प्रपा (prapA)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
शब्दसागरः
EnglishHelp us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wilson
EnglishApte
Englishप्रपा [prapā], 1 A place where water is distributed to travellers
भूतानामिह संवासः प्रपायामिव सुव्रते 7.2.21
व्याख्यास्थानान्यमलसलिला यस्य कूपाः प्रपाश्च Vikr.18.78.
A well, cistern
यस्तु रज्जुं घटं कूपाद्धरेद्भिद्याच्च यः प्रपाम् 8.319.
A place for watering cattle.
A supply of water.
A draught. -पालिका a woman who distributes water to travellers
भूपेषु कूपेष्विव रिक्तभावं कृत्वा प्रपापालिकयैव यस्य Vikr.1.89
13.1. -वनम् a cool grove.
Apte 1890
Englishप्रपा 1 A place where water is distributed to travellers
व्याख्यास्थानान्यमलसलिला यस्य कूपाः प्रपाश्च Vikr. 18. 78.
2 A well, cistern
Ms. 8. 319.
3 A place for watering cattle.
4 A supply of water.
5 A draught.
Comp.
पालिका a woman who distributes water to travellers
Vikr. 1. 89
13. 10.
वनं a cool grove.
Monier Williams Cologne
Englisha प्र-√ 1. पा -पि॑बति, (ind. -पाय, vi, 4, 69), to begin to drink, drink,
to imbibe (चक्षुषा, with the eye i.e. feast the eyes upon),
Monier Williams 1872
Englishप्रपा 1. प्र-पा (see rt. 1. पा), cl. 1. P.
-पिबति (Ved. -पाति), -पातुम्, to begin to drink,
drink, quaff, sip
(with चक्षुषा) to drink in
with the eyes, feast the eyes upon.
2. प्र-पा, f. (according to the usual rule the nom.
sing. would be प्र-पास्), a place for watering cattle,
a shed on the road-side for accommodating travellers
with water, place where water is distributed, cistern,
(according to Kullūka = पानीय-दान-गृह)
a
draught
a supply of water.
—प्रपा-पूरण, अम्,
n. filling a place for watering cattle, furnishing a
cistern with water.
—प्रपापूरणीय, अस्, आ, अम्,
serving to fill a cistern.
—प्रपा-वन, अम्, n.
‘cistern-grove, ’ a pleasure-garden, a cool grove.
Apte Hindi
Hindiप्रपा
- प्र+पा+अङ्+टाप्
प्याऊ
प्रपा
- प्र+पा+अङ्+टाप्
"कूआँ, कुण्ड"
प्रपा
- प्र+पा+अङ्+टाप्
"पशुओं को पानी पिलाने का स्थान, खेल"
प्रपा
- प्र+पा+अङ्+टाप्
पानी का भंडार
Shabdartha Kaustubha
Kannadaप्रपा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಯಜ್ಞಶಾಲೆ /ಯಾಗಶಾಲೆ
निष्पत्तिः - > प्र + पा (पाने) - "अङ्" (३-३-१०६)
व्युत्पत्तिः - > प्रपिबन्त्यस्याम्
