| YouTube Channel

प्रत्यर्थी (pratyarthI)

 
शब्दकल्पद्रुमः
Sanskrit
प्रत्यर्थी, [न्] त्रि, (प्रतिशोधं प्रतिकूलं वा अर्थ-यते इति प्रति + अर्थ + णिनिः ।) शत्रुः ।इत्यमरः ११
(यथा, साहित्य-दर्पणे परिच्छेदे ।“नेत्रे खञ्जनगञ्जने सरसिजप्रत्यर्थि पाणिद्वयंवक्षोजौ करिकुम्भविभ्रमकरीमत्युन्नतिंगच्छतः
”)पुं, प्रतिवादी इति शब्दरत्नावली
(यथा, मनुः ७९ ।“सभान्तः साक्षिणः प्राप्तानर्थिप्रत्यर्थिसन्निधौ ।प्राड्विवाकोऽनुयुञ्जीत विधिनानेन सान्त्व-यन्
”)अर्थिप्रतिपक्षः यथा, --“प्रत्यर्थिनोऽग्रगतो लेख्यं यथावेदितमर्थिना ।समामासतदर्द्धाहर्नामजात्यादिचिह्नितम्
”“अर्थ्यत इत्यर्थः साध्यः सोऽस्यास्तीत्यर्थी ।तत्प्रतिपक्षः प्रत्यर्थी ।” इति मिताक्षरा