| YouTube Channel

प्रदक्षिणा (pradakSiNA)

 
Apte Hindi
Hindi
प्रदक्षिणा
स्त्री*
- -
"बाईं ओर से दाईं ओर को घूमना जिससे कि दाहिना पार्श्व सदैव उस व्यक्ति या वस्तु की ओर हो जिसकी परिक्रमा की जा रही है, श्रद्धापूर्ण अभिवादन जो इस प्रकार प्रदक्षिणा द्वारा किया जाय"
L R Vaidya
English
pradakziRa {% (I) a. (f. णा) %} 1. Being or placed on the right
2. respectful, reverential
3. auspicious, favourable.
Sanskrit Tibetan
Tibetan
bskor ba
१) अट्या २) अनुप्रवर्तन ३) आवर्तन ४) आवृत ५) उपगूढ ६) चक्र ७) दत्तिक ८) नयनानयन ९) परिक्षिप्त १०) परीवृत ११) प्रतिकुब्जित १२) प्रदक्षिणा १३) प्रवर्तन १४) प्रवृत्ति १५) भ्रमण १६) वर्ण १७) वर्तन १८) वेष्ट १९) सम्मति
शब्दकल्पद्रुमः
Sanskrit
प्रदक्षिणा,
स्त्री,
(प्रगता दक्षिणमिति “तिष्ठद्गुप्रभृतीनि १७ ।” इति समासः ।)प्रदक्षिणम् यथा, --अथ प्रदक्षिणा ।“ततः प्रदक्षिणां कुर्य्याद्भक्या भगवतो हरेः ।नामानि कीर्त्तयन् शक्तौ ताञ्च साष्टाङ्गवन्द-नाम्
”प्रदक्षिणासङ्ख्या चोक्ता नारसिंहे ।“एकां चण्ड्यां रवेः सप्त तिस्रो दद्याद्विनायके ।चतस्रः केशवे दद्यात् शिवे त्वर्द्धप्रदक्षिणाम्
”प्रदक्षिणामाहात्म्यं वाराहे ।“प्रदक्षिणां ये कुर्व्वन्ति भक्तियुक्तेन चेतसा ।न ते यमपुरं यान्ति यान्ति पुण्यकृतां गतिम्
यस्त्रिः प्रदक्षिणं कुर्य्यात् साष्टाङ्गकप्रणामकम् ।दशाश्वमेधस्य फलं प्राप्नुयान्नात्र संशयः
”स्कान्दे ब्रह्मनारदसंवादे
“विष्णोर्विमानं यः कुर्य्यात् सकृद्भक्त्या प्रदक्षि-णम् ।अश्वमेधसहस्रस्य फलमाप्नोति मानवः
”तत्रैव चातुर्मास्यमाहात्म्ये ।“चतुर्व्वारं भ्रमीभिस्तु जगत् सर्व्वं चराचरम् ।क्रान्तं भवति विप्राग्र्य ! तत्तीर्थगमनाधिकम्
”तत्रैवान्यत्र ।“प्रदक्षिणं तु यः कुर्य्याद्धरिं भक्त्या समन्वितः ।हंसयुक्तविमानेन विष्णुलोकं गच्छति
”नारसिंहे ।“प्रदक्षिणेन चैकेन देवदेवस्य मन्दिरे ।कृतेन यत् फलं नॄणां तच्छृणुष्व नृपात्मज ! ।पृथ्वीप्रदक्षिणफलं यत्तत् प्राप्य हरिं व्रजेत्
”अन्यत्र ।“एवं कृत्वा तु कृष्णस्य यः कुर्य्याद्द्विप्रदक्षिणम् ।सप्तद्वीपवतीपुण्यं लभते तु पदे पदे
पठन्नामसहस्रन्तु नामान्येवाथ केवलम्
”भक्तिसुधोदये ।“विष्णुं प्रदक्षिणीकुर्व्वन् यस्तत्रावर्त्तते पुनः ।तदेवावर्त्तनं तस्य पुनर्नावर्त्तते भवे
”बृहन्नारदीये यमभगीरथसंवादे ।“प्रदक्षिणत्रयं कुर्य्यात् यो विष्णोर्मनुजेश्वर ! ।सर्व्वपापविनिर्मुक्तो देवेन्द्रत्वं समश्नुते
”तत्रैव प्रदक्षिणमाहात्म्ये सुधर्म्मोपाख्यानारम्भे ।“भक्त्या कुर्व्वन्ति ये विष्णोः प्रदक्षिणचतुष्टयम् ।तेऽपि यान्ति परं स्थानं सर्व्वलोकोत्तमोत्तमम्
तत् ख्यातं यत् सुधर्म्मस्य पूर्व्वस्मिन् गृध्रजन्मनि ।कृष्णप्रदक्षिणाभाषान्महासिद्धिरभूदिति
”अथ प्रदक्षिणायां निषिद्धं विष्णुस्मृतौ ।“एकहस्तप्रणामश्च एका चैव प्रदक्षिणा ।अकाले दर्शनं विष्णोर्हन्ति पुण्यं पुराकृतम्
”अकाले भोजनादिसमये किञ्च ।“कृष्णस्य पुरतो नैव सूर्य्यस्यैव प्रदक्षिणाम् ।कुर्य्याद्भ्रमरिकारूपं वैमुख्यापादनीं प्रभौ
”तथा चोक्तम् ।“प्रदक्षिणं कर्त्तव्यं विमुखत्वाच्च कारणम्
”इति श्रीहरिभक्तिविलासे विलासः