| YouTube Channel

प्रत्यालीढं (pratyAlIDhaM)

 
Apte 1890
English
प्रत्यालीढं A particular attitude in shooting (opp. आलीढ q. v.).
शब्दकल्पद्रुमः
Sanskrit
प्रत्यालीढं,
क्ली,
(प्रति + + लिह + क्तः ।)धन्विनां पादसंस्थानविशेषः तत्रोर्द्धस्य वाम-पादप्रसारे दक्षिणपादसङ्कोचः इत्यमर-टीकायां भरतः
धन्विनामवस्थानविशेषः ।यथा, --“स्यात् प्रत्यालीढमालीढं समं पादं तथापरम् ।वैशाखं मण्डलञ्चेति धन्विनां स्थानपञ्चकम्
स्याद्दक्षपादसङ्कोचात् वामपादप्रसारणात् ।प्रत्यालीढमिति प्रोक्तमालीढं तद्विपर्य्यर्यात्
तुल्यं पादयुगं यत्र समपादमुदाहृतम् ।वितस्त्यन्तरितं पादयुगं वैशाखमुच्यते ।मण्डलाकारपादाभ्यां मण्डलं स्थानमीरितम्
”इति शब्दरत्नावली
(यथा यादवः ।“स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्रियाम् ।वितस्त्यन्तरगौ पादौ मण्डलं तोरणाकृती
समानौ स्यात् समपदमालीढं पदमग्रतः ।दक्षिणं वाममाकुञ्च्य प्रत्यालीढं विपर्य्ययः
”)अशिते, त्रि इति मेदिनी ढे, १२