| YouTube Channel

प्रत्यवस्कन्दनं (pratyavaskandanaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रत्यवस्कन्दनं,
क्ली,
(प्रति + अव + स्कन्द + ल्युट् ।)चतुर्व्विधोत्तरान्तर्गतोत्तरविशेषः यथा, --“प्रत्यवस्कन्दनं नाम सत्यं गृहीतं प्रतिदत्तंप्रतिग्रहलब्धमिति वा यथाह नारदः ।अर्थिना लेखितो योऽर्थः प्रत्यर्थी यदितन्तथा ।प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं स्मृतम्
”इति मिताक्षरा
अपि ।“अर्थिनाभिहितो योऽर्थः प्रत्यर्थी यदि तन्तथा ।प्रपद्य कारणं ब्रूयात् प्रत्यवस्कन्दनं हि तत्
”इति व्यवहारतत्त्वे बृहस्पतिवचनम्