| YouTube Channel

प्रपेपीय्य (prapepIyya)

 
कृदन्तरूपमाला
Sanskrit
1 {@“पा पाने”@} 2 ‘पाने पिबति, रक्षायां पाति, पायति शोषणे।।’ 3 इति देवः।
4 पायकः-यिका, 5 पायकः-यिका, पिपासकः-सिका, 6 पेपीयकः-यिका
पाता-त्री, पाययिता-त्री, पिपासिता-त्री, पेपीयिता-त्री
7 पिबन्-न्ती, पाययन्-न्ती, पिपासन्-न्ती
-- पास्यन्-न्ती-ती, पाययिष्यन्-न्ती-ती, पिपासिष्यन्-न्ती-ती
-- 8 व्यतिपिबमानः, 9 पाययमानः, व्यतिपिपासमानः, पेपीयमानः
10 व्यतिपास्यमानः, पाययिष्यमाणः, व्यतिपिपासिष्यमाणः, पेपीयिष्यमाणः
11 दधिपीः-दधिप्यौ-दधिप्यः
-- -- -- 12 पीतम्-पीतः-पीतवान्, पायितः, पिपासितः, पेपीयितः-तवान्
13 उत्पिबः-विपिबः-पिबः, 14 रुधिरपायी 15, 16 मधुपायी 17, 18 क्षीरपायी, 19 सुरापः-शीधुपः-सुरापी-शीधुपी, 20 मधुपः, पादपः, क्षीरपा21, 22 द्विपः- 23 -कच्छपः, 24 कुण्डपाय्यः 25 26, 27 क्षीरपीवा-क्षीरपीवरी, 28 29 घृतपावा, 30 कीलालपाः, पीवा, 31 गजपायी, 32 पपिः, 33 पपिवान्, 34 पामा, 35 दधिपायः, पापः, 36 पिपासुः, पेप्यः
पातव्यम्, पाययितव्यम्, पिपासितव्यम्, पेपीयितव्यम्
37 प्रपानीयम्-प्रपाणीयम्, पायनीयम्, पिपासनीयम्, पेपीयनीयम्
पेयम्, पाय्यम्, पिपास्यम्, पेपीय्यम्
38 ईषत्पानः 39 - 40 दुष्पानः-सुपानः
-- -- पीयमानः, पाय्यमानः, पिपास्यमानः, पेपीय्यमानः
41 प्रपा, पायः, पिपासः, पेपीयः
42 पातुम्, पाययितुम्, पिपासितुम्, पेपीयितुम्
43 सम्पीतिः, सपीतिः, 44 क्षीरपायिका, पायना, पिपासा, पेपीया
45 क्षीरपाणाः, 46 सुरापाणाः, सौवीरपाणाः, कषायपाणाः 47 48 मधुपानम्, 49 क्षीरपाणम्-क्षीरपानम् 50, सुरापाणः-सुरापानः 51, 52 पयःपानम् 53 54, पायनम्, पिपासनम्, पेपीयनम्
पीत्वा, पाययित्वा, पिपासित्वा, पेपीयित्वा
55 निपाय, प्रपाय्य, प्रपिपास्य, प्रपेपीय्य
पायम् २, पीत्वा २, पायम् २, पाययित्वा २, पिपासम् २, पिपासित्वा २, पेपीयम्
पेपीयित्वा
56 इत्यादिना उण्प्रत्यये रूपम्।]] पायुः, 57 इत्यादिना कन्प्रत्ययः।
पाकः = असुर- विशेषः, अर्भकश्च।]] पाकः, 58 59 इत्यादिना थक्प्रत्यये, ईत्त्वे रूपम्।
पिबति तेजांसि इति पीथः = आदित्यः मकरश्च।]] पीथः, 60 पप्रत्यये बाहुलकात् ह्रस्वनुमागमयोः निपातितयो रूप- मेवम्।
पिबन्त्यस्यामिति पम्पा = सरोविशेषः।]] पम्पा, 61 रूपम्।
पिबन्त्यनेनेति पात्रम् = भाजनम्।]] पात्रम्, 62 इत्यसुन्प्रत्यये इकारश्चान्तादेशः।
पयः = जलं क्षीरं च।]] पयः, 63 पेरुः।
प्रासङ्गिक्यः
01
=>
(९८७)
02
=>
(१-भ्वादिः-९२५। सक। अनि। पर।)
03
=>
(श्लो। ५)
04
=>
