| YouTube Channel

प्रतिमानं (pratimAnaM)

 
Apte 1890
English
प्रतिमानं 1 A model, pattern.
2 An image, idol.
3 Likeness, similitude, similarity
Māl. 9. 3.
4 A weight.
5 The part of an elephant's head between the tusks
पृथुप्रतिमानभाग &c. Śi. 5. 36.
6 A reflection.
7 A picture.
8 Ved. An adversary.
शब्दकल्पद्रुमः
Sanskrit
प्रतिमानं,
क्ली,
(प्रतिमीयतेऽनेनेति प्रति + मि मावा + ल्युट् ।) प्रतिविम्वम् वाहित्थस्याधोभागः ।इत्यमरः १० ३६, ३९ “अस्यवाहित्थस्याधोभागो दन्तयोर्मध्यं प्रतिमान-मुच्यते प्रतिमीयते अनेन प्रतिमानं डु मिञन क्षेपे अनट्मिम्योरिति ङा प्रतिमानं प्रति-च्छाया गजदन्तान्तरालयोरिति रुद्रः ।” इतिभरतः
(यथा, महाभारते २८ २९ ।“प्रतिमानेषु कुम्भषु दन्तवेष्टेषु चापरे ।निगृहीता भृशं नागाः प्रासतोमर-शक्तिभिः
”हस्तिललाटदेशः इति महाभारतटीकायांनीलकण्ठः ४५ २७
*
सादृश्यम् ।यथा, ऋग्वेदे ३२ ।“वृष्णो वध्रिः प्रतिमानं बुभूषन् ।पुरुत्रा वृत्रो अशयद्व्यस्तः
”“प्रतिमानं सादृश्यम् ।” इति तद्भाष्ये सायनः
प्रतिनिधिः यथा, ऋग्वेदे १८ १२ ।“नास्य शत्रुर्न प्रतिमानमस्ति ।”“प्रतिमानं प्रतिनिधिर्नास्ति ।” इति तद्भाष्येसायनः
*
दृष्टान्तम् यथा, भागवते ।७ ३५ ।“यं साधुगाथासदसि रिपवोऽपि सुरा नृप ! ।प्रतिमानं प्रकुर्व्वन्ति किमुतान्ये भवादृशाः
”तथा महाभारते ३६ ।“उग्रायुधश्च विक्रान्तः प्रतिमानं धनुष्मताम्
”धान्यादिपरिमाणनिर्द्धारार्थप्रस्थद्रोणादिकम् ।यथा, याज्ञवल्क्ये १०० ।“तुलाधारणविद्वद्भिरभियुक्तस्तुलाश्रितः ।प्रतिमानसमीभूतो रेखां कृत्वावतारितः
”मनुसंहितायान्तु ४०३ श्लोके प्रतीमानंइत्येव दृश्यते
)