| YouTube Channel

प्रतिमुक्तः (pratimuktaH)

 
शब्दकल्पद्रुमः
Sanskrit
प्रतिमुक्तः, त्रि, (प्रतिमुच्यते स्मेति प्रति +मुच् + क्तः ।) परिहितवस्त्रादिः इत्यमरः ।२ ६५
(परित्यक्तः यथा, रघुः ४३ ।“गृहीतप्रतिमुक्तस्य धर्म्मविजयी नृपः ।श्रियं महेन्द्रनाथस्य जहार तु मेदिनीम्
”बद्धः यथा, भागवते १८ १० ।“न मृत्युपाशैः प्रतिमुक्तस्य वीराविकत्थनं तव गृह्णन्त्यभद्र
”प्रतिनिवृत्तः विच्युतः यथा, मार्कण्डेये १५ ।“नरकात् प्रतिमुक्तस्तु कृमिः पतितयाजकः
”प्रत्यर्पितः यथा, रघुः १६ ५९ ।“तद्बध्नतीभिर्मदरागशोभांविलोचनेषु प्रतिमुक्तमासाम्
”)