प्रत्यभिज्ञादर्शन (pratyabhijJAdarzana)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte Hindi
Hindiप्रत्यभिज्ञादर्शनम्
- -
शैवदर्शन पर लिख गया एक ग्रन्थ
Shabdartha Kaustubha
Kannadaप्रत्यभिज्ञादर्शन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಪ್ರತ್ಯಭಿಜ್ಞಾಶಾಸ್ತ್ರ
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Aufrecht Catalogus Catalogorum
Englishवाचस्पत्यम्
Sanskritप्रत्यभिज्ञादर्शन प्रत्यभिज्ञायाः दर्शनम् शास्त्रम् । माहे-श्वरशास्त्रभेदे तन्मतं च सर्वदर्शनसंग्रहे दर्शितं यथा“अत्रापेक्षाविहीनानां जडानां कारणत्वं दुष्यतीत्य-परितुष्यन्तो मतान्तरमन्विष्यन्तः परमेश्वरेच्छावशादेवजगन्निर्माणं परिघुष्यन्तः स्वसंवेदनोपपत्त्यागमसिद्धप्रत्य-गात्मतादात्म्यो, नानाविधमानमेयादिभेदाभेदशाली पर-मेश्वरोऽनन्यमुस्वप्रेक्षित्वलक्षणस्वातन्त्र्यभाक् स्वात्मदर्पणेभावान् प्रतिविम्बवदभासयेदिति भणन्तो बाह्याभ्यन्तर-चर्य्याप्राणायामादिक्लेशप्रयासकलावैधुर्य्येण सर्वसुलभ-मभिनवं प्रत्यभिज्ञामात्रं परापरसिद्ध्युपायमभ्युपगच्छन्तःपरे माहेश्वराः प्रत्यभिज्ञाशास्त्रमभ्यस्यन्ति । तस्येयत्तापिन्यरूपि परीक्षकैः “सूत्रं वृत्तिविवृतिर्लघ्वी वृहतीत्युभेविमर्शिन्यौ । पकरणविवरणपञ्चकमिति शास्त्रं प्रत्यभि-ज्ञायाः” तत्रेदं प्रथमं सूत्रम् । “कथञ्चिदासाद्य महेमहेश्वरः स्याद्दास्यं जतस्याप्युपकारमिच्छन् । समस्तसम्पत्समवाप्तिहेतुं तत्प्रत्यभिज्ञामुपपादयामि” इति ।कथञ्चिदिति परमेश्वराभिन्नगुरुचरणारविन्दयुगलसमा-राधनेन परमेश्चरघटितेनैवेत्यर्थः आसाद्येति आ सम-न्तात् परिपूर्णतया सादयित्वा स्वात्मोपभोग्यतां निरर्गलांगमयित्वा तदनेन पिदितवेद्यत्वेन परार्थशास्त्रकरणेऽधि-कारो दर्शितः अन्यथा प्रतारणमेव प्रसजेत् । मायोत्तीणांअपिमहामायाधिकृता विष्णुविरिञ्च्याद्या यदीयैश्वर्य्य-लेशेनेश्वरीभूताः स भगवाननवच्छिन्नप्रकाशानन्दस्वातन्त्र्य-परमार्थो महेश्वरः तस्य दास्यं दीयतेऽस्मै स्वामिना सर्वंयथाभिलषितमिति दासः परमेश्वरस्वरूपस्वातन्त्रयपात्रमि-त्यर्थः । जनशब्देनाधिकारिविषयनियमाभावः प्रादर्शि ।यस्य यस्य हीदं स्वरूपकथनं तस्य तस्य महाफलं भवतिप्रधानस्यैव परमार्थफलत्वात् । तधोपदिष्टं शिवदृष्टौपरमगुरुभिर्भगवत्सोमानन्दनाथपादैः “एकवारं प्रमाणेनशास्त्राद्वा गुरुवाक्यतः । ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्यादृढात्मना । करणेन नास्ति कृत्यं क्वापि भावनया स-कृत् । ज्ञाते सुवर्णे करणं भावनां वा परित्यजेत्” इति ।