प्रतिसर्गः (pratisargaH)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
Apte
Englishप्रतिसर्गः [pratisargḥ], 1 Secondary creation (as by the agents of one Supreme Being)
संग्रहेण मया ख्यातः प्रतिसर्गस्तबानघ 4.8.5
आदिसर्गस्तु यः सूत कथितो विस्तरेण च । प्रति- सर्गश्च ये येषामधिपास्तान् वदस्व नः ॥ Kālikā
Dissolution.
Continued creation out of primitive matter.
The portion of a Purāṇa which treats of the destruction and renovation of the world
सर्गश्च प्रतिसर्गश्च वंशो मन्वन्तराणि च । वंशानुचरितं चैव पुराणं पञ्चलक्षणम् ॥
Apte 1890
EnglishApte Hindi
Hindiप्रतिसर्गः
- प्रति+सृज्+घञ्
गौण रचना
प्रतिसर्गः
- प्रति+सृज्+घञ्
"विघ्टन, प्रलय"
Help us improve! Let us know about any improvements, bugs, or suggestions you have. Thanks.Click here for Feedback Form
Wordnet
Sanskrit प्रलयः, युगान्तः, कल्पः, कल्पान्तः, लयः, प्रतिसर्गः, क्षयः, प्रक्षयः, संवर्तः, संक्षयः, विलयः, प्रत्सञ्चरः
हिन्दूनां जगद्विलयस्य अवधारणाविशेषः। युगानाम् अन्तः यत्र युगानाम् अन्तो वा यस्मिन् जगद् प्रलीयते।
"ज्ञानाद् आत्यन्तिकः प्रोक्तो योगिनः परमात्मनि प्रलयः प्रतिसर्गोऽयं काल-चिन्तापरैर्-द्वजैः।"
शब्दकल्पद्रुमः
Sanskritप्रतिसर्गः, (प्रतिरूपः सर्गः ।) ब्रह्मणः सृष्ट्य-नन्तरं दक्षादीनां सृष्टिः । स च पुराणपञ्च-लक्षणान्तर्गतलक्षणविशेषः । यथा, --ऋषय ऊचुः ।“आदिसर्गस्त्वया सूत ! कथितो विस्तरेण च ।प्रतिसर्गश्च ये येषामधिपास्तान् वदस्व नः ॥
सूत उवाच ।यदाभिषिक्तः सकलाधिराज्येपृथुर्धरित्र्यामधिपो बभूव ।तदौषधीनामधिपञ्चकारयज्ञव्रतानां तपसाञ्च सोमम् ॥
नक्षत्रताराद्विजवृक्षगुल्म-लतावितानस्य च रुक्मगर्भः ।अपामधीशं वरुणं धनानांराज्ञां प्रभुं वैश्रवणञ्च तद्वत् ॥
विष्णुं रवीणामधिपं वसूना-मग्निञ्च लोकाधिपतिञ्चकार ।प्रजापतीनामधिपञ्च दक्षंचकारं शक्रं मरुतामधीशम् ॥
दैत्याधिपानामथ दानवानांप्रह्लादमीशञ्च यमं पितॄणाम् ।पिशाचरक्षःपशुभूतयक्ष-वेतालराजन्त्वथ शूलपाणिम् ॥
प्रालेयशैलञ्च पतिं गिरीणा-मीशं समुद्रं ससरिन्नदानाम् ।गन्धर्व्वविद्याधरकिन्नराणा-मीशं पुनश्चित्ररथञ्चकार ॥
नागाधिपं वासुकिमुग्रवीर्य्यंसर्पाधिपं तक्षकमादिदेश ।दिग्वारणानामधिपञ्चकारगजेन्द्रमैरावतनामधेयम् ॥
सुपर्णमीशं पततामथाश्व-राजानमुच्चैःश्रवसञ्चकार ।सिंहं मृगाणां वृषभं गवाञ्चप्लक्षं पुनः सर्व्ववनस्पतीनाम् ॥
पितामहः पूर्व्वमथाभ्यषिञ्च-देतान् पुनः पूर्व्वदिगाधिनाथान् ।पूर्व्वेण दिक्पालमथाभ्यषिञ्च-न्नाम्ना सुधर्म्माणमरातिकेतुम् ॥
ततोऽधिपन्दक्षिणतश्चकारसर्व्वेश्वरं शङ्खपदाभिधानम् ।सकेतुमन्तं दिगधीशमीश-ञ्चकार पश्चाद्भुवनाण्डगर्भः ॥
हिरण्यरीमाणमुदग्दिगीशंप्रजापतिं मेरुसुतञ्चकार ।अद्यापि कुर्व्वन्ति दिशामधीशाःशब्दं वहन्तस्तु भुबोऽभिरक्षाम् ॥
चतुर्भिरेभिः पृथुनामधेयोनृपोऽभिषिक्तः प्रथमं पृथिव्याम् ।मन्वन्तरे चापि गते त एववैवस्वतञ्चक्रुरिमं पृथिव्याम् ॥
गतेऽन्तरे चाक्षुषनामधेयेवैवस्वताख्ये च पुनः प्रवृत्ते ।प्रजापतिः सोऽस्य चराचरस्यबभूव सूर्य्यान्वयवंशचिह्नः ॥
”इति मात्स्ये आधिपत्यसेचनं मन्वन्तराधिपत्यंनाम ८ अध्यायः ॥
* ॥
अपि च ।मार्कण्डेय उवाच ।“वाराहोऽयं श्रुतः सर्गो वराहाधिष्ठितो यतः ।प्रतिसर्गः स्मृतः सोवै दक्षाद्यैर्यः कृतः पृथक् ॥
