| YouTube Channel

प्रपौण्डरीकं (prapauNDarIkaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रपौण्डरीकं,
क्ली,
(पुण्डरीक + स्वार्थे अण् प्रकृष्टंपौण्डरीकस्येव पुष्पं यस्य ।) हस्तिनां मनुष्याणाञ्चचक्षुष्यः क्षुद्रविटपः शालपर्णीपत्रतुल्यपत्रः ।पुण्डरिया ख्यातः इत्यमरभरतौ
तत्पर्य्यायः ।चक्षुष्यम् शीतम् श्रीपुष्पम् पुण्डरी ।इति रत्नमाला
पुण्डर्य्यम् पुण्डरीयकम् ७पौण्डरीयम् सुपुष्पम् सानुजम् १० अनु-जम् ११
(यथा, सुश्रुते सूत्रस्थाने १६ अध्याये ।“प्रपौण्डरीकं मधुकं समङ्गां धवमेव ।तैलमेभिश्च सम्पक्वं शृणु कण्डूमतः क्रियाम्
”अस्य गुणाः चक्षुर्हितत्त्वम् मधुरत्वम् ।तिक्तत्वम् शीतलत्वम् पित्तरक्तव्रणज्वर-दाहतृषानाशित्वञ्च इति राजनिर्घण्टः
अपि ।“पौण्डर्य्यं मधुरं तिक्तं कषायं शुक्रलं हिमम् ।चक्षुष्यं मधुरं पाके वर्ण्यं पित्तकफास्रनुत्
”इति भावप्रकाशः