| YouTube Channel

प्रतिसर्म (pratisarma)

 
वाचस्पत्यम्
Sanskrit
प्रतिसर्म
पु०
प्रतिरूपः प्रतिकूली वा सर्गः ब्रह्मणः सृष्टि-तुल्यायां मरीच्यादिसृष्टौ प्रलये “आदिसर्गस्तु यःसूत! कथितो विस्तरैण प्रतिसर्गश्च ये येषामधिपा-स्तान् वदस्व नः” इति प्रश्ने प्रतिसर्ग उक्तः कालिकापु० ।“प्रतिसर्गे तु मृत्पिण्डं हेमपिण्डं वा धटकुण्डलमुकु-टादयो विशन्तोऽव्यक्तीभवन्ति तत्कारणरूपमेवाभि-व्यक्तं कार्य्यमपेक्ष्याव्यक्तम् भवति एवं पृथिव्यादयस्त-न्मात्राणि विशन्तः स्वापेक्षया तन्मात्राण्यव्यक्तयन्ति एवंतन्मात्राण्यहङ्कारं विशन्ति अहङ्कारमव्यक्तयन्ति एव-महङ्कारो महान्तमाविशन्महान्तमव्यक्तयति महान् प्र-कृतिं स्वकारणं विशन् प्रकृतिमव्यक्तयति प्रकृतेस्तु नक्वचिन्निवेश इति सा सर्वकार्य्याणामव्यक्तमेव” सा० त० कौ०