प्रतिविम्बवाद (prativimbavAda)
This section shows the AI summary for the selected word, generated by referencing all available dictionaries. This feature is available only for logged-in users.
Warning!
This feature is only for logged in users. Please login to have full access to Kosha.
वाचस्पत्यम्
Sanskritप्रतिविम्बवाद ६ । जीवस्य ईश्वरप्रतिविम्यतास्थाप-नार्थे वादे । द्विधा हि वेदान्तिमते जीवश्वरयोर्विभाग-कल्पना प्रतिविम्बभावेन तत्तदवच्छिन्नमावेन च । तत्राद्यःपक्षः विवरणानुसारिभिर्मन्यते द्वितीयः पक्षीऽन्यैर्मन्यतेतदेतत् सिद्धान्तलेशे प्रदर्शितं यथाविवरणानुसारिणस्त्वाहुः । “विभेदजनकेऽज्ञाने नाशमा-त्यन्तिकं गते । आत्मनो ब्रह्मणोभेदमसन्तं कः करिष्य-तीति” स्मृत्या एकस्यैवाज्ञानस्य जीवेश्वरविभागोषाधित्व-प्रतिपादनाद्विम्बप्रतिविम्बभावेन जीवेश्वरयोर्विभागः । नी-भयीरपि प्रतिविम्बभाबेन उपाधिद्वयमन्तरेणोभयोः प्रति-विम्बत्वायोगात् । तत्रापि प्रतिविम्बो जीवः विम्बस्थानीयईश्वरः । तथा सत्येव लौकिकविम्बप्रतिविम्बदृष्टान्तेनस्वातन्त्यमीश्वरस्य तत्पारतन्त्र्यं जीवस्य च गुज्यते । “प्र-तिविम्बगताः पश्यन्नृजुवक्रादिविक्रियाः । पुमान् क्रीडेत्यथा ब्रह्म तथा जीवस्थविक्रियाः” इति कल्पतरूक्तरीत्या“लोकवत्तुलीलाकैवल्यमिति” सूत्रमपि संगच्छते । अ-ज्ञानप्रतिविम्बे तस्य जीवस्यान्तःकरणरूपोऽज्ञानपरिणामभेदोविशेषाभिव्यक्तिस्थानम् सर्वतः प्रसृतस्य सवितृप्रका-शस्य दर्पण इव । अतस्तस्य तदुपाधिकत्वव्यवहारोऽपिन तावताऽज्ञानोपाधिपरित्यागः । अन्तःकरणोपाधि-परिच्छिन्नस्यैव चैतन्यस्य जीवत्वे योगिनः कायव्यूहा-धिष्ठानानुपपत्तेः । न च योगप्रभावाद्योगिनोऽन्तः-करणं कायव्यूहाभिव्यक्तियोम्यं वैपुल्यं प्राप्रोतीति तदव-च्छिन्नस्य कायव्यूहाधिष्टानत्वं युज्यत इति वाच्यम् ।“प्रदीपवदावेशस्तषा हि दर्शयतीति” शास्त्रोपान्त्याधिक-रणभाष्यादिषु कायव्यूहे प्रतिदेहमन्तःकरणस्य चक्षुरादि-वद्भिन्नस्यैव योगप्रभावात् सृष्टेरुपवर्णनात् । प्रतिविम्बेविम्बाभेदमात्रस्याध्यस्तत्वेन स्वरूपेण तस्य सत्यत्वात् नप्रतिविम्बरूपजीवस्य मुक्त्यन्वयासम्भव इति न तदतिरे-बेण सुक्त्यन्वयावच्छिन्नरूपं जीवान्तरं वा प्रतिविम्ब-जीवातिरिक्तं जीवेश्वंरबिलक्षणं कूटस्थशब्दितं चैतन्या-न्तरं कल्पनीयम् “अविनाशी वाऽरे अयमात्मेति” श्रव-णाज्जीवस्य तदुषाधिनिवृत्तौ प्रतिविम्बभावाषगमेऽपिस्वरूपं न विनश्यतीत्येतत्परं, न तदतिरिक्तकूटस्थनामकचैतन्यान्तरपरम् । जीवोपाधिनाऽन्तःकरणादिनाव-च्छिन्नं