| YouTube Channel

प्रत्यनीकः (pratyanIkaH)

 
Apte Hindi
Hindi
प्रत्यनीकः
पुं*
प्रति-अनीकः -
शत्रु
शब्दकल्पद्रुमः
Sanskrit
प्रत्यनीकः,
पुं,
(प्रतिगतः अनीकं युद्धमिति ।)शत्रुः इति हेमचन्द्रः ३९२
(प्रति-पक्षः विरोधी यथा, महाभारते ।१० ३६ ।“यस्य यन्ता हृषीकेशो योद्धा यस्य धनञ्जयः ।रथस्य तस्य कः संख्ये प्रत्यनीको भवेद्रथः
”यथा सुश्रुते सूत्रस्थाने ४६ अध्याये ।“अतीवायतयामास्तु क्षपा येष्वृतुषु स्मृताः ।तेषु तत्प्रत्यनीकाढ्यं भुञ्जीतप्रातरेव तु
”क्ली, प्रतिपक्षसैन्यम् यथा, भगवद्गीतायाम् ।११ ३२ ।“ऋतेऽपि त्वां भविष्यन्ति सर्व्वेयेऽवस्थिताः प्रत्यनीकेषु योधाः
”अलङ्कारविशेषः यदुक्तं काव्यप्रकाशे ।“प्रतिपक्षमशक्तेन प्रतिकर्त्तुं तिरष्क्रिया ।या तदीयस्य तत्स्तुत्यै प्रत्यनीकं तदुच्यते
”उदाहरणं यथा, --“त्वं विनिर्ज्जितमनोभवरूपःसा सुन्दर ! भवत्यनुरक्ता ।पञ्चभिर्युगपदेव शरैस्तांतापयत्यनुशयादिव कामः
”)