| YouTube Channel

प्रदोधूप्य (pradodhUpya)

 
कृदन्तरूपमाला
Sanskrit
1 {@“धूप सन्तापे”@} 2 ‘धूपायतीति सन्तापे भाषार्थे धूपयेदिति।’ 3 इति देवः।
4 धूपायकः-यिका, धूपकः-पिका, 5 धूपायकः-यिका, धूपकः-पिका, 6 7 दुधूपायिषकः-दुधूपिषकः-षिका, 8 दोधूपकः-पिका
धूपायिता-त्री, धूपिता-त्री, धूपाययिता-धूपयिता-त्री, दुधूपायिषिता-दुधूपिषिता-त्री, दोधूपिता-त्री
9 धूपायन्-न्ती, धूयाययन्-धूपयन्-न्ती, दुधूपायिषन्-दुधूपिषन्-न्ती
-- धूपायिष्यन्-धूपिष्यन्-न्ती-ती, धूपाययिष्यन्-धूपयिष्यन्-न्ती-ती, दुधूपायिषिष्यन्-दुधूपिषिष्यन्-न्ती-ती
-- धूपाययमानः-धूपयमानः, दुधूपायिषमाणः-दुधूपिषमाणः, दोधूप्यमानः
-- धूपाययिष्यमाणः-धूपयिष्यमाणः, दुधूपायिषिष्यमाणः-दुधूपिषिष्यमाणः, दोधूप्यमानः
10 प्रधूपाः-प्रधूपौ-प्रधूपाः, प्रधूप्-प्रधूब्-प्रधूपौ-प्रधूपः
-- धूपायितम्- 11 धूपितम्, धूपायितः-धूपितः, दुधूपायिषितः-दुधूपिषितः, दोधूपितः-तवान्
धूपायः-धूपः, प्रधूपी, धूपायः-धूपः, दुधूपायिषुः-दुधूपिषुः, दोधूपः
धूपायितव्यम्-धूपितव्यम्, धूपाययितव्यम्-धूपयितव्यम्, दुधूपायिषितव्यम्-दुधूपिषितव्यम्, दोधूपितव्यम्
धूपायनीयम्-धूपनीयम्, धूपायनीयम्-धूपनीयम्, दुधूपायिषणीयम्, दुधूपिषणीयम्, दोधूपनीयम्
धूपाय्यम्-धूप्यम्, धूपाय्यम्-धूप्यम्, दुधूपायिष्यम्-दुधूपिष्यम्, दोधूप्यम्
ईषद्धूपायः-दुर्धूपायः-सुधूपायः, ईषद्धूपः-दुर्धूपः-सुधूपः
-- धूपाय्यमानः-धूप्यमानः, धूपाय्यमानः-धूप्यमानः, दुधूपायिष्यमाणः, दुधूपिष्यमाणः, दोधूप्यमानः
धूपायः-धूपः, धूपायः-धूपः, दुधूपायिषः, दुधूपिषः, दोधूपः
12 धूपायितुम्-धूपितुम्, धूपाययितुम्-धूपयितुम्, दुधूपायिषितुम्-दुधूपिषितुम्, दोधूपितुम्
धूपाया-धूपा, धूपायना-धूपना, दुधूपायिषा-दुधूपिषा, दोधूपा
धूपायनम्-धूपनम्, धूपायनम्-धूपनम्, दुधूपायिषणम्-दुधूपिषणम्, दोधूपनम्
धूपायित्वा-धूपित्वा, धूपाययित्वा-धूपयित्वा, दुधूपायिषित्वा-दुधूपिषित्वा, दोधूपित्वा
प्रधूपाय्य-प्रधूप्य, प्रधूपाय्य-प्रधूप्य, प्रदुधूपायिष्य-प्रदुधूपिष्य, प्रदोधूप्य
धूपायम् -धूपम् २, धूपायित्वा -धूपित्वा २, धूपायम् -धूपम् २, धूपाययित्वा -धूपयित्वा २, दुधूपायिषम् -दुधूपिषम् २, दोधूपम्
दुधूपायिषित्वा -दुधूपिषित्वा २, दोधूपित्वा २।
प्रासङ्गिक्यः
01
=>
(९०९)
02
=>
(१-भ्वादिः-३९६। अक। सेट्। पर।)
03
=>
(श्लो। १३०)
04
=>
[[२। ‘गुपूधूपविच्छिपणिपनिभ्य आयः’ (३-१-२८) इति आयप्रत्ययः। च, ‘आयादय आर्धधातुके वा’ (३-१-३१) इति विकल्पेन भवति। तेन आयप्रत्ययपक्षे रूपमेवम्। तदभावपक्षे धूपकः इति। एवं आर्धधातुके सर्वत्रायप्रत्ययो ज्ञेयः।]]
05
=>
[[३। ण्यन्तेऽपि सर्वत्रायप्रत्ययविकल्पः। तेन सर्वत्र रूपद्वयम्।]]
06
=>
[पृष्ठम्०८०४+ १९]
07
=>
[[१। आयप्रत्ययान्तात् सनि रूपमेवम्। तदभावे दुधूपिषकः इत्यादीनि रूपाणीति ज्ञेयम्।]]
08
=>
[[२। आर्धधातुकविवक्षायामायप्रत्ययस्य वैकल्पिकत्वात्, आयप्रत्ययान्तस्य अनेकाच्त्वात् आयप्रत्ययविवक्षायां यङ् न। आयाभावपक्षे तु यङि दोधूपकः इत्यादीनि रूपाणि ज्ञेयानि।]]
09
=>
[[३। शतुः सार्वधातुकत्वेन नित्यमायप्रत्ययः।]]
10
=>
[[४। आयप्रत्ययान्तात् क्विपि, अल्लोपयलोपयोः, सोः रुत्वविसर्गयोश्च रूपमेवम्।]]
11
=>
[[आ। ‘गोपायतां धर्ममधूपितात्मनां जल्पान् विमुच्याभवदुद्यमो जपे।।’ धा। का। १। ५१।]]
12
=>
[पृष्ठम्०८०५+ २३]