[[२। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं णमुलादिष्वपि यथासम्भवं युक् ज्ञेयः।]]
05
=>
[[३। ण्यन्तात् सर्वत्र ‘शाच्छासाह्वाव्यावेपां युक्’ (७-३-३७) इति युगागमो ज्ञेयः। आदन्तलक्षणपुगागमस्य बाधकोऽयम्।]]
06
=>
[[४। यङन्ते सर्वत्र, ‘घुमास्थागापाजहातिसां हलि’ (६-४-६६) इति ईत्वम्। अभ्यासे गुणः।]]
07
=>
[[५। शतरि, ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्र--’ (७-३-७८) इत्यादिना पिबादेशोऽङ्गस्य भवति। आदेशस्यादन्तत्वाद् गुणाभावः इति वृत्तिः। ‘पिबतेर्गुणप्रतिषेधः’ (वा। ७-३-७८) इति वचनमत्र प्रमाणम्। ‘लोपः पिबतेः--’ (७-४-४) इत्यत्र ‘पिबतेः’ इति निर्देशात् गुणो न’ इति वर्धमानः।]]
08
=>
[[६। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्। सन्नन्ते तु ‘पूर्ववत् सनः’ (१-३-६२) इति शानजिति ज्ञेयम्।]]
09
=>
[[७। धातोरस्य निगरणार्थत्वेऽपि, ‘न पादमि--’ (१-३-८९) इति परस्मैपदनिषेधात् ण्यन्तात् ‘णिचश्च’ (१-३-७४) इति शानज्भवत्येव।]]
10
=>
[पृष्ठम्०८५३+ २९]
11
=>
[[१। क्विपि, ‘घुमास्थागापा--’ (६-४-६६) इत्यादिना ईत्वे रूपमेवम्।]]
12
=>
[[२। निष्ठायाम्, ईत्वे रूपमेवम्। एवं क्तिन्क्त्वाप्रत्ययादिष्वपि ईत्वं ज्ञेयम्। पीतः इत्यत्र, प्रत्यवसानार्थत्वादस्य धातोः (प्रत्यवसानम् = गलबिलाधःसंयोगानुकूल- व्यापारः) अधिकरणे क्तप्रत्ययो ज्ञेयः। अर्शआद्यजन्तत्वेन ‘पीता गावः’ इत्यादिषु स्थलेषु प्रयोग उपपन्नः।]]
13
=>
[[३। ‘पाघ्राध्माधेट्दृशः शः’ (३-१-१३७) इति कर्तरि शप्रत्ययः। तस्य शित्त्वात् ‘पाघ्रा--’ (७-३-७८) इत्यादिना पिबादेशे, पररूपे रूपम्। निरुपसृष्टादेवायं शप्रत्यय इति केचित्। सोपसृष्टादेवेति परे साधयन्ति।]]
14
=>
[[४। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इत्यनेन णिनिप्रत्ययः। रुधिरपायी = राक्षसादिः।]]
15
=>
[[आ। ‘राक्षसाः कपिमादाय पतिं रुधिरपायिणाम्।।’ भ। का। ९-९५।]]
16
=>
[[५। ‘बहुलमाभीक्ष्ण्ये’ (३-२-८१) इति णिनिप्रत्ययः। आभीक्ष्ण्यम् = पौनःपुन्यम्।]]
17
=>
[[B। ‘उपेयुर्मधुपायिन्यः क्रोशन्त्यस्तं कपिस्त्रियः।।’ भ। का। ६। १२७।]]
18
=>
[[६। ‘व्रते’ (३-२-८०) इति णिनिप्रत्ययः। क्षीरपानं व्रतं यस्य एवमुच्यते।]]
19
=>
[[७। ‘गापोष्टक्’ (३-२-८) इति कर्मण्युपपदे टक्प्रत्ययः। तत्र ‘पिबतेः सुराशी- ध्वोरिति वक्तव्यम्’ (वा। ३-२-८) इति वचनात् उपपदनियमः। स्त्रियां टित्त्वात् ङीप् भवति सुरापी-शीधुपी इति। अन्योपपदेषु तु ‘आतोऽनुपसर्गे कः’ (३-२-३) इति कप्रत्यये टापि क्षीरपा इत्यादिकं भवतीति विशेषः।]]
20
=>