चैतन्यं विम्बभूत ईश्वर एव “यो विज्ञाने तिष्ठकित्यादि” श्रूत्वा ईश्ररस्यैव जीवसन्निधानेन तदन्तर्यामिभावेनविकारान्तरस्थानश्रवणादिति” । अता परमवच्छिन्नवाद-स्तत्र दशितः प्रसङ्गात् पूर्वमनुक्तत्वाच्चात्रोच्यते “अन्येतु रूपानुपहितप्रतिविम्बो न युक्तः सुतरां नीरूपे गगनप्रतिविम्बोदाहरणमप्ययुक्तं गगनाभोगव्यापिनि सवितृ-करमण्डले सलिले प्रतिविम्बिते गगनप्रतिविम्बत्वव्यवहा-रस्य भ्रममात्रमूलत्वात् । ध्वनौ वर्णप्रतिविम्बत्ववादो-ऽप्ययुक्तः व्यञ्जकतया सन्निधानमात्रेण ध्वनिधर्माणा-मुदात्तादिस्वराणां वर्णेष्वारोपोपपत्तेर्ध्वनेर्वर्णप्रतिविम्ब-त्वग्राहित्वकल्पनायानिःप्रमाणकत्वात् । प्रतिध्वनिरपिन पूर्वशब्दप्रतिविम्बः पञ्चीकरणप्रक्रियया पटहपयो-निधिप्रभृतिशब्दानां क्षितिसलिलादिशब्दत्वेन प्रतिध्वने-रेवाकाशशब्दत्वेन तस्यान्यशब्दप्रतिविम्बत्वायोगात् । वर्णरूपप्रतिशब्दोऽपि न पूर्ववर्णप्रतिविम्बः वर्णाभिव्यञ्जक-ध्वनिनिमित्तकप्रतिध्वनेर्मूलध्वनिवदेव वर्णाभिव्यञ्जकत्वेनो-पपत्तेस्तस्माद्घटाकाशवदन्तः करणावच्छिन्नं चैतन्यं जीवःतदनवच्छिन्नमीश्वरः । न चैवसण्डान्तवर्त्तिनश्चैतन्यस्यतत्तदन्तः करणोपाधिभिः सर्वात्मना जीवभावेनावच्छेदा-त्तदवच्छेदरहितचैतन्यरूपस्येश्वरस्याण्डाद्बहिरेव सत्त्वंस्यादिति “यो विज्ञाने विरुज्ञाने तिष्ठन्नत्यादावन्तर्यामिभावेन वि-कारान्तरवस्थानश्रवणं विरुध्यते । प्रतिविम्बपक्षे तुजलगतस्वाभाविकाकाशे सत्येव प्रतिविम्बाकाशदर्शनादेकत्रद्विगुणीकृत्य वृत्तिरुपपद्यत इति वाच्यम् । यतः प्रतिविम्ब-पक्षेऽपि उपाधावनन्तर्गतस्यैव चैतन्यस्य तत्र प्रतिविम्बोवाच्यः । न तु जलचन्द्रन्यायेन कृत्स्नप्रतिविम्ब तद-न्तर्गतभागस्य तत्र प्रतिविम्बासम्भवात् । न हि मेघा-वच्छिन्नस्याकाशस्यालोकस्य वा जले प्रतिविम्बवज्जलान्त-र्गतस्वापि तत्र प्रतिविम्बो दृश्यते । न वा मुखादीनांवहिःस्थितिसमय इव जलान्तर्निमज्जनेऽपि प्रतिवि-म्बोऽस्ति । अतो जलप्रतिविम्बं प्रति मेघाकाशादेरि-बान्तःकरणाद्युपाघिपतिविम्बं प्रति तदनन्तर्गतस्यैव वि-म्बत्वं स्यादिति विंम्बभूतस्य विकारान्तरवस्थानायोगात्ईश्वरेऽन्तर्यामिव्राह्मणाञ्जस्याभावस्तुल्यः । एतेनावच्छि-न्नस्य जीवत्वे कर्तृभोक्तृसमययोस्तत्र तत्रान्तःकरणाब-च्छेद्यचेतन्यप्रदेशस्य भिन्नत्वात् कृतहानाकृताभ्यागम-प्रसङ्ग इति मिरस्तम् । प्रतिविम्बपक्षेऽपि स्वानन्तर्गतस्यस्वसन्निहितसू चेतभ्यप्रदेशस्यान्तःकरणे प्रतिविम्यस्यबक्तव्यतया तत्र तत्रान्तःकरणस्य गमने