प्रयोगाः - > "विश्वामित्रं पुरस्कृत्य शतानन्दं व धार्मिकम् । प्रपामध्ये तु विधिवत् वेदिं कृत्वा महातपाः ॥"
उल्लेखाः - > रामा०
प्रपा
पदविभागः - > स्त्रीलिङ्गः
कन्नडार्थः - > ಪಾನೀಯ ಶಾಲೆ /ಅರವಟ್ಟಿಗೆ /ಯಾತ್ರಾರ್ಥಿಗಳಿಗೆ ನೀರು ಪಾನಕ ಮೊದಲಾದುವನ್ನು ಕೊಡುವ ಗೃಹ
L R Vaidya
EnglishIndian Epigraphical Glossary
EnglishWordnet
Sanskrit प्रपा
पशूनां कृते जलपानार्थं निर्मितम् उदधानम्।
"गोपालकः प्रपां परितः पशून् आनयत्।"
अभिधानचिन्तामणिः
Sanskritप्रपा पानीयशाला स्याद्गञ्जा तु मदिरागृहम् ॥ १००१ ॥
प्रपा (स्त्री), पानीयशाला (स्त्री), गञ्जा (स्त्री), मदिरागृह (क्ली)
अभिधानरत्नमाला
Sanskritप्रपा
प्रपा, पानीयशाला
प्रपा पानीयशाला स्यात्सत्त्रशाला प्रतिश्रयः ॥ २९७ ॥
verse 2.1.1.297
page 0036
Vedic Reference
Englishशब्दकल्पद्रुमः
Sanskritप्रपा, (प्रकर्षेण पिबन्त्यस्यामिति । प्र + पा +“आतश्चोपसर्गे ।” ३ । ३ । १०६ । इत्यङ् ।घञर्थे को वा ।) पानीयशालिका । इत्यमरः ।२ । २ । ७ ॥
(यथा, मनुः । ८ । ३१९ ।“यस्तु रज्वुं घटं कूपाद्धरेद्भिन्द्याच्च यः प्रपाम् ।स दण्डं प्राप्नुयान्माषं तञ्च तस्मिन् समाहरेत् ॥
”)यज्ञशाला । यथा, रामायणे । १ । ७३ । २० ।“विश्वामित्रं पुरस्कृत्य शतानन्दञ्च धार्म्मिकम् ।प्रपामध्ये तु विधिवद्वेदिं कृत्वा महातपाः ॥
”“प्रपामध्ये यज्ञशालामध्ये इति कतकः ॥
” इतितट्टीकायां रामानुजः ॥
)
वाचस्पत्यम्
Sanskritकृदन्तरूपमाला
Sanskrit1 {@“पा पाने”@} 2 ‘पाने पिबति, रक्षायां पाति, पायति शोषणे।।’ 3 इति देवः।
4 पायकः-यिका, 5 पायकः-यिका, पिपासकः-सिका, 6 पेपीयकः-यिका
पाता-त्री, पाययिता-त्री, पिपासिता-त्री, पेपीयिता-त्री
7 पिबन्-न्ती, पाययन्-न्ती, पिपासन्-न्ती
-- पास्यन्-न्ती-ती, पाययिष्यन्-न्ती-ती, पिपासिष्यन्-न्ती-ती
-- 8 व्यतिपिबमानः, 9 पाययमानः, व्यतिपिपासमानः, पेपीयमानः
10 व्यतिपास्यमानः, पाययिष्यमाणः, व्यतिपिपासिष्यमाणः, पेपीयिष्यमाणः
11 दधिपीः-दधिप्यौ-दधिप्यः
-- -- -- 12 पीतम्-पीतः-पीतवान्, पायितः, पिपासितः, पेपीयितः-तवान्
13 उत्पिबः-विपिबः-पिबः, 14 रुधिरपायी 15, 16 मधुपायी 17, 18 क्षीरपायी, 19 सुरापः-शीधुपः-सुरापी-शीधुपी, 20 मधुपः, पादपः, क्षीरपा21, 22 द्विपः- 23 -कच्छपः, 24 कुण्डपाय्यः 25 26, 27 क्षीरपीवा-क्षीरपीवरी, 28 29 घृतपावा, 30 कीलालपाः, पीवा, 31 गजपायी, 32 पपिः, 33 पपिवान्, 34 पामा, 35 दधिपायः, पापः, 36 पिपासुः, पेप्यः
पातव्यम्, पाययितव्यम्, पिपासितव्यम्, पेपीयितव्यम्
37 प्रपानीयम्-प्रपाणीयम्, पायनीयम्, पिपासनीयम्, पेपीयनीयम्
पेयम्, पाय्यम्, पिपास्यम्, पेपीय्यम्
38 ईषत्पानः 39 - 40 दुष्पानः-सुपानः
-- -- पीयमानः, पाय्यमानः, पिपास्यमानः, पेपीय्यमानः
