्द्रियः स्वर्गमोक्षौ तस्यास्तां उपास्ते प्रवो-धनीम् यत्तु जन्मकृतं पापं स्वल्पं वा यदि वा बहु ।करोति भस्मसाद्विष्णुः प्रवोधन्यां प्रपूजितः हरिपूजाविधातव्या कार्त्तिके बोधवासरे गीतशास्त्रविनोदेनप्रबोधन्यान्तु जागरात् चन्द्रसूर्य्योपरागे यत् फलंपरिकीर्त्तितम् तस्मात् सहस्रगुणितं प्रबोधन्यां हिजागरात् स्तानं दानं जपो होपः स्वाध्यायश्चार्चनंहरेः एतस्मात् कोटिगुणितं प्रबोधन्यां हि जागरात्” ।स्कान्दे प्रभृति यत्पुण्यं नरेणोपार्जितं भुवि ।वृथा भवति तत्सर्वं कृत्वा बोधवासरम्” “प्रबो-धन्याश्च माहात्म्यं पापघ्नं पुण्यवर्द्धनम् मुक्तिदंकृतबुद्धीनां शृणु त्वं मुनिसत्तम! तावद्गर्जति वि-प्रेन्द्र! गङ्गाभागीरथी क्षितौ यावन्नायाति पापघ्नीकार्त्तिके हरिबोधनी तावद्गर्जन्ति तीर्थनि आस-मुद्रसरांसि यावत् प्रबोधनी विष्णोस्तिथिर्ना-याति कार्त्तिके वाजपेयसहस्राणि अश्वमेधशतानिच एकेनैवोपवासेन प्रबोधन्यां लभेन्नरः दुर्लभञ्चैवदुष्प्रापं त्रैलोक्ये सचराचरे तदापि प्रार्थितं विप्र!ददाति हरिबोधनी ऐश्वर्य्यं सन्ततिं प्रज्ञां राज्यञ्चसुखसम्पदः ददात्युपोषिता विप्र! हेलया हरि-बोधनी मेरुमन्दरतुल्यानि पापान्यत्यूर्जितान्यपि ।एकेनैवोपवासेन दहते हरिबोधनी पृथिव्यां यानिदानानि दत्त्वा यत् फलमाप्नुते एकेनैवोपवासेन ददातिहरिबोधनी” हरि० वि०