| YouTube Channel

प्रत्यभिज्ञादर्शन (pratyabhijJAdarzana)

 
Monier Williams Cologne
English
प्रत्य्-°अभिज्ञा—दर्शन
n.
N.
of a philos. system,
IW.
118
Apte Hindi
Hindi
प्रत्यभिज्ञादर्शनम्
नपुं*
- -
शैवदर्शन पर लिख गया एक ग्रन्थ
Shabdartha Kaustubha
Kannada
प्रत्यभिज्ञादर्शन
पदविभागः - > नपुंसकलिङ्गः
कन्नडार्थः - > ಪ್ರತ್ಯಭಿಜ್ಞಾಶಾಸ್ತ್ರ
Aufrecht Catalogus Catalogorum
English
प्रत्यभिज्ञादर्शन the eighth chapter of the Sarvadarśana-
saṃgraha.
वाचस्पत्यम्
Sanskrit
प्रत्यभिज्ञादर्शन
न०
प्रत्यभिज्ञायाः दर्शनम् शास्त्रम् माहे-श्वरशास्त्रभेदे तन्मतं सर्वदर्शनसंग्रहे दर्शितं यथा“अत्रापेक्षाविहीनानां जडानां कारणत्वं दुष्यतीत्य-परितुष्यन्तो मतान्तरमन्विष्यन्तः परमेश्वरेच्छावशादेवजगन्निर्माणं परिघुष्यन्तः स्वसंवेदनोपपत्त्यागमसिद्धप्रत्य-गात्मतादात्म्यो, नानाविधमानमेयादिभेदाभेदशाली पर-मेश्वरोऽनन्यमुस्वप्रेक्षित्वलक्षणस्वातन्त्र्यभाक् स्वात्मदर्पणेभावान् प्रतिविम्बवदभासयेदिति भणन्तो बाह्याभ्यन्तर-चर्य्याप्राणायामादिक्लेशप्रयासकलावैधुर्य्येण सर्वसुलभ-मभिनवं प्रत्यभिज्ञामात्रं परापरसिद्ध्युपायमभ्युपगच्छन्तःपरे माहेश्वराः प्रत्यभिज्ञाशास्त्रमभ्यस्यन्ति तस्येयत्तापिन्यरूपि परीक्षकैः “सूत्रं वृत्तिविवृतिर्लघ्वी वृहतीत्युभेविमर्शिन्यौ पकरणविवरणपञ्चकमिति शास्त्रं प्रत्यभि-ज्ञायाः” तत्रेदं प्रथमं सूत्रम् “कथञ्चिदासाद्य महेमहेश्वरः स्याद्दास्यं जतस्याप्युपकारमिच्छन् समस्तसम्पत्समवाप्तिहेतुं तत्प्रत्यभिज्ञामुपपादयामि” इति ।कथञ्चिदिति परमेश्वराभिन्नगुरुचरणारविन्दयुगलसमा-राधनेन परमेश्चरघटितेनैवेत्यर्थः आसाद्येति सम-न्तात् परिपूर्णतया सादयित्वा स्वात्मोपभोग्यतां निरर्गलांगमयित्वा तदनेन पिदितवेद्यत्वेन परार्थशास्त्रकरणेऽधि-कारो दर्शितः अन्यथा प्रतारणमेव प्रसजेत् मायोत्तीणांअपिमहामायाधिकृता विष्णुविरिञ्च्याद्या यदीयैश्वर्य्य-लेशेनेश्वरीभूताः भगवाननवच्छिन्नप्रकाशानन्दस्वातन्त्र्य-परमार्थो महेश्वरः तस्य दास्यं दीयतेऽस्मै स्वामिना सर्वंयथाभिलषितमिति दासः परमेश्वरस्वरूपस्वातन्त्रयपात्रमि-त्यर्थः जनशब्देनाधिकारिविषयनियमाभावः प्रादर्शि ।यस्य यस्य हीदं स्वरूपकथनं तस्य तस्य महाफलं भवतिप्रधानस्यैव परमार्थफलत्वात् तधोपदिष्टं शिवदृष्टौपरमगुरुभिर्भगवत्सोमानन्दनाथपादैः “एकवारं प्रमाणेनशास्त्राद्वा गुरुवाक्यतः ज्ञाते शिवत्वे सर्वस्थे प्रतिपत्त्यादृढात्मना करणेन नास्ति कृत्यं क्वापि भावनया स-कृत् ज्ञाते सुवर्णे करणं भावनां वा परित्यजेत्” इति ।