| YouTube Channel

प्रफुल्लः (praphullaH)

 
शब्दकल्पद्रुमः
Sanskrit
प्रफुल्लः, त्रि, (फलतीति ञि फलाविसरणे + क्तः ।“आदितश्चेति ।” १६ इति इड-भावः “तिच ।” ८९ इति उत् ।“अनुपसर्गात् फुल्लक्षीवेति ।” ५५ ।इति निष्ठातस्य लः ततः प्रादिसमासः यद्बा, प्रफुल्लतीति प्र + फुल्ल विकसने + अच् ।)विकाशयुक्तः तत्पर्य्यायः उत्फुल्लः संफुल्लः ३व्याकोषः विकचः स्फुटः फुल्लः विक-सितः इत्यमरः
प्रबुद्धः ९जृम्भः १० स्मितः ११ उन्मिषितः १२ दलितः १३स्फुटितः १४ उच्छ्वसितः १५ विजृम्भितः १६ स्मेरः१७ विनिद्रः १८ उन्निद्रः १९ विमुद्रः २० हसितः२१ इति हेमचन्द्रः
(यथा, रघौ २९ ।“स पाटलायां गवि तस्थिवांसंधनुर्धरः केशरिणं ददर्शअधित्यकायामिव धातुमय्यांलोध्रद्रुमं सानुमतः प्रफुल्लम्
”)