| YouTube Channel

प्रत्यक्षलवण (pratyakSalavaNa)

 
वाचस्पत्यम्
Sanskrit
प्रत्यक्षलवण
न०
प्रत्यक्षं पृथक्तयोपलभ्यमानं लवणम् ।पाकनिष्पत्त्युत्तरं व्यञ्जनादौ दीयमानलवणे तस्यश्राद्धे अदेयतोक्ता यथा श्रा० त० ब्रह्मपु० “सिद्धाः कृताश्चये भक्ताः प्रत्यक्षलवणीकृताः” श्राद्धे तस्य वर्ज्यतयोक्ते“सिद्धाः कृताः सिद्ध्युत्तरकालं प्रत्यक्षलवणप्रक्षेपकृता”श्रा० त० रघु० तत्रैव बिष्णुना श्राद्धवर्ज्येषु “आरक्ता-स्यैव निर्यासाः प्रत्यक्षलवणानि च” इत्युक्तम् शु० त०ब्रह्मपु० “सैन्धवं लवणं चैव यच्च सामुद्रकं भवेत् पवित्रेपरमे ह्येते प्रत्यक्षेऽपि नित्यशः” “पृथक्तयोप-लभ्यमानं लवणं प्रत्यक्षलवणं तु व्यञ्जनादिसंस्कारकंसंस्कारप्रत्यक्षयोर्भेदात्” शु० त० रघु० वस्तुतः सैन्धवादे-रपि प्रत्यक्षलवणत्वेऽभक्ष्यता आर्द्रकादियोगे प्रतिप्रसवः नतु सिद्ध्युत्तरकालप्रक्षेपेऽपि प्रतिप्रसवः अतः सिद्ध्युत्तरकालं लवणमात्रस्यैव प्रक्षेपे सर्वत्र भक्षणे दाने चनिषेधः इति बोध्यम्