अपिशब्देन स्वात्मनस्तदभिन्नतामाविष्कुर्वता पूर्णत्वेनस्वात्मनि परार्थसम्पत्त्यतिरिक्तप्रयोजनान्तरावकाशश्च परा-कृतः परार्थश्च प्रयोजनं भवत्येव तल्लक्षणयोगात् नह्ययं देवशापः, स्वार्थ एव प्रयोजनं परार्थ इति ।अत एवोक्तमक्षपादेन “यमर्थमधिकृत्य प्रवर्त्तते तत्प्रयो-जनम्” इति उपशब्दः सामीप्यार्थः तेन जनम्य पर-मेश्वरसमीपताकरणमात्रं फलम् अत एवाह समस्तेतिपरमेश्वरतालाभे हि सर्वाः सम्पदस्तन्निष्यन्दमय्यः स-म्पन्ना एव रोहणाचललाभे रत्नसम्पद इव एवंपरमेश्वरतालाभे किमन्यत् प्रार्थनीयम् तदुक्तमुत्पला-चार्य्यैः “भक्तिलक्ष्मीसमृद्धानां किमन्यदुपयाचितम् ।एनया वा दरिद्राणां किमन्यदपयाचितम्” इति इत्थंषष्ठीसमासपक्षे प्रयोजनं निर्दिष्टम् बहुब्रीहिपक्षे-तूपायः समस्तस्य बाह्याभ्यन्तरस्य नित्यसुखादेर्या सम्पत्-सिद्धिः तथात्वप्रकाशः तस्याः सम्यगवाप्तिर्यस्याः प्रत्यभि-ज्ञायाः हेतीः सा तथोक्ता तस्य महेश्वरस्य प्रत्यभिज्ञा प्रति-सन्धानाभिमुख्येन ज्ञानम् लोके हि एवायं चैत्र इतिप्रतिसन्धानेनाभिमुखीभूते वस्तुनि ज्ञानं प्रत्यभिज्ञेति व्यव-ह्रियते इहापि प्रसिद्धपुराणसिद्धागमानुमानादिज्ञात-परिपूर्णशक्तिके परमेश्वरे सति खात्मन्यभिमुखीभूतेतच्छक्तिप्रतिसन्धानेन ज्ञानमुदेति नूनं सं एवेश्वरोऽह-मिति तामेतां प्रत्यभिज्ञामुपपादयामि उप्रपन्नः स-म्भवतीति तत्समर्थाचरणेन प्रयोजनव्यापारेण सम्पा-दायामीत्यर्थः यदीश्वरस्वभाव एवात्मा प्रकाशते तर्हिकिमनेन प्रत्यभिज्ञाप्रदर्शनप्रयासेनेति चेत् तत्रायं समाधिःस्वप्रकाशतया सततमवभासमानेऽप्यात्मनि मायावशात्भागेन पूकाशते पूर्णतावभाससिद्धये दृकक्रियात्मकशक्त्या-विष्करणेन प्रत्यभिज्ञा प्रदर्श्यते तथा प्रयोगः अय-मात्मा परमेश्वरो भवितुमर्हति ज्ञानक्रियाशक्तिमत्त्वात्यो यावति ज्ञाता कर्त्ता ताबतीश्वरः प्रसिद्धेश्वर-वत् राजवद्वा आत्मा विश्वज्ञाता कर्त्ता तस्मादी-श्वरीऽयमिति अवयवपञ्चकस्याश्रयणं मायावादेन नैया-यिकमतस्य कक्षीकारात् तदुक्तमुदयकरसूनुना “कर्त्तरिज्ञातरि स्वात्मन्यादिसिद्धे महेश्वरे अजडात्मा निषेधंवा सिद्धिं वा विदधीत कः किन्तु मोहवशादस्मिन्दृष्टेऽप्यनुपलक्षिते शक्त्याविष्करणेनेयं प्रत्यभिज्ञोप-दर्श्यते” तथा हि “सर्वेषामिह भूतानां प्रतिष्ठाजीवदाश्रया ज्ञानं क्रिया भूतानां जीवतां जीवनंमतम् तत्र ज्ञानं स्वतः सिद्धं क्रिया काऽस्याश्रितासती परैरप्युपलक्ष्येत तयाऽन्यज्ज्ञानमुच्यते” इति ।