| YouTube Channel

प्रदक्षिणं (pradakSiNaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रदक्षिणं,
क्ली,
पुं,
(प्रगतं दक्षिणमिति “तिष्ठद्गु-प्रभृतीनि ।” १७ इति समासः ।)दक्षिणावर्त्तेन देवादिकमुद्दिश्य भ्रमणम् यथा, “एकं देव्यां रवौ सप्त त्रीणि कुर्य्याद्बिनायके ।चत्वारि केशवे कुर्य्यात् शिवे चार्द्धप्रदक्षिणम्
”इति कर्म्मलोचनम्
सर्व्वदेवतातुष्टिदप्रदक्षिणं यथा, --“प्रसार्य्य दक्षिणं हस्तं स्वयं नम्रशिराः पुनः ।दक्षिणं दर्शयन् पार्श्वं मनसापि दक्षिणः
सकृत्त्रिर्व्वा वेष्टयेत्ता देव्याः प्रीतिः प्रजायते ।स प्रदक्षिणो ज्ञेयः सर्व्वदेवौधतुष्टिदः
सर्व्वान् कामान् समामाद्य पश्चान्मोक्षमवा-प्नुयात्
मनसापि यो दद्याद्देव्यै भक्त्या प्रदक्षिणम् ।प्रदक्षिणाद्यमगृहे नरकाणि पश्यति
”इति कालिकापुराणे ७० अध्यायः
*
अपि तन्त्रसारे ।“दक्षिणाद्वायवीं गत्वा दिशं तस्याश्च शाम्भवीम्ततश्च दक्षिणां गत्वा नमस्कारस्त्रिकोणवत्
अर्द्धचन्द्रं महेशस्य पृष्ठतश्च समारितम् ।शिवप्रदक्षिणे मन्त्री अर्द्धचन्द्रक्रमेण तु
सव्यासव्यक्रमेणैव सोमसूत्रं लङ्घयेत्
”सोमसूत्रं जलनिःसरणस्थानम् ।“प्रसार्य्य दक्षिणं हस्तं स्वयं नम्रशिराः पुनः ।दर्शयेद्दक्षिणं पार्श्बं मनसापि दक्षिणः
त्रिधा वेष्टयेत् सम्यक् देवतायाः प्रदक्षिणम्
एकहस्तप्रणामश्च एकं वापि प्रदक्षिणम् ।अकाले दर्शनं विष्णोर्हन्ति पुण्यं पुराकृतम्
”(समर्थे, त्रि यथा, रामायणे ४३ ५१ ।“प्रदक्षिणेनातिबलेन पक्षिणाजटायुषा बुद्धिमता लक्ष्मण !
”“प्रदक्षिणेन समर्थेन ।” इति तट्टीकायां रामा-नुजः
)