| YouTube Channel

प्रदोषः (pradoSaH)

 
Apte Hindi
Hindi
प्रदोषः
पुं*
- -
"दोष, त्रुटि, पाप, अपराध"
प्रदोषः
पुं*
- -
"अवयवस्थित स्थिति, विद्रोह, बगावत"
प्रदोषः
पुं*
- -
"संध्याकाल, रात्रि का आरंभ"
वैजयन्तीकोषः
Sanskrit
Word: प्रदोषः
Root: प्रदोष
Gender: पुं
Number: all
अर्थः रात्रिप्रारम्भः
Meaning(s):
First yāma or first three hours of a night
Shloka(s):
2|1|65|2 सायाह्नोऽप्यपराह्णऽस्त्री प्रदोषो मैथिलः समौ॥ (अन्तरिक्षकाण्डः/ज्योतिरध्यायः)
Synonym(s):
2|1|65|2 प्रदोषः (प्रदोष) (पुं) First yāma or first three hours of a night रात्रिप्रारम्भः
2|1|65|2 प्रदोषम् (प्रदोष) (नपुं) First yāma or first three hours of a night रात्रिप्रारम्भः
2|1|65|2 मैथिलः (मैथिल) (पुं) First yāma or first three hours of a night रात्रिप्रारम्भः
Related word(s):
अवयव_अवयवीसंबन्धः रात्रिः
जातिः कालः
Tamil
Tamil
ப்ரதோ3ஷ: : குற்றம், பாவம், அந்திப் பொழுது, சூரியன் அஸ்தமனத்துக்கு முன்னும் பின்னும் ஆன காலம்.
शब्दकल्पद्रुमः
Sanskrit
प्रदोषः,
पुं,
(दोषा रात्रिः प्रारम्भो दोषायाइति प्रादिसमासः प्रक्रान्ता दोषा रात्रि-रत्रेति वा ।) रजनीमुखम् इत्यमरः
तत्तु रात्रेः प्रथमदण्डचतुष्टयम् यथा, --“प्रदोषोऽस्तमयादूर्द्धं घटिकाद्बयमिष्यते
”इति तिथ्यादितत्त्वम्
(यथा, कुमारे ४४ ।“वद प्रदोषे स्फुटचन्द्रतारकाविभावरी यद्यरुणाय कल्पते
”)दोषः इति हेमचन्द्रः
(प्रकृष्टो दोषोयस्येति दुष्टे, त्रि यथा, माघे ९८ ।“ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयः ।तमःस्वभावास्तेऽप्येनं प्रदोषमनुयायिनः
”“ये चान्ये कालयवनशाल्वरुक्मिद्रुमादयोराजानस्तमःस्वभावाः तमोगुणात्मकाः अतएवतेऽपि प्रदोषं प्रकृष्टदोषम् प्रदोषो दुष्टरात्रांशाविति वैजयन्ती तामसमेवैनं चैद्यमनुयायिनःअनुयास्यन्ति सादृश्यादिति भावः
इतितट्टीकायां मल्लिनाथः
)
कृदन्तरूपमाला
Sanskrit
1 {@“दुष वैकृत्ये”@} 2 ‘वैकृत्यम् = रूपभङ्कः।’ इति क्षीरस्वामी।
दोषकः-षिका, 3 दूषकः, 4 दोषकः-दूषकः-षिका, 5 दुदुक्षकः-क्षिका, दोदुषकः-षिका
6 दोष्टा-दोष्ट्री, दूषयिता-दोषयिता-त्री, दुदुक्षिता-त्री, दोदुषिता-त्री
7 दुष्यन्-न्ती, दूषयन्-दोषयन्-न्ती, दुदुक्षन्-न्ती
-- दोक्ष्यन्-न्ती, दूषयिष्यन्-दोषयिष्यन्-न्ती-ती, दुदुक्षिष्यन्-न्ती-ती
-- 8 व्यतिदुष्यमाण
दूषयमाणः-दोषयमाणः, 9 व्यतिदुदुक्षमाणः, दोदुष्यमाणः
व्यतिदोक्ष्यमाणः, दूषयिष्यमाणः-दोषयिष्यमाणः
व्यतिदुदुक्षिष्यमाणः, दोदुषिष्यमाणः
10 11 प्रदुट्-प्रदुड्-प्रदुषौ-प्रदुषः
-- -- दुष्टम्-दुष्टः-दुष्टवान्, दूषितम्-तः, दोषितः, दुदुक्षितः, दोदुषितः-तवान्