[[C। ‘व्रीडजाड्यमभजन् मधुपा सा स्वां मदात् प्रकृतिमेति हि सर्वः।।’ शि। व। १०-१८।]]
21
=>
[ब्राह्मणी]
22
=>
[[८। ‘सुपि स्थः’ (३-२-४) इत्यत्र, ‘सुपि’ इति योगविभागात् कप्रत्ययः। द्वाभ्यां पिबतीति द्विपः = गजः।]]
23
=>
[[ड्। ‘शर्मदं मारुतिं दूतं विषमस्थः कपिद्विपम्।’ भ। का। ६-८९।]]
24
=>
[[९। ‘क्रतौ कुण्डपाय्यसञ्चाय्यौ’ (३-१-१३०) इत्यनेन ण्यति, आयादेशश्च निपा- तितः। कुण्डेन पीयतेऽस्मिन् सोम इति क्रतुविशेषेऽभिधेये कुण्डपाय्यशब्दः साधुः।]]
25
=>
[[E। ‘कुण्डपाय्यवतां कच्चिदग्निचित्यावतां तथा।’ भ। का। ६-६८।]]
26
=>
[क्रतुः]
27
=>
[[१०। ‘आतो मनिन्क्वनिब्वनिपश्च’ (३-२-७४) इत्यनेन क्वनिपि ईत्वे क्षीरपीवा इति रूपम्। स्त्रियाम्, ‘वनो च’ (४-१-७) इति ङीप् रेफश्च भवति।]]
28
=>
[पृष्ठम्०८५४+ २४]
29
=>
[[१। ‘आतो मनिन्--’ (३-२-७४) इत्यनेन वनिपि रूपमेवम्।]]
30
=>
[[२। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति विच्प्रत्यये रूपम्।]]
31
=>
[[३। ‘कर्तर्युपमाने’ (३-२-७९) इति णिनिप्रत्ययः। गज इव पिबतीति गजपायी।]]
32
=>
[[४। ‘आदृगमहन--’ (३-२-१७१) इति तच्छीलादिषु किः किन् वा प्रत्ययः, तस्य लिङ्वद्भावातिदेशात् द्विर्वचनम्। ‘आतो लोप इटि च’ (६-४-६४) इति आकारलोपः। अभ्यासे ह्रस्वः।]]
33
=>
[[५। ‘विभाषा पूर्वाह्णापराह्णाभ्याम्’ (४-३-२४) इत्यत्र भाष्ये ‘पपुष आगतम्-- पपिवद्रूप्यम्--’ इति प्रयुक्तत्वात् छान्दसोऽपि क्वसुः क्वचिद् भाषायामपि भवतीति ज्ञायते। क्वसौ, द्विर्वचने, ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इती- डागमे रूपमेवम्।]]
34
=>
[[६। ‘आतो मनिन्--’ (३-२-७४) इति मनिन्प्रत्यये रूपम्।]]
35
=>
[[७। ‘अण् कर्मणि च’ (३-३-१२) इति क्रियार्थक्रियायामण्। कप्रत्ययापवादः।]]
36
=>
[[आ। ‘इतः स्म मित्रावरुणौ किमेतौ किमश्विनौ सोमरसं पिपासू।’ भ। का। २। ४१।]]
37
=>
[[८। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति णत्वविकल्पः।]]
38
=>
[[९। ‘आतो युच्’ (३-३-१२८) इति ईषदाद्युपपदेषु खलपवादो युच्प्रत्ययः। ‘दुष्पानः’ इत्यत्र ‘षात् पदान्तात्’ (८-४-३५) इति निषेधाण्णत्वं न।]]
39
=>
[[B। ‘भवतु वपुषा यावांस्तावान् अगस्त्यरुषा पुनः विधिरयमपाम् ईषत्पानस्तपांसि नमोऽस्तु वः।।’ अनर्घराघवे ७। १४।]]
40
=>
[[C। ‘दुष्पानः पुनरेतेन कपिना भृङ्गसंभृतः।’ भ। का। ९। १०८।]]
41
=>
[[१०। ‘घञर्थे कविधानम् स्थास्नापाहाव्यधिहनियुध्यर्थम्’ (वा। ३-३-५८) इति घञर्थे कप्रत्ययः। प्रपिबन्त्यस्यामिति प्रपा = पानीयशाला।]]
42
=>
[पृष्ठम्०८५५+ २४]
43
=>