“या चैषां पृतिभा तत्तत्पदार्थक्रमरूपिता अक्रमानन्द-चिद्रूपः प्रमाता महेश्वरा” इति सोमानन्द-नाथपादैरपि “सदा शिवात्मना वेत्ति सदा वेत्ति मदा-त्मना” इत्यादि ज्ञानाधिकारपरिसमाप्तावपि “तदैक्येनविना नास्ति संविदां लोकपद्धतिः प्रकाशैक्यात्तदेकत्वंमातैकः इति स्थितः एवार्थभृशत्वेन नियतेनमहेश्वरः विमर्श एव देवस्य शुद्धे ज्ञानक्रिये यतः” इति ।विवृतं चाभिनवगुप्ताचार्य्यैः “तमेव भान्तमनुभाति सर्वंतस्य भासा सर्वमिदं विभातीति” श्रुत्या प्रकाशचिद्रूप-महिम्ना सर्वस्य भावजातस्य भासकत्वमभ्युपेयते ततश्चविषयप्रकाशस्य नीलप्रकाशः पीतप्रकाश इति विषयोप-रागभेदाद्भेदः वस्तुतस्तु देशकालाकारसङ्कोचवैकल्यादभेद एव एव चैतन्यरूपः प्रकाशः प्रमातेत्युच्यते ।तथा पठितं शिवसूत्रेषु “चैतन्यमात्मेति” तस्यचिद्रूपत्वमनवच्छिन्नविमर्शत्वमनन्योन्मुस्वमानन्दैकघनत्वं मा-हेश्वर्य्य मिति पर्य्यायः एव ह्ययं भावात्मा विमर्शः शुद्धेपारमार्थिक्यौ ज्ञानक्रिये तत्र प्रकाशरूपता ज्ञानं, स्वतोजगन्निर्मावृत्वं क्रिया तच्च निरूपितं क्रियाधिकारे“एष चानन्दशक्तित्वादेवमाभासयत्यमून् भावानिच्छा-वशादेषा क्रिया निर्मातृताऽस्य तु” उपसंहारेऽपि “इत्थंतथा घटपटाद्याकारजगदात्मना तिष्ठासारेवमिच्छैवहेतुकर्तृकृता क्रियेति तस्मिन् सतीदमस्तीति कार्य्य-कारणतापि या साप्यपेक्षाविहीनानां जडानां नोप-षद्यते” इति न्यायेन यतो जडस्य कारणता वाअनीश्वरस्य चेतनस्यापि तस्मात्तेन तेन जगद्गतजन्मस्थि-त्यादिभावविकारत्तद्भेदक्रिथासहस्ररूपेण स्थातुमिच्छाःस्वतन्त्रस्य भगवती महेश्वरस्येच्छैवोत्तरोत्तरमच्छस्वभावाक्रिया विश्वकर्तृत्वं वोच्यते इति इच्छामात्रेण जगन्निर्माणमित्यत्र दृष्टान्तोऽपि स्पष्टं निर्दिष्टः “योगिनामपिमृद्वीजं विनैवेच्छावशेन यत् घटादि जायते तत्तत्स्थिरस्वार्थक्रियाकरम्” इति यदि घटादिकं प्रतिमृदाद्येव परमार्थतः कारणं स्यात्तर्हि कथं योगीच्छामा-त्रेण घटादिजन्म स्यात् अथोच्येत अन्य एव मृद्-बोजादिजन्या घटाङ्कुरादयो योगीच्छाजन्यास्त्वन्या एवेतितत्रापि बोध्यसे सामग्रीभेदात्तावत् कार्य्यभेद इति सर्व-जनप्रसिद्धम् ये तु वर्णयन्ति नोपादानं विना घटाद्युत्पत्तिरिति योगी त्विच्छया परमाणून् व्यापारयन् सङ्घ-टयतीति तेऽपि बोधनीयाः यदि परिदृष्टकार्य्यका-रणभावविपर्य्ययो लभ्येत तर्हि घटे मृद्दण्डचक्रादि-देहे स्त्रीपुरुषसंयोगादिःसर्वमपेक्ष्येत तथा