| YouTube Channel

प्रतिसूर्य्यकः (pratisUryyakaH)

 
शब्दकल्पद्रुमः
Sanskrit
प्रतिसूर्य्यकः,
पुं,
(प्रतिसूर्य्य + स्वार्थे कन् ।) कृक-लासः (यथा, उत्तररामचरिते द्वितीयेऽङ्के ।“सीमानः प्रदरोदरेषु विलसत्स्वल्पाम्भसोया स्वयंतृष्यद्भिः प्रतिसूर्य्यकैरजगरस्वेदद्रवः पीयते
”तद्दष्टस्य चिकित्सा सुश्रुते कल्पस्थाने ८अध्याये उक्ता यथा, --“प्रतिसूर्य्यकदष्टानां सर्पदष्टवदाचरेत्
”)उपसूर्य्यकमण्डलम् इति विश्वः
(अस्य शुभा-शुभलक्षणम् यथा, बृहत्संहितायाम् ३७ १-३ ।“प्रतिसूर्य्यकः प्रशस्तोदिवसकृदृतुवर्णसप्रभः स्निग्धः ।वैदूर्य्यनिभः स्वच्छःशुक्लश्च क्षेमसौभिक्षः
पीतो व्याधिं जनय-त्यशोकरूपश्च शस्त्रकोपाय ।प्रतिसूर्य्याणां मालादस्युभयातङ्कनृपहन्त्री
दिवसकृतः प्रतिसूर्य्योजलकृदुदग्दक्षिणे स्थितोऽनिलकृत् ।उभयस्थः सलिलभयंनृपमुपरि निहन्त्यधो जनहा
”)