| YouTube Channel

प्रतियोगितावच्छेदक (pratiyogitAvacchedaka)

 
वाचस्पत्यम्
Sanskrit
प्रतियोगितावच्छेदक
त्रि०
त० येन रूपेण यस्याभावादौ प्रतियोगिता तादृशे धर्मे यथा घटाभावे घटस्यघटत्वरूपेण प्रतियोगिता अतस्तत्र घटत्वं प्रतियोगिता-वच्छेदकं तच्च क्वचित् एकं क्वचिदनेकं तत्र वह्निर्नास्ती-त्यत्र वह्नित्वमेकं महानसीयवह्निर्नास्तीत्यादौ महान-सीयत्वं वह्नित्वञ्चेत्यादिकमनेकमित्याकरे दृश्यम् ।येन सम्बन्धेन प्रतियोगितायाः अभावांशे भानं तादृश-सम्बन्धे यथा संयोगेन घटो नास्तीत्यादौ संयोगेनघटस्याभावांशे प्रतियोगिताभानं तत्र संयोगसम्बन्धःप्रतियोगितावच्छेदकसम्बन्ध एवमन्यत्राप्यूह्यम्