| YouTube Channel

प्रत्यक्षं (pratyakSaM)

 
Hindi
Hindi
आँख से पहले खड़े
शब्दकल्पद्रुमः
Sanskrit
प्रत्यक्षं, त्रि, (प्रतिगतमक्षि इन्द्रियं यत्र समासेअच् यद्वा, प्रत्यक्षमस्त्यस्येति अर्श आदि-त्वात् अच् ।) इन्द्रियग्राह्यम् तत्पर्य्यायः ।ऐन्द्रियकम् इत्यमरः ७९
(यथा, ब्रह्मवैवर्त्ते ५२ ।“यत्पादपद्मनखरदृष्टये चात्मशुद्धये ।न दृष्टञ्च स्वप्नेऽपि प्रत्यक्षस्यापि का कथा
”)अनुभवविशेषः तत् षड्विधम् घ्राणजम् १रासनम् श्रावणम् चाक्षुषम् स्पार्श-नम् मानसम् निर्व्विकल्पकसविकल्पक-भेदेन प्रत्येकं द्विविधम् निर्व्विकल्पकन्तु अती-न्द्रियम् सविकल्पकं मनोग्राह्यम् षड्विध-प्रत्यक्षे आश्रयस्य महत्त्वं कारणम् इन्द्रियंकरणम् विषयेण सह इन्द्रियसन्निकर्षः अस्यव्यापारः यथा, भाषापरिच्छेदे ।“घ्राणजादिप्रभेदेन प्रत्यक्षं षड्विधं मतम् ।घ्राणस्य गोचरो गन्धो गन्धत्वादिरपि स्मृतः ।तथा रसो रसज्ञायास्तथा शब्दोऽपि श्रुतेः
उद्भूतरूपं नयनस्य गोचरोद्रव्याणि तद्वन्ति पृथक्त्वसंख्ये ।विभागसंयोगपरापरत्व-स्नेहद्रवत्वं परिमाणयुक्तम्
क्रियां जातिं योग्यवृत्तिं समवायञ्च तादृशम् ।गृह्णाति चक्षुःसम्बन्धादालोकोद्भूतरूपयोः
उद्भूतस्पर्शवद्द्रव्यं गोचरः सोऽपि त्वचः ।रूपान्यच्चक्षुषो योग्यं रूपमत्रापि कारणम्
द्रव्याध्यक्षे त्वचो योगो मनसा ज्ञानकारणम् ।मनोग्राह्यं सुखं दुःखमिच्छा द्बेषोमतिः कृतिः
ज्ञानं यन्निर्व्विकल्पाख्यं तदतीन्द्रियमिष्यते ।महत्त्वं षड्विधे हेतुरिन्द्रियं करणं मतम्
विषयेन्द्रियसम्बन्धो व्यापारः सोऽपि षड्विधः
”(यथा, विद्वन्मोदतरङ्गिण्याम् ।“देवानर्च्चय सञ्चय प्रतिदिनं पुण्यानि जन्मा-न्तरेभोगाय प्रयतो महाक्रतुविधौ स्वर्गाय हिंसांकुरु ।इत्थं वञ्चकवञ्चनोत्पथगता बुद्धिस्तदेया-चिरा-दप्रत्यक्षपदार्थसार्थरहितं पन्थानमारोहतु
”व्य, अक्षि अक्षि प्रतीति वीप्सायां यथार्थत्वेनसमासः अक्ष्णोराभिमुख्यमित्यर्थे “लक्षणे-नाभिप्रती आभिमुख्ये ।” १४ इत्य-व्ययीभावः “अव्ययीभावे शरत्प्रभृतिभ्यः ।”५ १०७ इत्यत्र “प्रतिपरसमनुभ्यो-ऽक्ष्णः ।” इति टच् इन्द्रियलक्षणम् अप-रोक्षम् यथा, मनुः ५२ ।“फलन्त्वनभिसन्धाय क्षेत्रिणां बीजिनान्तथा ।प्रत्यक्षं क्षेत्रिणामर्थो बीजाद्योनिर्गरीयसी
”)