| YouTube Channel

प्रधानं (pradhAnaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रधानं,
क्ली,
(प्रधत्ते सर्व्वमात्मनीति प्र + धा +युच् ।) प्रकृतिः (यथा, विष्णुपुराणे ।“सदक्षरं ब्रह्म ईश्वरः पुमान्गुणोर्म्मिसृष्टिस्थितिकालसंलयः ।प्रधानबुद्ध्यादिजगत् प्रपञ्चसूःस नोऽस्तु विष्णुर्गतिभूतिमुक्तिदः
”महामात्रः (यथा, मनुः २०२ ।“प्रमाणानि कुर्व्वीत तेषां धर्म्म्यान् यथो-दितान् ।रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह
”प्रधत्तेऽनेनास्मिन् वा प्र + धा + ल्युट् ।)परमात्मा बुद्धिः त्रि, प्रशस्तम् तत्पर्य्यायः ।प्रमुखम् प्रवेकम् अनुत्तमम् उत्तमम् ५मुख्यम् वर्य्यम् वरेण्यम् प्रवर्हम् ९अनवरार्द्ध्यम् १० परार्द्ध्यम् ११ अग्रम् १२ प्राग्र-हरम् १३ प्रग्र्यम् १४ अग्र्यम् १५ अग्रीयम् १६अग्रिमम् १७ इत्यमरः ५७
(यथा, मनुः १२१ ।“उप्रसर्ज्जनं प्रधानस्य धर्म्मतो नोपपद्यते ।पिता प्रधानं प्रजने तस्माद्धर्म्मेण तं भजेत्