दोषः, दुषः, 12 दोषी, 13 दूषणः, दुदुक्षुः, दोदोषः
दोष्टव्यम्, दूषयितव्यम्-दोषयितव्यम्, दुदुक्षितव्यम्, दोदुषितव्यम्
दोषणीयम्, दूषणीयम्-दोषणीयम्, दुदुक्षणीयम्, दोदुषणीयम्
दोष्यम्, दूष्यम्-दोष्यम्, दुदुक्ष्यम्, दोदुष्यम्
ईषद्दोषः-दुर्दोषः-सुदोषः
-- -- दुष्यमाणः, दूष्यमाणः-दोष्यमाणः, दुदुक्ष्यमाणः, दोदुष्यमाणः
दोषः, 14 प्रदोषः, दूषः-दोषः, दुदुक्षः, दोदुषः
दोष्टुम्, दूषयितुम्-दोषयितुम्, दुदुक्षितुम्, दोदुषितुम्
दुष्टिः, दूषणा-दोषणा, दुदुक्षा, दोदुषा
दोषणम्, दूषणम्-दोषणम्, दुदुक्षणम्, दोदुषणम्
दुष्ट्वा, दूषयित्वा-दोषयित्वा, दुदुक्षित्वा, दोदुषित्वा
प्रदुष्य, प्रदूष्य-प्रदोष्य, प्रदुदुक्ष्य, प्रदोदुष्य
दोषम् २, दुष्ट्वा २, दूषम् २-दोषम् २, दूषयित्वा २-दोषयित्वा २, दुदुक्षम् २, दुदुक्षित्वा २, दोदुषम्
दोदुषित्वा
15 इति ण्यन्तादस्मादीकन्प्रत्यये रूपम्।
दूषयति नेत्रमिति दूषीका = नेत्रमलसंघातः।]] दूषीका।
प्रासङ्गिक्यः
01
=>
(८५२)
02
=>
(४-दिवादिः-११८५। अक। अनि। पर।)
03
=>
[[३। ‘दोषो णौ’ (६-४-९०) इति ण्यन्ते सर्वत्र उपधाया ऊदादेशः।]]
04
=>
[[४। ‘वा चित्तविरागे’ (६-४-९१) इति चित्तस्याप्रीततायां गम्यमानायां तु ऊदादेश- विकल्पनात्, ऊदादेशाभावे, लघूषधगुणे दोषकः-षिका इत्यादीनि रूपाणि ण्यन्त एव सर्वत्र भवन्ति।]]
05
=>
[[५। सन्नन्तान्ण्वुलि, धातोरनिट्त्वात् ‘इको झल्’ (१-२-९) इति सनः कित्त्वाद् गुण- निषेधे, ‘षढोः कः सि’ (८-२-४१) इति धातुषकारस्य ककारे, षत्वे रूपमेवम्। एवं सन्नन्ते सर्वत्र ज्ञेयम्।]]
06
=>
[[६। तृचि, ‘ष्टुना ष्टुः’ (८-४-४१) इति तकारस्य ष्टुत्वेन टकारे रूपमेवम्। तव्यदा- दिष्वप्येवमेव प्रक्रिया ज्ञेया।]]
07
=>
[[७। शतरि ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन् विकरणप्रत्ययः। तस्य ङिद्वद्भावे- नाङ्गस्य गुणो भवति।]]
08
=>
[[८। ‘कर्तरि कर्मव्यतीहारे (१-३-१४) इति शानचि रूपमेवम्।]]
09
=>
[[७। शतरि ‘दिवादिभ्यः--’ (३-१-६९) इति श्यन् विकरणप्रत्ययः। तस्य ङिद्वद्भावे- नाङ्गस्य गुणो भवति।]]
10
=>
[पृष्ठम्०७५८+ २६]
11
=>
[[१। क्विपि, पदान्तनिमित्तके जश्त्वे, चर्त्वे रूपम्।]]
12
=>
[[२। ‘सम्पृचानुरुधाङ्यमाङ्यसपरिसृसंसृजपरिदेविसंज्वरपरिक्षिपपरिरटपरिवदपरिदह- परिमुहदुष--’ (३-२-१४२) इत्यादिना तच्छीलादिषु कर्तृषु घिनुण्प्रत्यये रूपम्।]]
13
=>
[[३। नन्द्यादित्वात् (३-१-१३४) ण्यन्तादस्मात् कर्तरि ल्युप्रत्ययेऽनादेशे दूषणः इति रूपम्।]]
14
=>
[[४। ‘हलश्च’ (३-३-१२१) इति संज्ञायां घञ्। नात्रावयवार्थादरः। प्रदोषः = रजनीमुखम्।]]
15
=>
[[५। ‘कषिदूषिभ्यामीकन्’ [द। उ। ३-३५]