[[१। ‘स्थागापापचो भावे’ (३-३-९५) इति स्त्रियां सोपसर्गादपि क्तिन्प्रत्ययः। समाना पीतिः इति विशेषणसमासे ‘समानस्य च्छन्दसि--’ (६-३-८४) इत्यत्र ‘समानस्य’ इति योगविभागात् सभावः। सपीतिः = सहपानम्।]]
44
=>
[[२। ‘पर्यायार्हर्णोत्पत्तिषु ण्वुच्’ (३-३-१११) इति अर्हार्थे ण्वुच्। ‘शायिकाऽद्य तव प्रापद्, अर्हसि क्षीरपायिकाम्।’ इति प्र। सर्वस्वे।]]
45
=>
[[३। ‘पानं देशे’ (८-४-९) इति णत्वम्। अत्र क्षीरं पानं येषां ते क्षीरपाणाः इति वृत्तिः। क्षीरपाणादयः शब्दाः देशविशेषवाचकाः। क्षीरपाणा उशीनराः। सुरापाणः प्राच्याः। सौवीरपाणा बाहीकाः। कषायपाणा गन्धाराः।]]
46
=>
[[आ। ‘सुरापाणपरिक्षीबं रिपुदर्पहरोदयम्।’ भ। का। ९। ९६।]]
47
=>
(वा उशीनरादयः।)
48
=>
[[४। देशविशेषाभिधानाभावादत्र णत्वं न।]]
49
=>
[[५। ‘वा भावकरणयोः’ (८-४-१०) इति णत्वविकल्पः। भावार्थे--क्षीरपाणम्-- क्षीरपानम् इति, करणार्थे सुरापाणः-सुरापानः इति चोदाहरणमिति ज्ञेयम्।]]
50
=>
[वर्तते]
51
=>
[कंसः]
52
=>
[[६। ‘कर्मणि येन संस्पर्शात् कर्तुः शरीरसुखम्’ (३-३-११६) इति ल्युट्। अत्र पयःपानेन पयःपानकर्तुः शरीरसुखसद्भावादीदृशस्थलेषु ल्युट् इति ज्ञेयम्।]]
53
=>
[[B। ‘पयःपानमिवाशंसुः महानायादशोभनः।।’ भ। का। ७। ७९।]]
54
=>
[सुखम्]
55
=>
[[७। ‘न ल्यपि’ (६-४-६९) इति ईत्वनिषेधः। ‘निपीय यस्य--’ (नैषधे १-१) इत्या- दयः प्रयोगाः ‘पीङ् पाने’ इत्यस्माल्ल्यपि साधव इति ज्ञेयम्।]]
56
=>
[[८। ‘कृवापा--’ [द। उ। १-८६]
57
=>
[[९। ‘इण्भीकापा--’ [द। उ। ३-२१]
58
=>
[पृष्ठम्०८५६+ २३]
59
=>
[[१। ‘पातॄ--’ [द। उ। ६-३२]
60
=>
[[२। औणादिके [द। उ। ७-७]
61
=>
[[३। औणादिके त्रप्रत्यये [द। उ। ८-९०]
62
=>
[[४। ‘पिबतेरि च’ [द। उ। ९-५०]
63
=>
[[५। औणादिके रुप्रत्यये, धात्वन्तस्य एकारे रूपम्। पेरुः = आदित्यः।]]
1 {@“पि गतौ”@} 2 पायकः-यिका, पायकः-यिका, 3 पिपीषकः-षिका, 4 पेपीयकः-यिका
पेता-त्री, पाययिता-त्री, पिपीषिता-त्री, पेपीयिता-त्री, 5 पियन् 6 -न्ती-ती, पाययन्-न्ती, पिपीषन्-न्ती
-- पेष्यन्-न्ती-ती, पाययिष्यन्-न्ती-ती, पिपीषिष्यन्-न्ती-ती
-- -- पाययमानः, पाययिष्यमाणः, -- पेपीयमानः, पेपीयिष्यमाणः
सुपित्-पितौ-पितः
-- -- -- पितम्-तः, पायितः, पिपीषितः, पेपीयितः-तवान्
पयः, पायः, पिपीषुः, पेप्यः
पेतव्यम्, पाययितव्यम्, पिपीषितव्यम्, पेपीयितव्यम्
पयनीयम्, पायनीयम्, पिपीषणीयम्, पेपीयनीयम्
पेयम्, पाय्यम्, पिपीष्यम्, पेपीय्यम्
ईषत्पयः-दुष्पयः-सुपयः
-- -- पीयमानः, पाय्यमानः, पिपीष्यमाणः, पेपीय्यमानः