41 प्रपा, पायः, पिपासः, पेपीयः
42 पातुम्, पाययितुम्, पिपासितुम्, पेपीयितुम्
43 सम्पीतिः, सपीतिः, 44 क्षीरपायिका, पायना, पिपासा, पेपीया
45 क्षीरपाणाः, 46 सुरापाणाः, सौवीरपाणाः, कषायपाणाः 47 48 मधुपानम्, 49 क्षीरपाणम्-क्षीरपानम् 50, सुरापाणः-सुरापानः 51, 52 पयःपानम् 53 54, पायनम्, पिपासनम्, पेपीयनम्
पीत्वा, पाययित्वा, पिपासित्वा, पेपीयित्वा
55 निपाय, प्रपाय्य, प्रपिपास्य, प्रपेपीय्य
पायम् २, पीत्वा २, पायम् २, पाययित्वा २, पिपासम् २, पिपासित्वा २, पेपीयम् २
पेपीयित्वा २
56 इत्यादिना उण्प्रत्यये रूपम्।]] पायुः, 57 इत्यादिना कन्प्रत्ययः।
पाकः = असुर- विशेषः, अर्भकश्च।]] पाकः, 58 59 इत्यादिना थक्प्रत्यये, ईत्त्वे च रूपम्।
पिबति तेजांसि इति पीथः = आदित्यः मकरश्च।]] पीथः, 60 पप्रत्यये बाहुलकात् ह्रस्वनुमागमयोः निपातितयो रूप- मेवम्।
पिबन्त्यस्यामिति पम्पा = सरोविशेषः।]] पम्पा, 61 रूपम्।
पिबन्त्यनेनेति पात्रम् = भाजनम्।]] पात्रम्, 62 इत्यसुन्प्रत्यये इकारश्चान्तादेशः।
पयः = जलं क्षीरं च।]] पयः, 63 पेरुः।
01 (९८७)
02 (१-भ्वादिः-९२५। सक। अनि। पर।)
03 (श्लो। ५)
04 [[२। ‘आतो युक् चिण्कृतोः’ (७-३-३३) इति युगागमः। एवं णमुलादिष्वपि यथासम्भवं युक् ज्ञेयः।]]
05 [[३। ण्यन्तात् सर्वत्र ‘शाच्छासाह्वाव्यावेपां युक्’ (७-३-३७) इति युगागमो ज्ञेयः। आदन्तलक्षणपुगागमस्य बाधकोऽयम्।]]
06 [[४। यङन्ते सर्वत्र, ‘घुमास्थागापाजहातिसां हलि’ (६-४-६६) इति ईत्वम्। अभ्यासे गुणः।]]
07 [[५। शतरि, ‘पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्र--’ (७-३-७८) इत्यादिना पिबादेशोऽङ्गस्य भवति। आदेशस्यादन्तत्वाद् गुणाभावः इति वृत्तिः। ‘पिबतेर्गुणप्रतिषेधः’ (वा। ७-३-७८) इति वचनमत्र प्रमाणम्। ‘लोपः पिबतेः--’ (७-४-४) इत्यत्र ‘पिबतेः’ इति निर्देशात् गुणो न’ इति वर्धमानः।]]
08 [[६। ‘कर्तरि कर्मव्यतीहारे’ (१-३-१४) इति शानच्। सन्नन्ते तु ‘पूर्ववत् सनः’ (१-३-६२) इति शानजिति ज्ञेयम्।]]
09 [[७। धातोरस्य निगरणार्थत्वेऽपि, ‘न पादमि--’ (१-३-८९) इति परस्मैपदनिषेधात् ण्यन्तात् ‘णिचश्च’ (१-३-७४) इति शानज्भवत्येव।]]
10 [पृष्ठम्०८५३+ २९]
11 [[१। क्विपि, ‘घुमास्थागापा--’ (६-४-६६) इत्यादिना ईत्वे रूपमेवम्।]]
12 [[२। निष्ठायाम्, ईत्वे रूपमेवम्। एवं क्तिन्क्त्वाप्रत्ययादिष्वपि ईत्वं ज्ञेयम्। पीतः इत्यत्र, प्रत्यवसानार्थत्वादस्य धातोः (प्रत्यवसानम् = गलबिलाधःसंयोगानुकूल- व्यापारः) अधिकरणे क्तप्रत्ययो ज्ञेयः। अर्शआद्यजन्तत्वेन ‘पीता गावः’ इत्यादिषु स्थलेषु प्रयोग उपपन्नः।]]
