| YouTube Channel

प्रत्याध्मानः (pratyAdhmAnaH)

 
शब्दकल्पद्रुमः
Sanskrit
प्रत्याध्मानः,
पुं,
(प्रतिगतमाध्मानमीषत्-शब्दोयत्र ।) वातव्याधिविशेषः तस्य लक्षणमाह ।“विमुक्तपार्श्वहृदयं तदेवामाशयोत्थितम् ।प्रत्याध्मानं विजानीयात् कफव्याकुलितानिलम्
”विमुक्तपार्श्वहृदयं पार्श्वे हृदये विहाय जातंतदेवाध्मानम् कफव्याकुलितानिलं कफेनाव-रुद्धवातम्
*
अथ तस्य चिकित्सा ।“प्रत्याध्माने समुत्पन्ने कुर्य्यात् वमनलङ्घने ।दीपनादि नियुञ्जीत पूर्व्ववद्वस्तिकर्म्म
”इति भावप्रकाशः