| YouTube Channel

प्रतीपं (pratIpaM)

 
शब्दकल्पद्रुमः
Sanskrit
प्रतीपं, त्रि, (प्रतिकूला आपो यस्मिन् “ऋक्-पूरब्धूःपथामानक्षे ।” ७४ इतिअप्रत्ययः “द्व्यन्तरुपसर्गेभ्योऽप ईत् ।” ।९३ इति ईत् ।) प्रतिकूलम् इति हेम-चन्द्रः १०१
(यथा, भागवते १४ ।“क एनमत्रोपजुहाव जिह्मंदास्याः सुतं यद्बलिनैव पुष्टः ।तस्मिन् प्रतीपः परकृत्य आस्तेनिर्व्वास्यतामाशु पुराच्छ्वसानः
”क्ली, अर्थालङ्कारभेदः तस्य लक्षणादिवंसाहित्यदर्पणे १० परिच्छेदे उक्तम् यथा, --“प्रसिद्धस्योपमानस्योपमेयत्वप्रकल्पनम् ।निष्फलत्वाभिधानं वा प्रतीपमिति कथ्यते
क्रमेण उदाहरणं यथा, --यत्त्वन्नेत्रसमानकान्तिसलिले मग्नं तदिन्दीवरंमेघैरन्तरितं प्रिये ! तव मुखच्छायानुकारीशशी ।येऽपि त्वद्गमनानुकूलगतयस्ते राजहंसा गता-स्तत्सादृश्यविनोदमात्रमपि मे दैवेन क्षन्यते
तद्वक्त्रं यदि मुद्रिता शशिकथा हा हेम साचेद्द्युति-स्तच्चक्षुर्यदि हारितं कुवलयैस्तच्चेत् स्मितं कासुधा ।धिक्कन्दर्पधनुर्भ्रुवौ यदि ते किंवा बहु ब्रूमहेयत्सत्यं पुनरुक्तवस्तुविमुखः सर्गक्रमो वेधसः
अत्र वक्त्रादिभिरेव चन्द्रादीनां शोभातिवह-नात् तेषां निष्फलत्वम् ।उक्त्वा चात्यन्तमुत्कर्षमत्युत्कृष्टस्य वस्तुनः ।कल्पितेऽप्युपमानत्वे प्रतीपं केचिदूचिरे
यथा, --अहमेव गुरुः सुदारुणाना-मिति हालाहल ! तात ! मास्म दृप्यः ।ननु सन्ति भवादृशानि भूयोभुवनेऽस्मिन् वचनानि दुर्ज्जनानाम्
अत्र प्रथमपादे उत्कर्षातिशय उक्तः तदनुक्तौतु नायमलङ्कारः
”)