13 [[३। ‘पाघ्राध्माधेट्दृशः शः’ (३-१-१३७) इति कर्तरि शप्रत्ययः। तस्य शित्त्वात् ‘पाघ्रा--’ (७-३-७८) इत्यादिना पिबादेशे, पररूपे च रूपम्। निरुपसृष्टादेवायं शप्रत्यय इति केचित्। सोपसृष्टादेवेति परे साधयन्ति।]]
14 [[४। ‘सुप्यजातौ णिनिस्ताच्छील्ये’ (३-२-७८) इत्यनेन णिनिप्रत्ययः। रुधिरपायी = राक्षसादिः।]]
15 [[आ। ‘राक्षसाः कपिमादाय पतिं रुधिरपायिणाम्।।’ भ। का। ९-९५।]]
16 [[५। ‘बहुलमाभीक्ष्ण्ये’ (३-२-८१) इति णिनिप्रत्ययः। आभीक्ष्ण्यम् = पौनःपुन्यम्।]]
17 [[B। ‘उपेयुर्मधुपायिन्यः क्रोशन्त्यस्तं कपिस्त्रियः।।’ भ। का। ६। १२७।]]
18 [[६। ‘व्रते’ (३-२-८०) इति णिनिप्रत्ययः। क्षीरपानं व्रतं यस्य स एवमुच्यते।]]
19 [[७। ‘गापोष्टक्’ (३-२-८) इति कर्मण्युपपदे टक्प्रत्ययः। तत्र ‘पिबतेः सुराशी- ध्वोरिति वक्तव्यम्’ (वा। ३-२-८) इति वचनात् उपपदनियमः। स्त्रियां टित्त्वात् ङीप् भवति सुरापी-शीधुपी इति। अन्योपपदेषु तु ‘आतोऽनुपसर्गे कः’ (३-२-३) इति कप्रत्यये टापि क्षीरपा इत्यादिकं भवतीति विशेषः।]]
20 [[C। ‘व्रीडजाड्यमभजन् मधुपा सा स्वां मदात् प्रकृतिमेति हि सर्वः।।’ शि। व। १०-१८।]]
21 [ब्राह्मणी]
22 [[८। ‘सुपि स्थः’ (३-२-४) इत्यत्र, ‘सुपि’ इति योगविभागात् कप्रत्ययः। द्वाभ्यां पिबतीति द्विपः = गजः।]]
23 [[ड्। ‘शर्मदं मारुतिं दूतं विषमस्थः कपिद्विपम्।’ भ। का। ६-८९।]]
24 [[९। ‘क्रतौ कुण्डपाय्यसञ्चाय्यौ’ (३-१-१३०) इत्यनेन ण्यति, आयादेशश्च निपा- तितः। कुण्डेन पीयतेऽस्मिन् सोम इति क्रतुविशेषेऽभिधेये कुण्डपाय्यशब्दः साधुः।]]
25 [[E। ‘कुण्डपाय्यवतां कच्चिदग्निचित्यावतां तथा।’ भ। का। ६-६८।]]
26 [क्रतुः]
27 [[१०। ‘आतो मनिन्क्वनिब्वनिपश्च’ (३-२-७४) इत्यनेन क्वनिपि ईत्वे क्षीरपीवा इति रूपम्। स्त्रियाम्, ‘वनो र च’ (४-१-७) इति ङीप् रेफश्च भवति।]]
28 [पृष्ठम्०८५४+ २४]
29 [[१। ‘आतो मनिन्--’ (३-२-७४) इत्यनेन वनिपि रूपमेवम्।]]
30 [[२। ‘अन्येभ्योऽपि दृश्यन्ते’ (३-२-७५) इति विच्प्रत्यये रूपम्।]]
31 [[३। ‘कर्तर्युपमाने’ (३-२-७९) इति णिनिप्रत्ययः। गज इव पिबतीति गजपायी।]]
32 [[४। ‘आदृगमहन--’ (३-२-१७१) इति तच्छीलादिषु किः किन् वा प्रत्ययः, तस्य लिङ्वद्भावातिदेशात् द्विर्वचनम्। ‘आतो लोप इटि च’ (६-४-६४) इति आकारलोपः। अभ्यासे ह्रस्वः।]]
33 [[५। ‘विभाषा पूर्वाह्णापराह्णाभ्याम्’ (४-३-२४) इत्यत्र भाष्ये ‘पपुष आगतम्-- पपिवद्रूप्यम्--’ इति प्रयुक्तत्वात् छान्दसोऽपि क्वसुः क्वचिद् भाषायामपि भवतीति ज्ञायते। क्वसौ, द्विर्वचने, ‘वस्वेकाजाद्घसाम्’ (७-२-६७) इती- डागमे च रूपमेवम्।]]
34 [[६। ‘आतो मनिन्--’ (३-२-७४) इति मनिन्प्रत्यये रूपम्।]]