7 8 पयः, पायः, पिपीषः, पेपीयः
पेतुम्, पाययितुम्, पिपीषितुम्, पेपीयितुम्
पितिः, पायना, पिपीषा, पेपीया
पयनम्, पायनम्, पिपीषणम्, पेपीयनम्
पित्वा, पाययित्वा, पिपीषित्वा, पेपीयित्वा
प्रपित्य, प्रपाय्य, प्रपिपीष्य, प्रपेपीय्य
पायम् २, पित्वा २, पायम् २, पाययित्वा २, पिपीषम् २, पिपीषित्वा २, पेपीयम्
पेपीयित्वा २।
प्रासङ्गिक्यः
01
=>
(९९१)
02
=>
(६-तुदादिः-१४०५। सक। अनि। पर।)
03
=>
[[२। सन्नन्तात् ण्वुलि, ‘इको झल्’ (१-२-९) इति सनः कित्त्वे, ‘अज्झनगमां सनि’ (६-४-१६) इति दीर्घः। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
04
=>
[[३। यङन्तात् ण्वुलि, ‘अकृत्सार्वधातुकयोः--’ (७-४-२५) इति दीर्घः। एवं यङन्ते सर्वत्र ज्ञेयम्।]]
05
=>
[[४। शतरि, ‘तुदादिभ्यः--’ (३-१-७७) इति शप्रत्यये, ‘अचि श्नुधातुभ्रुवाम्--’ (६-४-७७) इतीयङादेशः।]]
06
=>
[[B। ‘व्यापारेऽत्र तदाऽमरानपि रियन् आशाः पियन् आधित- क्रौर्योत्क्षीणधनुष्प्रसूतनिनदः कंसे व्यकारीद् गरम्।’ धा। का। २। ८३।]]
07
=>
[पृष्ठम्०८६०+ २५]
08
=>
[[१। भावे, ‘एरच्’ (३-३-५६) इत्यच्प्रत्ययः। घञपवादः।]]
1 {@“ओ प्यायी वृद्धौ”@} 2 प्रायेणायमाङ्पूर्वः।
प्यायकः-यिका, प्यायकः-यिका, 3 पिप्यायिषकः-षिका, 4 पेपीयकः-यिका
प्यायिता-त्री, प्याययिता-त्री, पिप्यायिषिता-त्री, पेपीयिता-त्री
-- 5 आप्याययन्-न्ती
आप्याययिष्यन्-न्ती-ती
-- आप्यायमानः, आप्याययमानः, पिप्यायिषमाणः, पेपीयमानः
आप्यायिष्यमाणः, आप्याययिष्यमाणः, पिप्यायिषिष्यमाणः, पेपीयिष्यमाणः
6 सुप्याः-सुप्यौ-सुप्यः
-- -- -- 7 पीनः-पीनवान्, 8 आप्यानः 9 -प्रप्यानः 10, 11 आपीनम् 12 13, प्यायितः, पिप्यायिषितः, पेपीयितः-तवान्
प्यायः, 14 प्यायिता 15, 16 पिप्यिवान्, 17 18 आपीः, प्यायः, पिप्यायिषुः, पेप्यः
प्यायितव्यम्, प्याययितव्यम्, पिप्यायिषितव्यम्, पेपीयितव्यम्
19 प्रप्यायनीयम्, प्रप्यायनीयम्, पिप्यायिषणीयम्, पेपीयनीयम्
आप्याय्यम्, प्याय्यम्, पिप्यायिष्यम्, पेपीय्यम्
ईषत्प्यायः-दुष्प्यायः-सुप्यायः
-- -- प्याय्यमानः, प्याय्यमानः, पिप्यायिष्यमाणः, पेपीय्यमानः
आप्यायः, प्यायः, पिप्यायिषः, पेपीयः
आप्यायितुम्, आप्याययितुम्, पिप्यायिषितुम्, पेपीयितुम्
20 प्याया, 21 आप्यायना, पिप्यायिषा, पेपीया
आप्यायनम्, 22 प्रप्यायनम्, पिप्यायिषणम्, पेपीयनम्
प्यायित्वा, प्याययित्वा, पिप्यायिषित्वा, पेपीयित्वा
आप्याय्य, प्रप्याय्य, प्रपिप्यायिष्य, प्रपेपीय्य
प्यायम् २, प्यायित्वा २, प्यायम् २, प्याययित्वा २, पिप्यायिषम् २, पिप्यायिषित्वा २, पेपीयम्
पेपीयित्वा २।
