| YouTube Channel

प्रबोधनं (prabodhanaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रबोधनं,
क्ली,
(प्र + बुध् + ल्युट् ।) न्यूनपूर्व्व-गन्धस्य चन्दनादेः प्रयत्नविशेषेण पुनः पूर्व्व-सौगन्ध्योत्पादनम् तत्पर्य्यायः अनुबोधः ।इत्यमरभरतौ बोधजननञ्च
(जागरणम् ।यथा, हरिवंशे १७७ ७१ ।“ततस्तूर्य्यनिनादैश्च शङ्खानाञ्च महास्वनैः ।प्रबोधनं महाबाहोः कृष्णस्याक्रियतालये
”विकाशः यथा, पञ्चतन्त्रे कथामुखे ।“तदेतेषां बुद्धिप्रबोधनं यथा भवति तथाकेनाप्युपायेनानुष्ठीयतामिति
तथा ऋतु-संहार १० ।“सुगन्धिनिःश्वासविकम्पितोत्पलंमनोहरं कामरतिप्रबोधनम्
”)