35 [[७। ‘अण् कर्मणि च’ (३-३-१२) इति क्रियार्थक्रियायामण्। कप्रत्ययापवादः।]]
36 [[आ। ‘इतः स्म मित्रावरुणौ किमेतौ किमश्विनौ सोमरसं पिपासू।’ भ। का। २। ४१।]]
37 [[८। ‘शेषे विभाषाऽकखादावषान्त उपदेशे’ (८-४-१८) इति णत्वविकल्पः।]]
38 [[९। ‘आतो युच्’ (३-३-१२८) इति ईषदाद्युपपदेषु खलपवादो युच्प्रत्ययः। ‘दुष्पानः’ इत्यत्र ‘षात् पदान्तात्’ (८-४-३५) इति निषेधाण्णत्वं न।]]
39 [[B। ‘भवतु वपुषा यावांस्तावान् अगस्त्यरुषा पुनः विधिरयमपाम् ईषत्पानस्तपांसि नमोऽस्तु वः।।’ अनर्घराघवे ७। १४।]]
40 [[C। ‘दुष्पानः पुनरेतेन कपिना भृङ्गसंभृतः।’ भ। का। ९। १०८।]]
41 [[१०। ‘घञर्थे कविधानम् स्थास्नापाहाव्यधिहनियुध्यर्थम्’ (वा। ३-३-५८) इति घञर्थे कप्रत्ययः। प्रपिबन्त्यस्यामिति प्रपा = पानीयशाला।]]
42 [पृष्ठम्०८५५+ २४]
43 [[१। ‘स्थागापापचो भावे’ (३-३-९५) इति स्त्रियां सोपसर्गादपि क्तिन्प्रत्ययः। समाना पीतिः इति विशेषणसमासे ‘समानस्य च्छन्दसि--’ (६-३-८४) इत्यत्र ‘समानस्य’ इति योगविभागात् सभावः। सपीतिः = सहपानम्।]]
44 [[२। ‘पर्यायार्हर्णोत्पत्तिषु ण्वुच्’ (३-३-१११) इति अर्हार्थे ण्वुच्। ‘शायिकाऽद्य तव प्रापद्, अर्हसि क्षीरपायिकाम्।’ इति प्र। सर्वस्वे।]]
45 [[३। ‘पानं देशे’ (८-४-९) इति णत्वम्। अत्र क्षीरं पानं येषां ते क्षीरपाणाः इति वृत्तिः। क्षीरपाणादयः शब्दाः देशविशेषवाचकाः। क्षीरपाणा उशीनराः। सुरापाणः प्राच्याः। सौवीरपाणा बाहीकाः। कषायपाणा गन्धाराः।]]
46 [[आ। ‘सुरापाणपरिक्षीबं रिपुदर्पहरोदयम्।’ भ। का। ९। ९६।]]
47 (वा उशीनरादयः।)
48 [[४। देशविशेषाभिधानाभावादत्र णत्वं न।]]
49 [[५। ‘वा भावकरणयोः’ (८-४-१०) इति णत्वविकल्पः। भावार्थे--क्षीरपाणम्-- क्षीरपानम् इति, करणार्थे सुरापाणः-सुरापानः इति चोदाहरणमिति ज्ञेयम्।]]
50 [वर्तते]
51 [कंसः]
52 [[६। ‘कर्मणि च येन संस्पर्शात् कर्तुः शरीरसुखम्’ (३-३-११६) इति ल्युट्। अत्र पयःपानेन पयःपानकर्तुः शरीरसुखसद्भावादीदृशस्थलेषु ल्युट् इति ज्ञेयम्।]]
53 [[B। ‘पयःपानमिवाशंसुः महानायादशोभनः।।’ भ। का। ७। ७९।]]
54 [सुखम्]
55 [[७। ‘न ल्यपि’ (६-४-६९) इति ईत्वनिषेधः। ‘निपीय यस्य--’ (नैषधे १-१) इत्या- दयः प्रयोगाः ‘पीङ् पाने’ इत्यस्माल्ल्यपि साधव इति ज्ञेयम्।]]
56 [[८। ‘कृवापा--’ [द। उ। १-८६]
57 [[९। ‘इण्भीकापा--’ [द। उ। ३-२१]
58 [पृष्ठम्०८५६+ २३]
59 [[१। ‘पातॄ--’ [द। उ। ६-३२]
60 [[२। औणादिके [द। उ। ७-७]
61 [[३। औणादिके त्रप्रत्यये [द। उ। ८-९०]
62 [[४। ‘पिबतेरि च’ [द। उ। ९-५०]
63 [[५। औणादिके रुप्रत्यये, धात्वन्तस्य एकारे च रूपम्। पेरुः = आदित्यः।]]
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
