| YouTube Channel

प्रत्यङ् (pratyaG)

 
Monier Williams Cologne
English
प्रत्यङ् in comp. for °त्यञ्च्.
शब्दकल्पद्रुमः
Sanskrit
प्रत्यङ्, [ञ्च्] त्रि, (प्रत्यञ्चतीति प्रति + अनच्+ क्विन् ।) पश्चिमदिक् पश्चिमदेशः पश्चिम-कालः प्रतिषूर्ब्बाञ्चधातोः कर्त्तरि विचप्रत्ययेननिष्पन्नः इति व्याकरणम्
(यथा, शतपथ-ब्राह्मणे १२ ३५ ।“ऋतवः सर्व्वे पराञ्चः सर्व्वे प्रत्यञ्चः
”प्रतिगतः अभिमुखः यथा, ऋग्वेदे ५० ।“प्रत्यङ्देवानां विशः प्रत्यङ्ङुदेषि मानुषान् ।प्रत्यङ् विश्वं स्वर्दृशे
”“हे सूर्य्य त्वं देवानां विशो मरुन्नामकान्देवान् मरुतो वै देवानां विश इति श्रुत्य-न्तरात् तान् मरुत्संज्ञकान् देवान् प्रत्यङ्ङु-देषि तान् प्रतिगच्छन्नुदयं प्राप्नोषि तेषा-मभिमुखं यथा भवति तथेत्यर्थः तथा मानु-षान् मनुष्यान् प्रत्यङ्ङुदेषि तेऽपि यथास्म-दभिमुखमेव सूर्य्य उदतीति मन्यन्ते तथाविश्वं व्याप्तं स्वः स्वर्लोकं दृशे द्रष्टुं प्रत्यङ्ङु-देषि यथा स्वर्लोकवासिनो जनाः सर्व्वेऽपिस्वस्वाभिमुख्येन सूर्य्यं पश्यन्तीति ।” इतितद्भाष्ये सायनः
अन्तर्यामी इति श्रीधर-स्वामी
यथा, भागवते २० ।“प्रत्यञ्चमादिपुरुषमुपतस्थुः समाहिताः
”)