प्रासङ्गिक्यः
01
=>
(१०६४)
02
=>
(१-भ्वादिः-४८८। अक। सेट्। आत्म।)
03
=>
[[१। सन्नन्तात् ण्वुलि, अभ्यासे हलादिशेषे, इडागमे रूपम्।]]
04
=>
[[२। यङन्ते सर्वत्र, ‘लिड्यङोश्च’ (६-१-२९) इति पीभावे, द्विर्वचने अभ्यासे गुणश्चेति ज्ञेयम्।]]
05
=>
[[३। चित्तवत्कर्तृकत्वे परस्मैपदमेव। अचित्तवत्कर्तृकत्वे तु आत्मनेपदमेव।]]
06
=>
[[४। क्विपि वलि लोपे रूपमेवम्।]]
07
=>
[[५। ‘प्यायः पी’ (६-१-२८) इति विकल्पेन प्रकृतेः पीभावः। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इतीण्निषेधः। ‘ओदितश्च’ (८-२-४४) इति निष्ठानत्वम्।]]
08
=>
[[६। ‘प्यायः पी’ (६-१-२८) इत्यत्र व्यवस्थितविभाषाश्रयणात्, सोपसर्गात् पीभावो न। तेनात्र वलि लोपे निष्ठानत्वे रूपं ज्ञेयम्।]]
09
=>
[[आ। ‘यदाप्यानं हिमोस्रेण भनक्त्युपवनं कपिः।।’ भ। का। ९। २।]]
10
=>
(चन्द्रमाः)
11
=>
[[७। ‘आङ्पूर्वादन्धूधसोरिति वक्तव्यम्’ (वा। ६-१-२८) इति वचनात् अन्धूधसो- र्विशेष्ययोः आङुपसृष्टादस्माद्धातोः पीभावे निष्ठानत्वे रूपं ज्ञेयम्।]]
12
=>
[[B। ‘आपीनभारोद्वहनप्रयत्नात् गृष्टिर्गुरुत्वाद् वपुषो नरेन्द्रः।’ रघुवंशे २। १८।]]
13
=>
(अन्धूः, ऊधो वा)
14
=>
[[८। धातोर्यकारान्तत्वेन ‘न यः’ (३-२-१५२) इति युचो निषेधात्, तच्छीलादिषु कर्तृषु औत्सर्गिकः ‘तृन्’ (३-२-१३५) इति तृन्नेव।]]
15
=>
[[C। ‘नावैत्याप्यायितारं किं कमलानि रविं कपिः।’ भ। का। ७। १७।]]
16
=>
[[९। लिटः क्वसौ, ‘लिड्यङोश्च’ (६-१-२९) इति पी भावे, ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इतीडागमे यणादेशे रूपम्।]]
17
=>
[पृष्ठम्०८९८+ २५]
18
=>
[[१। ‘अन्येभ्योऽपि दृश्यते’ (३-२-१७८) इत्यत्र बाहुलकात् ‘ध्याप्योः सम्सारणं च’ (भाष्यम्) इति वचनात् आङ्पूर्वादस्मात् क्विपि, सम्प्रसारणे, ‘लोपो व्योर्वलि’ (६-१-६६) इति यलोपे रूपमेवमिति प्र। सर्वस्वे। प्रकृतसूत्रे ‘ध्यायतेः सम्प्रसारणं च’ इत्येव भाष्ये दृश्यते। ‘भट्टपादसम्मतोऽयं पाठः स्यात् दाक्षिणात्यः साधुः।’ इति प्र। स। टीका (पु। ६८)।]]
19
=>
[[२। उपसर्गस्थान्निमित्तात् परस्य अच उत्तरस्य कृत्स्थस्य नकारस्य ‘न भाभूपूकमि- गमिप्यायीवेपाम्’ (८-४-३४) इति णत्वनिषेधः।]]
20
=>
[[३। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियाम् अकारप्रत्ययः।]]
21
=>
[[आ। ‘छायाविशेषैः प्रचितैस्तदर्हामाप्यायनामारचयन्ति वृक्षाः।।’ या। अ। १८। ६७।]]
22
=>
[[४। ‘ण्यन्तभादीनामुपसंख्यानम्’ (वा। ८-४-३४) इति ण्यन्तादुपसर्गस्थान्निमित्तात् परस्य कृत्स्थस्य नस्य णत्वनिषेधः।]]