| YouTube Channel

प्रतिभूः (pratibhUH)

 
Apte
English
प्रतिभूः [pratibhūḥ], A bail, surety, guarantee
सौभाग्यलाभप्रतिभूः पदानाम् Vikr.1.9
Y.*
2.1, 54
N.*
14.4
सहग्राहिणः प्रतिभुवः ...... अस्य कर्मच्छेदं वहेयुः Kau.
A.
2.7.25
यच्च प्रतिभ्वो विभवे$पि शक्ये प्रार्थयन्ति स्म नराः परेभ्यः Bu. Ch.2.1
यदि मे प्रतिभूश्चतुर्षु राजन् भवसि त्वं तपोवनं श्रयिष्ये Bu. Ch.5.34.
Apte 1890
English
प्रतिभूः A bail, surety, guarantee
सौभाग्यलाभप्रतिभूः पदानां Vikr. 1. 9
Y. 2. 10, 54
N. 14. 4.
Apte Hindi
Hindi
प्रतिभूः
पुं*
- प्रति+भू+क्विप्
"जमानत, प्रतिभूति, जमानत देने वाला, विश्वास"
Wordnet
Sanskrit
Synonyms:
लग्नकः, प्रतिभूः
noun
प्रत्याभूतये दत्तं धनम्।
"500 रुप्यकाणां लग्नकं दत्त्वा एव राकेशः प्रत्याभूतिं प्राप्तवान्।"
शब्दकल्पद्रुमः
Sanskrit
प्रतिभूः,
पुं,
(प्रतिरूपः प्रतिनिधिर्वा भवतीति ।प्रति + भू + “भुवः संज्ञान्तरयोः ।” ।१७९ इति क्विप् “धनिकाधमर्णयोरन्तरे यस्ति-ष्ठति विश्वासार्थं प्रतिभूः ।” इति सिद्धान्त-कौमुदी
) लग्नकः इत्यमरः १० ४४
जामिन् इति पारस्यभाषा
(यथा, प्रद्युम्न-विजये अङ्के ।“यश्चैकः प्रतिभूः फलेषु कृतिनां यज्ञेषु यज्ञेश्वरोविघ्नस्तोमतमःसमूहतपनः सोऽयं स्वयंश्रीहरिः
”)तस्य कर्त्तव्यत्वं यथा, --“सभापतेः कर्त्तव्यमाह कात्यायनः ।‘अथ चेत् प्रतिभूर्नास्ति वादयोग्यस्तु वादिनोः ।स रक्षितो दिनस्यान्ते दद्याद्भृत्याय वेतनम्
’प्रतिभवति तत्कार्य्ये तद्वद्भवतीति प्रतिभूर्लग्नकः ।वादयोग्यः विवादफलस्य साधितधनादिदानस्यदण्डदानस्य क्षमः वादिनोः भाषावादिनःउत्तरवादिनश्च तथा याज्ञवल्क्यः ।‘उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्य्यनिर्णये ।प्रतिभुवस्त्वभावे राज्ञा संज्ञपनं तयोः
’राज्ञा संज्ञपनं दण्डतुल्याधिकरणम् निर्णयस्यकार्य्ये धनादिदाने राजदन्तादित्वात् कार्य्य-शब्दस्य पूर्व्वनिपातः भृत्यस्तद्रक्षको राज-नियुक्तः ।” इति व्यवहारतत्त्वम्