| YouTube Channel

प्रतूः-प्रतुरौ-प्रतुरः (pratUH-praturau-praturaH)

 
कृदन्तरूपमाला
Sanskrit
1 {@“तुर त्वरणे”@} 2 छान्दसः।
तोरकः-रिका, तोरकः-रिका, तुतुरिषकः-तुतोरिषकः-षिका, तोतुरकः-रिका
तोरिता-त्री, तोरयिता-त्री, तुतुरिषिता-तुतोरिषिता-त्री, तोतुरिता-त्री
3 तुतुरत्-ती, तोरयन्-न्ती, तुतुरिषन्-तुतोरिषन्-न्ती
तोरिष्यन्-न्ती-ती, तोरयिष्यन्, तुतुरिषिष्यन्-तुतोरिषिष्यन्-न्ती-ती
तोरयमाणः, तोरयिष्य- माणः, 4 तोतूर्यमाणः, तोतुरिष्यमाणः
5 प्रतूः-प्रतुरौ-प्रतुरः
इत्यादीनि सर्वाण्यपि रूपाणि तौदादिककुरधातुवत् 6 बोध्यानि।
7 तुरः 8।
प्रतूर्य।
प्रासङ्गिक्यः
01
=>
(७५५)
02
=>
(३-जुहोत्यादिः-११०२। अक। सेट्। पर।)
03
=>
[[१। धातोरस्य जुहोत्यादित्वात् ‘जुहोत्यादिभ्यः श्लुः’ (२-४-७५) इति शपः श्लुः। ‘श्लौ’ (६-१-१७) इति द्विर्वचनम्। ‘सार्वधातुकमपित्’ (१-२-४) इति श्लोर्ङिद्वद्भावादङ्गस्य गुणो न। ‘नाभ्यस्ताच्छतुः’ (७-१-७८) इति नुम्निषेधः।]]
04
=>
[[२। ‘हलि च’ (८-२-७७) इति दीर्घः।]]
05
=>
[[३। क्विपि, ‘र्वोरुपधाया दीर्घ इकः’ (८-२-७६) इति दीर्घः। विसर्गः।]]
06
=>
(२२९)
07
=>
[[४। ‘इगुपधज्ञा--’ (३-१-१३५) इति कर्तरि कप्रत्ययः।]]
08
=>
[[B। ‘घर्मोष्मभिस्तत्र समारताग्रे नभस्तुरैस्तैः प्रधने प्रवीणैः।।’ धा। का। २। ५५।]]
1 {@“तुर्वी हिंसायाम्”@} 2 3 तूर्वकः-र्विका, तूर्वकः-र्विका, तुतूर्विषकः-षिका, तोतूर्वकः-र्विका
तूर्विता-त्री, तूर्वयिता-त्री, तुतूर्विषिता-त्री, तोतूर्विता-त्री
तूर्वन्-न्ती, तूर्वयन्-न्ती, तुतूर्विषन्-न्ती
-- तूर्विष्यन्-न्ती-ती, तूर्वयिष्यन्-न्ती-ती, तुतूर्विषिष्यन्-न्ती ती
-- -- तूर्वयमाणः, तूर्वयिष्यमाणः, -- तोतूर्व्यमाणः, तोतूर्विष्यमाणः
4 प्रतूः-प्रतुरौ-प्रतुरः
-- -- -- 5 6 तूर्णम्- 7 तूर्णः-तूर्णवान्, तूर्वितः, तुतूर्विषितः, तोतूर्वितः-तवान्
तूर्वः, तूर्वः, तुतूर्विषुः, तोतूर्वः
तूर्वितव्यम्, तूर्वयितव्यम्, तुतूर्विषितव्यम्, तोतूर्वितव्यम्
तूर्वणीयम्, तूर्वणीयम्, तुतूर्विषणीयम्, तोतूर्वणीयम्
8 तूर्व्यम्, तूर्व्यम्, तुतूर्विष्यम्, तोतूर्व्यम्
-- ईषर्त्तूवः-दुस्तूर्वः-सुतूर्वः
-- -- -- तूर्व्यमाणः, तूर्व्यमाणः, तुतूर्विष्यमाणः, तोतूर्व्यमाणः
तूर्वः, तूर्वः, तुतूर्विषः, तोतूर्वः
तूर्वितुम्, तूर्वयितुम्, तुतूर्विषितुम्, तोतूर्वितुम्
9 तूर्वा, तूर्वणा, तुतूर्विषा, तोतूर्वा
तूर्वणम्, तूर्वणम्, तुतूर्विषणम्, तोतूर्वणम्
तूर्वित्वा, तूर्वयित्वा, तुतूर्विषित्वा, तोतूर्वित्वा
प्रतूर्व्य, प्रतूर्व्य, प्रतुतूर्विष्य, प्रतोतूर्व्यं
तूर्वम् २, तूर्वित्वा २, तूर्वम् २, तूर्वयित्वा २, तूतूर्विषम् २, तूतूर्विषित्वा २, तोतूर्वम्
तोतूर्वित्वा २।
प्रासङ्गिक्यः
01
=>
(७५६)
02
=>
(१-भ्वादिः-५७०-सक। सेट्। पर)
03
=>
[[५। ‘उपधायां च’ (८-२-७८) इति सर्वत्र दीर्घः।]]
04
=>
[[६। ‘राल्लोपः’ (६-४-२१) इति वकारस्य लोपे, ‘र्वोरुपधाया दीर्घ इकः’ (८-२-७६) इति दीर्घे, विसर्गः।]]
05
=>
[पृष्ठम्०६७४+ २६]
06
=>
[[१। ‘श्वीदितो निष्ठायाम्’ (७-२-१४) इतीण्णिषेधः। ‘राल्लोपः’ (६-४-२१) इति वकारस्य लोपः। ‘हलि च’ (८-२-७७) इति दीर्घः। ‘रदाभ्यां निष्ठातो नः--’ (८-२-४२) इति निष्ठानत्वम्। णत्वम्।]]
07
=>
[[आ। ‘प्रक्ष्यूतगोपीशुचमूर्णपूतनं तूर्णानसं थूर्णबकादिदानवम्।’ धा। का। १। ७३।]]
08
=>
[[२। ‘हलो यमां यमि लोपः’ (८-४-६४) इत्यत्र यथासंख्यविज्ञानान्न लोपः।]]
09
=>
[[३। ‘गुरोश्च हलः’ (३-३-१०३) इति स्त्रियामकारप्रत्ययः।]]