अपिशब्देन स्वात्मनस्तदभिन्नतामाविष्कुर्वता पूर्णत्वेनस्वात्मनि परार्थसम्पत्त्यतिरिक्तप्रयोजनान्तरावकाशश्च परा-कृतः । परार्थश्च प्रयोजनं भवत्येव तल्लक्षणयोगात् नह्ययं देवशापः, स्वार्थ एव प्रयोजनं न परार्थ इति ।अत एवोक्तमक्षपादेन “यमर्थमधिकृत्य प्रवर्त्तते तत्प्रयो-जनम्” इति । उपशब्दः सामीप्यार्थः तेन जनम्य पर-मेश्वरसमीपताकरणमात्रं फलम् अत एवाह समस्तेतिपरमेश्वरतालाभे हि सर्वाः सम्पदस्तन्निष्यन्दमय्यः स-म्पन्ना एव रोहणाचललाभे रत्नसम्पद इव । एवंपरमेश्वरतालाभे किमन्यत् प्रार्थनीयम् । तदुक्तमुत्पला-चार्य्यैः “भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम् ।एनया वा दरिद्राणां किमन्यदपयाचितम्” इति । इत्थंषष्ठीसमासपक्षे प्रयोजनं निर्दिष्टम् । बहुब्रीहिपक्षे-तूपायः समस्तस्य बाह्याभ्यन्तरस्य नित्यसुखादेर्या सम्पत्-सिद्धिः तथात्वप्रकाशः तस्याः सम्यगवाप्तिर्यस्याः प्रत्यभि-ज्ञायाः हेतीः सा तथोक्ता तस्य महेश्वरस्य प्रत्यभिज्ञा प्रति-सन्धानाभिमुख्येन ज्ञानम् । लोके हि स एवायं चैत्र इतिप्रतिसन्धानेनाभिमुखीभूते वस्तुनि ज्ञानं प्रत्यभिज्ञेति व्यव-ह्रियते इहापि प्रसिद्धपुराणसिद्धागमानुमानादिज्ञात-परिपूर्णशक्तिके परमेश्वरे सति खात्मन्यभिमुखीभूतेतच्छक्तिप्रतिसन्धानेन ज्ञानमुदेति नूनं सं एवेश्वरोऽह-मिति । तामेतां प्रत्यभिज्ञामुपपादयामि उप्रपन्नः स-म्भवतीति तत्समर्थाचरणेन प्रयोजनव्यापारेण सम्पा-दायामीत्यर्थः । यदीश्वरस्वभाव एवात्मा प्रकाशते तर्हिकिमनेन प्रत्यभिज्ञाप्रदर्शनप्रयासेनेति चेत् तत्रायं समाधिःस्वप्रकाशतया सततमवभासमानेऽप्यात्मनि मायावशात्भागेन न पूकाशते पूर्णतावभाससिद्धये दृकक्रियात्मकशक्त्या-विष्करणेन प्रत्यभिज्ञा प्रदर्श्यते । तथा च प्रयोगः अय-मात्मा परमेश्वरो भवितुमर्हति ज्ञानक्रियाशक्तिमत्त्वात्यो यावति ज्ञाता कर्त्ता च स ताबतीश्वरः प्रसिद्धेश्वर-वत् राजवद्वा आत्मा च विश्वज्ञाता कर्त्ता च तस्मादी-श्वरीऽयमिति अवयवपञ्चकस्याश्रयणं मायावादेन नैया-यिकमतस्य कक्षीकारात् । तदुक्तमुदयकरसूनुना “कर्त्तरिज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे । अजडात्मा निषेधंवा सिद्धिं वा विदधीत कः । किन्तु मोहवशादस्मिन्दृष्टेऽप्यनुपलक्षिते । शक्त्याविष्करणेनेयं प्रत्यभिज्ञोप-दर्श्यते” । तथा हि “सर्वेषामिह भूतानां प्रतिष्ठाजीवदाश्रया । ज्ञानं क्रिया च भूतानां जीवतां जीवनंमतम् । तत्र ज्ञानं स्वतः सिद्धं क्रिया काऽस्याश्रितासती । परैरप्युपलक्ष्येत तयाऽन्यज्ज्ञानमुच्यते” इति ।