| YouTube Channel

प्रत्यकचेतन (pratyakacetana)

 
वाचस्पत्यम्
Sanskrit
प्रत्यकचेतन
पु०
प्रतीपं विपरीतमञ्चति जानाति प्रति + अन्च०क्विप् कर्म० सांख्यमतसिद्धे पुरुषे “ततः प्रत्यक्-चेतनाधिगमः अन्तरायाभावश्च” योगसू० भाष्यम् ।प्रत्येकम् अञ्चति अश्नुते कर्म० सर्वज्ञे अन्तरात्मनि पर-मेश्वरे तदभिन्ने जीवे प्रत्यच्शब्दे दृश्यम्