योगीच्छास-मनन्तरसञ्जातघटदेहादिसम्भवो दुःसमर्थ एव स्यात् चेतनएव तु तथा भाति भगवान् भूरिभगो महादेवो निय-तनुवर्त्तवोल्लङ्घनघनंतरस्वातन्त्य इति पक्षे काचि-दनुपपत्तिः अत एवोक्तं वसुगुप्ताचार्य्यैः “निरुपा-दानसम्भारमभित्तावेव तन्वते जगज्जित्रं नमस्तस्मैकलाश्ल घ्याय शूलिने” इति ननु प्रत्यगात्मनः परमे-श्वराभिन्नत्वे संसारसम्बन्धः कथं भवेदिति चेत्तत्रोक्त-मागमाधिकारे “एष प्रमाता मायान्घः संसारी कर्म-बन्धनः विद्यादिज्ञापितैश्वर्य्यश्चिद्घनो मुक्त उच्यते”इति ननु प्रमेयस्य प्रमात्रभिन्नत्वे बद्धमुक्तयीः प्रमेयंप्रति को विशेषः? अत्राप्युत्तरमुक्तं तत्त्वार्थसंग्रहाधिकारे“मेयं साधारणं सुक्तः स्वात्माभेदेन भन्यते महेश्वरोयथा बद्धः पुनरत्यन्तभेदवदिति” नन्वात्मनः परमेश्वरत्वंस्वाभाविकं चेन्नार्थः प्रत्यभिज्ञाप्रार्थनया हि वीजमप्र-त्यभिज्ञातं सति सहकारिसाकल्ये अङ्कुरं नोत्पादयति ।तस्मात् कस्माद्वात्मप्रत्यभिज्ञाने निबंन्ध इति चेदुच्यते ।शृणु तावदिदं रहस्यं द्विविधा ह्यर्थक्रिया बाह्याङ्कुरा-दिका प्रमातृविश्रान्तिचमत्कारसारा प्रीत्यादिरूपा चतत्राद्या प्रत्यभिज्ञानं नापेक्षते द्वितीया तु तदषेक्षतएव इहाप्यहमीश्वर इत्येवम्भूतचमत्कारसारा प-रापरसिद्धिलक्षणजीवात्मैकत्वशक्तिविभूतिरूपाऽर्थक्रियेतिस्वरूपप्रत्यभिज्ञानमपेक्षणीयम् ननु प्रमातृविश्रान्ति-सारार्थक्रिया प्रत्यभिज्ञानेन विना दृष्टा सती तस्मित्दृष्टेति क्व दृष्टम् अत्रोच्यते नायकगुणगणसंश्रवण-प्रवृद्धानुरागा का चन कामिनी मदनविह्वला विरहक्ले-शमसहमाना मदनलेखावलम्वेन स्वावस्थानिवेदनानिविधत्ते तथा येगात्तन्निकटमटत्यपि तस्मिन्नवलोकितेऽपितदवंलोकनं तदीयगुणपरामर्शाभावे जनसाधारणत्वंप्राप्ते हृदयङ्गमभावं लभते यदा तु मूर्त्तिवचना-चदीयगुणपरामर्शं करोति तदा तत्क्षणमेव पूर्वभाव-मत्येति एवं स्वात्मनि विषश्वरात्मना भासमानेऽपि-तन्निर्भासनं तदीयगुणपरामशेविरहसमयं पूर्णं भाव नसम्पादयति यदा तु गुरुवचनादिना सर्वज्ञत्वसर्वकर्तृत्वा-दिलक्षणपमश्वरीत्कषपरामर्शो जायते तदा तत्क्षणमेवपूर्णात्मतालाभः तदुक्तं चतुर्थे विमर्शे “तैस्तैरप्युप-याचितैरुपनतस्तस्याः स्थितोऽप्यन्तिके कान्तो लोक-समान एवमपरिज्ञाता रन्तं यथा लोकस्यैष तथा-नपेक्षितगुणः स्वात्मापि विश्वेश्वरो नैवायं निजवैभवायतदियं तत्प्रत्यभिज्ञोदिता” इति अभिनवगुप्तादिभि-राचार्य्यौर्विहितप्रतानोऽपि अयमर्थः संग्रहमुपक्रममाणै-रस्माभिर्बिस्तरभिया प्रतानित इति सर्वं शिवम्”