“या चैषां पृतिभा तत्तत्पदार्थक्रमरूपिता । अक्रमानन्द-चिद्रूपः प्रमाता स महेश्वरा” इति च । सोमानन्द-नाथपादैरपि “सदा शिवात्मना वेत्ति सदा वेत्ति मदा-त्मना” इत्यादि । ज्ञानाधिकारपरिसमाप्तावपि “तदैक्येनविना नास्ति संविदां लोकपद्धतिः । प्रकाशैक्यात्तदेकत्वंमातैकः स इति स्थितः । स एवार्थभृशत्वेन नियतेनमहेश्वरः । विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः” इति ।विवृतं चाभिनवगुप्ताचार्य्यैः “तमेव भान्तमनुभाति सर्वंतस्य भासा सर्वमिदं विभातीति” श्रुत्या प्रकाशचिद्रूप-महिम्ना सर्वस्य भावजातस्य भासकत्वमभ्युपेयते ततश्चविषयप्रकाशस्य नीलप्रकाशः पीतप्रकाश इति विषयोप-रागभेदाद्भेदः । वस्तुतस्तु देशकालाकारसङ्कोचवैकल्यादभेद एव स एव चैतन्यरूपः प्रकाशः प्रमातेत्युच्यते ।तथा च पठितं शिवसूत्रेषु “चैतन्यमात्मेति” । तस्यचिद्रूपत्वमनवच्छिन्नविमर्शत्वमनन्योन्मुस्वमानन्दैकघनत्वं मा-हेश्वर्य्य मिति पर्य्यायः स एव ह्ययं भावात्मा विमर्शः शुद्धेपारमार्थिक्यौ ज्ञानक्रिये तत्र प्रकाशरूपता ज्ञानं, स्वतोजगन्निर्मावृत्वं क्रिया । तच्च निरूपितं क्रियाधिकारे“एष चानन्दशक्तित्वादेवमाभासयत्यमून् । भावानिच्छा-वशादेषा क्रिया निर्मातृताऽस्य तु” । उपसंहारेऽपि “इत्थंतथा घटपटाद्याकारजगदात्मना । तिष्ठासारेवमिच्छैवहेतुकर्तृकृता क्रियेति । तस्मिन् सतीदमस्तीति कार्य्य-कारणतापि या । साप्यपेक्षाविहीनानां जडानां नोप-षद्यते” इति न्यायेन यतो जडस्य न कारणता न वाअनीश्वरस्य चेतनस्यापि तस्मात्तेन तेन जगद्गतजन्मस्थि-त्यादिभावविकारत्तद्भेदक्रिथासहस्ररूपेण स्थातुमिच्छाःस्वतन्त्रस्य भगवती महेश्वरस्येच्छैवोत्तरोत्तरमच्छस्वभावाक्रिया विश्वकर्तृत्वं वोच्यते इति । इच्छामात्रेण जगन्निर्माणमित्यत्र दृष्टान्तोऽपि स्पष्टं निर्दिष्टः “योगिनामपिमृद्वीजं विनैवेच्छावशेन यत् । घटादि जायते तत्तत्स्थिरस्वार्थक्रियाकरम्” इति । यदि घटादिकं प्रतिमृदाद्येव परमार्थतः कारणं स्यात्तर्हि कथं योगीच्छामा-त्रेण घटादिजन्म स्यात् । अथोच्येत अन्य एव मृद्-बोजादिजन्या घटाङ्कुरादयो योगीच्छाजन्यास्त्वन्या एवेतितत्रापि बोध्यसे सामग्रीभेदात्तावत् कार्य्यभेद इति सर्व-जनप्रसिद्धम् । ये तु वर्णयन्ति नोपादानं विना घटाद्युत्पत्तिरिति योगी त्विच्छया परमाणून् व्यापारयन् सङ्घ-टयतीति तेऽपि बोधनीयाः । यदि परिदृष्टकार्य्यका-रणभावविपर्य्ययो न लभ्येत तर्हि घटे मृद्दण्डचक्रादि-देहे स्त्रीपुरुषसंयोगादिःसर्वमपेक्ष्येत तथा च योगीच्छास-मनन्तरसञ्जातघटदेहादिसम्भवो दुःसमर्थ एव स्यात् । चेतनएव