विम्बभेदात् तत्-प्रतिविम्बस्यापि भदावज्ञ्यम्भावेन दोषतौल्यात् । नचान्तःकरणप्रतिबिम्बो जीव इतिपक्षे दोषतौत्यल्ये-ऽप्यविद्याप्रतिविम्बो जीवस्तस्य च तत्र गतिद्वारम-न्तःकरणं जलाशयव्यापिनो महामेघमण्डलप्रतिविम्बस्यतदुपरि विसृत्वरस्फीतालोक इव तत्र विशेषाभिव्यक्ति-हेतुरिति पक्षे नायं दोषः । अन्तःकरणवदविद्यायागत्य-भावेन प्रतिविम्बभेदानापत्तेरिति वाच्यम् । तथैवावच्छेदपक्षेऽप्यविद्यावच्छिन्नो जीव इत्युपगमसम्भवात् तत्रा-प्येकस्य जीवस्य क्वचित्प्रदेशे कर्तृत्वं प्रदेशान्तरे भोक्तृ-त्वमित्येवंकृतहानाकृताभ्यागमदोषापनुत्तये वस्तुतीजीवैक्यस्य शरणीकरणोयत्वेन तन्न्यायादन्तःकरणोपाधि-पक्षेऽपि वस्तुतश्चैतन्यैक्यस्य तदवच्छेदकोपाध्यैक्यस्यच तत्राभ्युपगमेन दोषनिराकरणसम्भवात् । नं चाव-च्छोदपक्षे “यथाह्ययं ज्योतिरात्मा विवस्वानपो भिन्नबहुधैकोऽनुगच्छन् । उपाधिना क्रियते भेदरूपो देवःक्षेत्रेष्वेवमजोऽयमात्मा” । “अतएवोपमाजलसूर्यकादिव-दिति” श्रुतिसूत्राभ्यां विरोधः । “अम्बुवदग्रहणान्न तथात्वम्” इत्युदाहृत सूत्रानन्तरसूत्रेण यथा सूर्य्यस्य रूपवतःप्रतिविम्बोदययोग्यता ततो विप्रकृष्टदेशं रूपवज्जलं गृ-ह्यते नैवं सर्वगतस्यात्मनः प्रतिविम्बोदययोग्यं किञ्चि-दस्ति ततो विप्रकृष्टमिति प्रतिविम्बासम्भवसक्त्वा “वृद्धिह्रासभाक्त्वम अन्तर्भावादुभयसामञ्जस्यादेवमिति” तदनन्तरसूत्रेणयथा जलप्रतिविम्बितः सूर्य्यो जलवृद्धौ वर्द्धत इव जल-ह्रासे ह्रसतीव जलचलने चलतीवेति तस्याध्यासकतद-नुरोधिवृद्धिह्रासादिभाक्त्वमित्येवं दृष्टान्तदार्ष्टान्तिकयोःसामञ्जस्यादविरोध इति स्वयंसूत्रकृतैवावच्छेदपक्षेतयोस्तात्पर्य्यकथनात् । “घटसंवृतमाकाशं नीयमाने यथाघटे । घटो नीयेत नाकाशं तद्वज्जीवो नभीपमः” ।“अंशो नाना व्यपदेशादिति” श्रुतिसूत्राभ्यामवच्छेदपक्ष-स्यैव परिग्रहाच्च । तस्मात् सर्वगतस्य चैतन्यस्यान्तःकरणा-दिनावच्छेदोऽवश्यं भावीत्यावश्यकत्वादवच्छेदो जीवइति पक्षं रोचयन्ते” ।
No entries for this word is found.
What is this? (Hidden Dictionary)
To avoid the clutter in the app, the unwanted dictionaries can be hidden to have clear view while browsing. This section shows entries from those hidden dictionaries if any.
How to hide/unhide dictionary?
Every dictionary entry will have top right corner menu . From there, you can hide or unhide dictionary. You must login to use this feature. So, KST can remember your preferences of hidden dictionaries.
