| YouTube Channel

प्रत्यङ्गं (pratyaGgaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रत्यङ्गं,
क्ली,
(प्रतिगतमङ्गमिति ।) अवयव-विशेषः यथा, शब्दचन्द्रिकायाम् ।“प्रत्यङ्गं कर्णनासाक्षिलिङ्गाङ्गानिकरादिकम्
”(यथा, रामायणे ७४ १४ ।“अङ्गप्रत्यङ्गजः पुत्त्रो हृदयाच्चापि जायते ।तस्मात् प्रियतरो मातुः प्रिया एव तुबान्धवाः
”“अतः परं प्रत्यङ्गानि वक्ष्यन्ते मस्तकोदर-पृष्ठनाभिललाटनासाचिवुकवस्तिग्रीवा इत्येताएकैकाः कर्णनेत्रनासाभ्रूशङ्खांसगण्डकक्षस्तन-वृषपार्श्वस्फिग्जानुबाहूरुप्रभृतयो द्वे द्बे विंशति-रङ्गुलयः स्रोतांसि वक्ष्यमाणानि एष-प्रत्यङ्गविभाग उक्तः
इति सुश्रुते शारीर-स्थाने पञ्चमेऽध्याये
अप्रधानम् यथा, निरुक्ते ।“एक आत्मा बहुधा स्तूयते एकस्यात्मनोऽन्येदेवाः प्रत्यङ्गानि भवन्त्यपि
अङ्गं अङ्गं प्रति ।यथा, गीतगोविन्दे ११ ११ ।“ध्वान्तं नीलनिचोलचारुसुदृशां प्रत्यङ्गमालि-ङ्गति
”तथा मनुः २०८ ।“यस्मिन् कर्म्मणि यास्तु स्युरुक्ताः प्रत्यङ्ग-दक्षिणाः ।स एव ता आददीत भजेरन् सर्व्व एव वा
”नृपविशेषे,
पुं,
यथा, महाभारते २३५ ।“महापुराणसम्भाव्यः प्रत्यङ्गः परहा श्रुतिः ।एते चान्ये राजानः शतशोऽथ सहस्रशः ।श्रूयन्तेऽयुतशश्चान्ये संख्याताश्चैव पद्मशः
”)