तु तथा भाति भगवान् भूरिभगो महादेवो निय-तनुवर्त्तवोल्लङ्घनघनंतरस्वातन्त्य इति पक्षे न काचि-दनुपपत्तिः । अत एवोक्तं वसुगुप्ताचार्य्यैः “निरुपा-दानसम्भारमभित्तावेव तन्वते । जगज्जित्रं नमस्तस्मैकलाश्ल घ्याय शूलिने” इति । ननु प्रत्यगात्मनः परमे-श्वराभिन्नत्वे संसारसम्बन्धः कथं भवेदिति चेत्तत्रोक्त-मागमाधिकारे “एष प्रमाता मायान्घः संसारी कर्म-बन्धनः । विद्यादिज्ञापितैश्वर्य्यश्चिद्घनो मुक्त उच्यते”इति । ननु प्रमेयस्य प्रमात्रभिन्नत्वे बद्धमुक्तयीः प्रमेयंप्रति को विशेषः? अत्राप्युत्तरमुक्तं तत्त्वार्थसंग्रहाधिकारे“मेयं साधारणं सुक्तः स्वात्माभेदेन भन्यते । महेश्वरोयथा बद्धः पुनरत्यन्तभेदवदिति” नन्वात्मनः परमेश्वरत्वंस्वाभाविकं चेन्नार्थः प्रत्यभिज्ञाप्रार्थनया न हि वीजमप्र-त्यभिज्ञातं सति सहकारिसाकल्ये अङ्कुरं नोत्पादयति ।तस्मात् कस्माद्वात्मप्रत्यभिज्ञाने निबंन्ध इति चेदुच्यते ।शृणु तावदिदं रहस्यं द्विविधा ह्यर्थक्रिया बाह्याङ्कुरा-दिका प्रमातृविश्रान्तिचमत्कारसारा प्रीत्यादिरूपा चतत्राद्या प्रत्यभिज्ञानं नापेक्षते द्वितीया तु तदषेक्षतएव । इहाप्यहमीश्वर इत्येवम्भूतचमत्कारसारा प-रापरसिद्धिलक्षणजीवात्मैकत्वशक्तिविभूतिरूपाऽर्थक्रियेतिस्वरूपप्रत्यभिज्ञानमपेक्षणीयम् । ननु प्रमातृविश्रान्ति-सारार्थक्रिया प्रत्यभिज्ञानेन विना दृष्टा सती तस्मित्दृष्टेति क्व दृष्टम् । अत्रोच्यते नायकगुणगणसंश्रवण-प्रवृद्धानुरागा का चन कामिनी मदनविह्वला विरहक्ले-शमसहमाना मदनलेखावलम्वेन स्वावस्थानिवेदनानिविधत्ते तथा येगात्तन्निकटमटत्यपि तस्मिन्नवलोकितेऽपितदवंलोकनं तदीयगुणपरामर्शाभावे जनसाधारणत्वंप्राप्ते हृदयङ्गमभावं न लभते । यदा तु मूर्त्तिवचना-चदीयगुणपरामर्शं करोति तदा तत्क्षणमेव पूर्वभाव-मत्येति । एवं स्वात्मनि विषश्वरात्मना भासमानेऽपि-तन्निर्भासनं तदीयगुणपरामशेविरहसमयं पूर्णं भाव नसम्पादयति यदा तु गुरुवचनादिना सर्वज्ञत्वसर्वकर्तृत्वा-दिलक्षणपमश्वरीत्कषपरामर्शो जायते तदा तत्क्षणमेवपूर्णात्मतालाभः । तदुक्तं चतुर्थे विमर्शे “तैस्तैरप्युप-याचितैरुपनतस्तस्याः स्थितोऽप्यन्तिके कान्तो लोक-समान एवमपरिज्ञाता न रन्तं यथा । लोकस्यैष तथा-नपेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवायं निजवैभवायतदियं तत्प्रत्यभिज्ञोदिता” इति । अभिनवगुप्तादिभि-राचार्य्यौर्विहितप्रतानोऽपि अयमर्थः संग्रहमुपक्रममाणै-रस्माभिर्बिस्तरभिया न प्रतानित इति सर्वं शिवम्” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