रुद्रो विराड् मनुर्दक्षो मरीच्याद्यास्तु मानसाः ।यं यं सर्गं पृथक् चक्रुः प्रतिसर्गः स स स्मृतः ॥
विराट्सुतोऽसृजद्वंश्यान् मनून् यैर्विततं जगत् ।मनुः सप्त मनून् सृष्ट्वा चकार बहुशः प्रजाः ॥
प्रजाः सिसृक्षुः स मनुर्योऽसौ स्वायम्भुवाह्वयः ।असृजत् प्रथमं षड्वै मनून् षडपरान् सुतान् ॥
स्वारोचिषश्चोत्तमिश्च तामसो रैवतस्तथा ।चाक्षुषश्च महातेजा विवस्वान् परतस्तथा ॥
यक्षरक्षःपिशाचांश्च नागगन्धर्व्वकिन्नरान् ।विद्याधरानप्सरसः सिद्धान् भूतगणान् बहून् ॥
मेघान् सविद्युतो वृक्षान् लतागुल्मतृणादिकान् ।मत्स्यान् पशूं श्च कीटांश्च जलजान् स्थलजां-स्तथा ॥
एतादृशानि सर्व्वा मनुः स्वायम्भुवः सुतैः ।सहितः ससृजे सोऽस्य प्रतिसर्गः प्रकीर्त्तितः ॥
अन्ये षण्मनवो ये वै तेऽपि स्वे स्वेऽन्तरेऽन्तरे ।प्रतिसर्गं स्वयं कृत्वा प्राप्नुवन्ति चराचरम् ॥
यज्ञस्य संभृतं यज्ञान् यूपं प्राग्वंशमेव च ।धर्म्माधर्म्मौ गुणान् सर्व्वान् वराहः सृष्टवान्पुरा ॥
सुतान् बहून् समुत्पाद्य दक्षो देवर्षिसत्तमान् ।महर्षीन् सोमपार्दींश्च बहून् पितृगणांस्तथा ॥
सृष्टिं प्रवर्त्तयामास प्रतिसर्गोऽस्य स स्मृतः ।अजायन्त मुखाद्विप्राःक्षत्त्रिया बाहुयुग्मतः ॥
ऊर्व्वोर्व्वैश्याः पदः शूद्राश्चतुर्वेदाश्चतुर्मुखात् ।ब्रह्मणः प्रतिसर्गोऽयं ब्राह्मः सर्गस्ततः स्मृतः ॥
मरीचेः कश्यपो जातः कश्यपात् सकलं जगत् ।देवा दैत्या दानवाश्च तस्य सर्गः प्रकीर्त्तितः ॥
अत्रेर्नेत्रादभूच्चन्द्रश्चन्द्रवंशस्ततोऽभवत् ।तेन सर्व्वं जगद्व्याप्तं सोमसर्गः प्रकीर्त्तितः ॥
अथर्व्वाङ्गिरसी कृत्वा पुत्त्राश्च बहुशोऽपरे ।मन्त्रयन्त्रादयो ये वै ते सर्व्वेऽङ्गिरसः स्मृताः ॥
आज्यपाख्याः पुलस्त्यस्य पुत्त्राश्चान्ये चराक्षसाः ।प्रतिसर्गाः पुलस्त्यस्य बलवीर्य्यसमन्विताः ॥
काद्रवेया गजा अश्वाः प्रजा बहुतरास्तथा ।ससृजे पुलहेनैष सर्गस्तस्य प्रकीर्त्तितः ॥
क्रतोः पुत्त्रा वालिखिल्लाः सर्व्वज्ञा भूरितेजसः ।अष्टाशीतिसहस्राणि ज्वलद्भास्करसन्निभाः ॥
प्रचेतसः सुताः सर्व्वे ये वै प्राचेतसाः स्मृताः ।षडशीतिसहस्राणि पावकोपमतेजसः ॥
सुकालिनो वशिष्ठस्य पुत्त्राश्चान्येऽथ योगिनः ।आरुन्धतेयाः पञ्चाशद्वाशिष्ठः सर्ग उच्यतेभृगोश्च भार्गवा जाता ये वै दैत्यपुरोधसः ।कवयस्ते महाप्राज्ञास्तैर्व्याप्तमखिलं जगत् ॥
नारदात्तारका जाता विमानानि तथैव च ।प्रश्नोत्तरास्तथैवान्ये नृत्यं गीतञ्च कौतुकम् ॥
एते दक्षमरीच्याद्याः कृतदारान् बहून् सुतान्उत्पाद्योत्पाद्य पृथिवीं दिवञ्च समपूरयन् ॥
तेषां सुतेभ्यश्च सुतास्तत्सुतेभ्यः परे सुताः ।समुत्पन्नाः प्रवर्त्तन्ते येऽद्यापि भुवनेषु वै ॥
विष्णोस्तु चक्षुषः सूर्य्यो मनसश्चन्द्रमाः स्मृतः ।श्रोत्राद्वायुः समुद्भूतो मुखादग्निरजायत ॥
प्रतिसर्गो ह्ययं विष्णोस्तथा चापि दिशो दश ।सृष्ट्यर्थञ्चन्द्रमाः पश्चादत्रिनेत्रादवातरत् ॥
भास्करः कश्यपाज्जातो भार्य्ययास्य समर्च्चितः ।रुद्राश्च बहवो जाता भूतग्रामाश्चतुर्व्विधाः ॥
श्ववराहोष्ट्ररूपाश्च प्लवगोमायुगोमुखाः ।ऋक्षमार्जारवदनाः सिंहव्याध्रमुखाः परे ॥
नानाशस्त्रधराः सर्व्वे नानारूपा महाबलाः ।एष वः प्रतिसर्गोऽपि कथितो द्बिजसत्तमाः ॥
”इति कालिकापुराणे २६ अध्यायः ॥
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
